| YouTube Channel

निहितं (nihitaM)

 
शब्दकल्पद्रुमः
Sanskrit
निहितं, त्रि, (नि + धा + क्त “दधातेर्हिः ।”७ ४२ इति हिः ।) स्थापितम् इतिहलायुधः
यथा, महाभारते ३१२ ११२ ।“धर्म्मस्य तत्त्वं निहितं गुहायांमहाजनो येन गतः पन्थाः
कृदन्तरूपमाला
Sanskrit
1 {@“डु धाञ् धारणपोषणयोः”@} 2 3 ‘डु धाञ् दानधारणयोः’ इति क्षीरस्वामी।
निरुक्ते 4 “रत्नधात- मम् = रमणीयानां धनानां दातृतमम्।” इति विवरणमप्यत्रैवानुकूलतया दृश्यते।
मैत्रैयरक्षितप्रभृतिभिरस्य धातोर्दानार्थत्वमष्यङ्गीकृतम्।]] ‘घेटो धयति पानार्थे, धाञो धत्ते दधात्यपि।’ 5 इति देवः।
6 धायकः-यिका, 7 धापकः-पिका, 8 धित्सकः-त्सिका, 9 देधीयकः-यिका
धाता-धात्री, धापयिता-त्री, धित्सिता-त्री, देधीयिता-त्री
10 प्रणिदधत्-दधती, धापयन्-न्ती, धित्सन्-न्ती
-- धास्यन्-न्ती-ती, धापयिष्यन्-न्ती-ती, धित्सिष्यन्-न्ती-ती
-- 11 प्रणिदधानः, धापयमानः, धित्समानः, देधीयमानः
धास्यमानः, धापयिष्यमाणः, धित्सिष्यमाणः, देधीयिष्यमाणः
रत्नधाः-धौ-धाः
-- -- -- 12 हितम्- 13 प्रणिहितः-हितवान्, धापितः, धित्सितः, देधीयितः-तवान्
14 15 प्रधः, 16 दधः 17, 18 धायः, 19 किष्किन्धा 20, 21 धामा, 22 धीवा-धीवरी, बहुधीवरी, 23 शिरोधिः-विधिः, प्रणिधिः, बालधिः 24 -उपाधिः, 25 भूतधात्री, 26 श्रद्धालुः, 27 28 विधेयः, 29 विधाता, धापः, धित्सुः, 30 दाधाः
31 धातव्यम्, धापयितव्यम्, धित्सितव्यम्, देधीयितव्यम्
प्रणिधानीयम्, धापनीयम्, धित्सनीयम्, देधीयनीयम्
धेयम्, 32 धाय्या 33 34 धाप्यम्, धित्स्यम्, देधीय्यम्
ईषद्धानम्-दुर्धानम्-सुधानम्
-- -- -- 35 धीयमानः, धाप्यमानः, धित्स्यमानः, देधीय्यमानः
36 धात्री, 37 उपधिः-निधिः, 38 अन्तर्धिः- 39 उदधिः सन्धिः- 40 सुषन्धिः-दुष्षन्धिः, 41 दधि
42 धायः, 43 हित्रिमम् 44 धापः, धित्सः, देधीयः
धातुम्, धापयितुम्, धित्सितुम्, देधीयितुम्
हितिः, 45 अभिधा- 46 श्रद्धा, 47 उपधा, धापना, धित्सा, देधीया
प्रणिधानम्-अपिधानम्- 48 पिधानम्, धापनम्, धित्सनम्, देधीयनम्
हित्वा, धापयित्वा, धित्सित्वा, देधीयित्वा
49 प्रधाय-निधाय, प्रधाप्य, प्रधित्स्य, प्रदेधीय्य
50 घृतनिधायं निहितं 51, 52 गोत्राभिधायम्, 53 धायम् २, हित्वा २, धापम् २, धापयित्वा २, धित्सम् २, धित्सित्वा २, देधीयम्
देधीयित्वा
54 तुन्प्रत्यये रूपम्।
दधात्यर्थम्, धीयतेऽस्मिन्नर्थ इति वा धातुः = शब्दप्रकृतिः, पर्वतनिस्रावो वा।]] धातुः, 55 इति कूप्रत्ययान्तो निपातितः।
एवं शकन्धूरपि।
धातव्याऽसौ इति दिधिषूः।
अस्यैव धातोः कूप्रत्यये द्विर्वचनम्, षुगागम इत्वं निपात्यन्ते।]] कर्कन्धूः-शकन्धूः-दिधिषूः, 56 आनकप्रत्यये रूपम्।
धानकः = सुवर्णपरिमाणम्।]] धानकः, 57 क्युप्रत्यये रूपम्।
निधनम् = विनाशः।
बाहुलकाद् धनमित्यपि क्युप्रत्यय एव बोध्यः।]] निधनम्-धनम्, 58 59 इति नप्रत्यये रूपम्।
धीयन्ते यासां विकारैः प्राणिन इति धानाः = यवविकाराः।]] धानाः, 60 इति यन्प्रत्यये नुडागमो विधीयते।]] धान्यम्, 61 इति क्रन्प्रत्यये ईत्वे रूपम्।
दधाति आपत्सु चित्तमिति धीरः = सत्त्ववान्।]] धीरः, 62 इति विपूर्वाद्धाञोऽसिप्रत्ययः, वेध इति इत्ययं चादेशः।
विदधाति प्रजाः इति वेधाः = ब्रह्मा।]] वेघाः, 63 इत्येभिः असिप्रत्ययो विधीयते।
डिच्चायम्, तेन टेर्लोपः।
वयोधाः = प्राणी चन्द्रश्च।
पयोधाः = समुद्रः।
पुरोधाः = उपाध्यायः।]] वयोधाः-पुरोधाः।
प्रासङ्गिक्यः
01
=>
(८९५)
02
=>
(३-जुहोत्यादिः-१०९२-सक। अनि। उभ।)
03
=>
[[[अ]
04
=>
(७-१५)
05
=>
(श्लो। ६)
06
=>
[[१। ण्वुलि, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुल्प्र- भृतिष्वपि ज्ञेयम्।]]
07
=>
[[२। ण्यन्तात् ण्वुलि, आदन्तलक्षणः पुगागमः। ण्यन्ते सर्वत्र एवमेवेति ज्ञेयम्।]]
08
=>
[[३। ‘दाधा ध्वदाप्’ (१-१-२०) इति घुसंज्ञायाम् ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना सन्नन्ते आकारस्य इस्। ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
09
=>
[[४। यङन्ताण्ण्वुलि, ‘घुमास्था--’ (६-४-६६) इत्यादिना ईत्वे, द्विर्वचनादिकम्। अभ्यासे गुणः। यङन्ते सर्वत्रैवमेव।]]
10
=>
[[५। शतरि, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति शपः श्लुः। ‘श्लौ’ (६-१-१०) इति द्विर्वचनम्। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य नेः णत्वम्। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः।]]
11
=>
[[आ। ‘अस्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नन् पुरो हरितकं मुदमादधानः।’ शि। व। ५। ५८।]]
12
=>
[[६। निष्ठायाम्, ‘दधातेर्हिः’ (७-४-४२) इति प्रकृतेः हिः आदेशः। एवं तकारादौ किति प्रत्यये सर्वत्र (क्त्वा, क्तिन्प्रभृतिषु) ज्ञेयम्।]]
13
=>
[[B। ‘ततः प्रणिहितः स्वार्थे राक्षसेन्द्रं बिभीषणः।।’ भ। का। ९। ९९।]]
14
=>
[पृष्ठम्०७९०+ ३२]
15
=>
[[१। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
16
=>
[[२। ‘ददातिदधात्योर्विभाषा’ (३-१-१३९) इति शप्रत्यये, शित्त्वात् शपि, तस्य श्लौ, द्विर्वचने, शप्रत्ययस्य सार्वधातुकत्वेन ‘श्नाऽभ्यस्तयोः--’ (६-४-११२) इत्या- कारलोपे दधः इति रूपम्।]]
17
=>
[[आ। ‘नभस्स्पृगूर्मिस्तितरीषतोऽस्य हरे दधस्यैकपदीमदात् सः।।’ वा। वि। ३। ३८।]]
18
=>
[[३। दधातेरस्य शप्रत्ययस्य विभाषितत्वात् पक्षे, ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्यये, युगागमे धायः इति रूपम्।]]
19
=>
[[४। किं किं दधातीत्यर्थे ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदे कर्तरि कप्रत्यये, ‘पारस्करप्रमृतीनि च’ (६-१-१५७) इति सुडागमे, किमो मकारस्य लोपः षत्वं भवति।]]
20
=>
[[B। ‘किष्किन्धाद्रिसदात्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्।।’ भ। का। ६। १२१।]]
21
=>
[[५। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति निरुपपदादस्मात् मनिन्प्रत्यये रूपम्।]]
22
=>
[[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति निरुपपदादस्मात् क्वनिप्प्रत्यये, ईत्वे, रूपम्। स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीब्रेफौ। बहुधीवा बहुधीवरी इत्यत्र तु ‘अनो बहुव्रीहेः’ (४-१-१२) इति निषेधात् ङीबभावः, ‘डाबुभाभ्या- मन्यतरस्याम्’ (४-१-१३) इति पाक्षिकः ङीप् रेफः डाप् भवति।]]
23
=>
[[७। शिरो धत्ते इति शिरोधिः = ग्रीवा। बाहुलकात् कर्तरि किप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। केचित्तु शिरो धीयते अस्यामिति विगृह्य ‘कर्मण्यधिकरणे च’ (३-३-९३) इति किप्रत्यये निष्पादयन्ति। विधिः, प्रणिधिः इत्यादिषु तु कर्तर्येव किप्रत्ययः बाहुलकात्।]]
24
=>
[[C। ‘आनिन्यिरे श्रेणिकृतास्तथाऽन्यैः परस्परं चालधिसंनिबद्धाः।।’ भ। का। ११। ४२।]]
25
=>
[[८। भूतानि धत्ते इति भूतधात्री = पृथिवी। बाहुलकात् कर्तरि ष्ट्रन्प्रत्यये, स्त्रियां षित्त्वात् ङीष्।]]
26
=>
[[९। तच्छीलादिषु कर्तृषु ‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्’ (३-२-१५८) इत्यालुच्प्रत्ययः।]]
27
=>
[[ड्। ‘श्रद्धालुर्भ्रातुरङ्गानि चन्दनेष्वप्यरोचकी।।’ अनर्घराघबे। ७। १४३।]]
28
=>
[[१०। ‘अर्हे कृत्यतृचश्च’ (३-३-१६९) इति कर्तरि यत्प्रत्ययः। ‘ईद्यति’ (६-४-६५) इति धातोरीत्वे गुणः।]]
29
=>
[[११। विदधातीति विधाता = ब्रह्मा। ‘तृन्’ (३-२-१३५) ताच्छीलिकस्तृन्प्रत्ययः।]]
30
=>
[[१२। यङन्तात् पचाद्यचि यङो लुकि ईत्वाभावे, अभ्यासे ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः।]]
31
=>
[पृष्ठम्०७९१+ २७]
32
=>
[[१। सामिधेनीरूपऋत्विग्विशेषवाचित्वे सति, ‘पाय्यसान्नाय्यनिकाय्यधाय्या मानह- विर्निवाससामिधेनीषु’ (३-१-१२९) इत्यनेन ण्यत् आयादेशश्च निपात्येते। ‘धाय्येति सर्वा सामिधेन्युच्यते, किं तर्हि? काचिदेव। रूढिशब्दो ह्ययम्। तथा असामिधेन्यामपि दृश्यते-- ‘धाथ्याः शंसत्यग्निर्नेता त्वं सोमक्रतुभिः।’ इति काशिकाऽत्रानुसन्धेया। ‘सामिधेन्यभिधास्वृक्षु काचिद्धाय्येति कथ्यते। शस्त्रादिष्वपि धाय्याऽस्ति तेनैतदुपलक्षणम्।।’ इति प्रक्रियासर्वस्व श्लोकोऽ- प्यत्रानुसन्धेयः।]]
33
=>
[[आ। ‘मदनानलबोधने भवेत् खग, धाय्या धिगधैर्यधारिणः।।’ नैषधे। २। ५९।]]
34
=>
[ऋक्]
35
=>
[[२। यगन्ताच्छानचि, ‘घुमास्था--’ (६-४-६६) इतीत्वम्।]]
36
=>
[[३। धीयते = धार्यते शिरसीति धात्री = आमलकी। ‘धः कर्मणि ष्ट्रन्’ (३-२-१८१) इति ष्ट्रन्प्रत्ययः। षित्त्वात् स्त्रियां ङीष्।]]
37
=>
[[४। ‘उपसर्गे घोः किः’ (३-३-९२) इति किप्रत्यये आकारलोपे रूपम्। एवं निधिरित्यादिष्वपि ज्ञेयम्।]]
38
=>
[[५। ‘अन्तश्शब्दस्य अङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्’ (वा। १-४-६५) इत्युप- सर्गसंज्ञायां किप्रत्यये रूपम्। एवं अन्तर्धा अन्तर्णिधानम् इत्यत्रापि अङ्- विधौ णत्वविधौ चोपसर्गत्वं ज्ञेयमन्तश्शब्दस्य।]]
39
=>
[[६। उदकं धीयतेऽत्रेति उदधिः = समुद्रः। ‘कर्मण्यधिकरणे च’ (३-३-९३) इति अधिकरणे किप्रत्ययः। ‘उदकस्योदः संज्ञायाम्’ (६-३-५७) इति उदक- शब्दस्य उदभावः। असंज्ञायां तु ‘पेषंवासवाहनधिषु च’ (६-३-५८) इति उदभावः--इति विशेषः।]]
40
=>
[[७। सुषामादित्वात् (८-३-९८) सुषन्धिः दुष्षन्धिः इत्यत्र षत्वम्।]]
41
=>
[[८। ‘भाषायां धाञ्--’ (वा। ३-२-१७१) इत्यादिना किः किन् वा प्रत्ययः। तस्य लिड्वद्भावातिदेशात् द्विर्वचनादिकं भवति।]]
42
=>
[पृष्ठम्०७९२+ ३२]
43
=>
[[१। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, तेन निवृत्तम् इत्यर्थे, ‘क्त्रेर्मम्नि- त्यम्’ (४-४-२०) इति मप्प्रत्यये, हिभावे रूपमेवम्।]]
44
=>
[[आ। ‘निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः।’ भ। का। १। १३।]]
45
=>
[[२। ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]
46
=>
[[३। ‘श्रढन्तरोरुपसर्गवद्वृत्तिः’ (वा। १-४-५९) इति वचनादुपसर्गभावेऽङ्।]]
47
=>
[[B। ‘चिन्तावन्तः कथां चक्रुरुपधामेदभीरवः।’ भ। का। ७। ७४।]]
48
=>
[[४। अपिपूर्वकात् धाञो ल्युटि ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।’ इति वचनात् अपिघटिताकारस्य लोपे पिधानम् इति भवति। अन्येषां मते तु अपिघानम् इत्येव।]]
49
=>
[[५। ‘न ल्यपि’ (६-४-६९) इतीत्वनिषेधः। ‘अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते’ (परिभाषा ५३) इति न्यायात् पूर्वमेव ल्यपः प्रवृत्त्या तादिकितोऽभावात् प्रकृतर्हिरादेशः।]]
50
=>
[[६। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुलि युगागमे, अस्यः कषादित्वात् ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति पूर्वप्रयुक्तधातोरनुप्रयोगः।]]
51
=>
[जलम्]
52
=>
[[७। ‘द्वितीयायां च’ (३-४-५३) इति णमुल्। अत्र सूत्रे पूर्वसूत्रात् ‘परीप्सायाम्’ इति नानुवर्तते इति पदमञ्जर्यादौ स्पष्टम्।]]
53
=>
[[C। {??} दित्वा करुणं सशब्दे गोत्रभिवायं सरितं समेत्य।’ भ। का। ३।५०। ]]
54
=>
[[८। औणादिके [द। उ। १-१२२]
55
=>
[[९। कर्क दधातीति कर्कन्धूः = बदरीवृक्षः। ‘अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः’ [द। उ। १। १७६]
56
=>
[[१०। औणादिके [द। उ। ३-२७]
57
=>
[[११। निपूर्वकादस्मात् औणादिके [द। उ। ५। २६]
58
=>
[पृष्ठम्०७९३+ २३]
59
=>
[[१। ‘धापृ--’ [द। उ। ५-३९]
60
=>
[[२। ‘दधातेर्यन् नुट् च’ [द। उ। ८। १९]
61
=>
[[३। ‘सुसूधा--’ [द। उ। ८-४२]
62
=>
[[४। ‘विधाञो वेध च’ [द। उ। ९-८४]
63
=>
[[५। ‘वयसि धाञः’, ‘पयसि च’ ‘पुरसि च’ [द। उ। ९-८९-९०-९१]