| YouTube Channel

निस्पन्दः (nispandaH)

 
शब्दकल्पद्रुमः
Sanskrit
निस्पन्दः,
पुं,
(नि + स्पन्द + भावे घञ् ।) स्पन्द-नम् इति त्रिकाण्डशेषः
(यथा, महाभारते ।१२ ३३५ ।“मेरोः सहस्रैः हि योजनानांद्वात्रिंशतोर्द्धं कविभिर्निरुक्तः ।अनिन्द्रियाश्चानशनाश्च तत्रनिस्पन्दहीनाः सुसुगन्धिनस्ते
”)
निस्पन्दः, त्रि, (निवृत्तः स्पन्दश्चक्षुपलकादिस्पन्दनंयस्मात् ।) स्पन्दरहितः ईषत्कम्पशून्यः यथा, “कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशिष्टःकार्णाटीचीनपीनस्तनवसनदशान्दोलनिस्पन्द-मन्दः
”इति विक्रमादित्यराजसभायां राक्षसपद्यम्