| YouTube Channel

निस्तेजाः (nistejAH)

 
शब्दकल्पद्रुमः
Sanskrit
निस्तेजाः, [स्] त्रि, (निर्गतं तेजो यस्मादिति ।)तेजोरहितः यथा, --“इदं कवचमज्ञात्वा कवचान्यं पठेत्तु यः ।सर्व्वं तस्य वृथा देवि ! निस्तेजो सिद्धिदम्
”इति ब्रह्मजामलीयगायत्त्रीकवचधृतम्
(यथा देवीभागवते ११ ।“कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिताः ।धनं सर्व्वं गृहीतञ्च निस्तेजाश्चार्ज्जुनोऽभवत्
”)