| YouTube Channel

निसृष्टार्थः (nisRSTArthaH)

 
Wordnet
Sanskrit
Synonyms:
दूतः, सन्देशहरः, सन्देशहारकः, वार्ताबरः, वार्तायनः, वाचिकहरः, आख्यायकः, अध्वगः, प्रयोज्यः, सञ्चारकः, चारः, धावकः, समाचारदायकः, कार्यङ्करः, निसृष्टार्थः
noun
यः सन्देशं हरति।
"अङ्गदः रामस्य दूतः भूत्वा रावणस्य पार्श्वे गतः। "
शब्दकल्पद्रुमः
Sanskrit
निसृष्टार्थः,
पुं,
(निसृष्टो न्यस्तोऽर्थः प्रयोजनंयस्मिन्निति ।) दूतविशेषः यथा, --“निसृष्टार्थो मितार्थश्च तथा सन्देशहारकः ।कार्य्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथा त्रिधा
”तल्लक्षणं यथा, --“उभयोर्भावमुन्नीय स्वथं वदति चोत्तरम् ।सुश्लिष्टं कुरुते कर्म्म निसृष्टार्थस्तु स्मृतः
”इति साहित्यदर्पणे परिच्छेदः
धनायव्ययपालनादौ नियुक्तः यथा बृहस्पतिः ।“यः स्वामिना नियुक्तोऽपि धनायव्ययपालने ।कषीदकृषिबाणिज्ये निसृष्टार्थस्तु स्मृतः
”इति व्यवहारतत्त्वम्
पुरुषविशेषः तस्य लक्षणं यथा, --“धीरः स्थिरमतिः शूरः स्वामिकार्य्यविधायकः ।स्वपौरुषप्रकाशी निसृष्टार्थेः उच्यते
”इति सङ्गीतदामोदरः