| YouTube Channel

निष्पद (niSpada)

 
Capeller Eng
English
निष्पद
a.
footless.
Monier Williams Cologne
English
निष्—पद
mfn.
id.
निष्—पद
n.
(with, यान) a vehicle moving without feet (as a ship
&c.
),
L.
Monier Williams 1872
English
निष्-पद, अस्, आ, अम्, having no feet.
—निष्-
पद-यान, अम्, n. a vehicle moving without feet
(as a ship &c.).
Apte Hindi
Hindi
निष्पद
वि* निस्-पद -
बिना पैरों का
निष्पदम्
नपुं*
निस्-पदम् -
एक गाड़ी जो बिना पैरों या बिना पहियों के चले
Shabdartha Kaustubha
Kannada
निष्पद
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕಾಲುಗಳಿಲ್ಲದವನು
व्युत्पत्तिः - > निर्गतं पदं पादो यस्य
निष्पद
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕಾಲು (ಚಕ್ರ)ಗಳಿಲ್ಲದ ವಾಹನ /ಹಡಗು ಮೊದಲಾದುದು
प्रयोगाः - > "नौकाद्यं निष्पदं यानं तस्य लक्षणमुच्यते अश्वादिकं तु यद्यानं स्थले सर्वं प्रतिष्ठितम् जले नौकैव यानं स्यादतस्तां यत्नतो वहेत् ।"
निष्पद
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಸ್ಥಾನವಿಲ್ಲದ /ಆಶ್ರಯವಿಲ್ಲದ
प्रयोगाः - > "निष्पदस्य कलेस्तत्र स्थानदानाद्विभीतकम् कलिद्रुमः परं नासीदासीत्कल्पद्रुमोऽपि सः ॥"
उल्लेखाः - > नैष० १७-२१३
L R Vaidya
English
nizpada {% (I) a. %} having no foot.
nizpada {% (II) n. %} a vehicle moving without feet.
वाचस्पत्यम्
Sanskrit
निष्पद
न०
निर्गतं पदं पादोऽस्य प्रा० ब० षत्वम् पादहीने२ तादृशयाने नौकादौ युक्तिकल्पतरुः ।निष्पदयानञ्च नौकादिरूपं तद्विवरणमुक्तं तत्र यथा “नौ-काद्यं निष्पदं यानं तस्य लक्षणमुच्यते अश्वादिकन्तु यद्यानं स्थले सर्वं प्रतिष्ठितम् जले नौकैव यानं स्याद-तस्तां यत्नतो वहेत्” तद्घटनादिकालो यथा “सुवारवेलातिथिचन्द्रयोगे चरे विलग्ने मकरादिषट्के ऋक्षे-ऽन्त्यसप्तव्यतिरेकतोऽन्ये वदन्ति नौकाघटनादि कर्म ।अश्विखरांशुसुधानिधिपूर्वामित्रधनाच्युतभे शुभलग्ने ।तारकयोगतिथीन्दुविशुद्धौ नौगमनं शुभदं शुभवारे ।वृक्षायुर्वेदगदिता वृक्षजातिश्चतुर्विधा समासेनैवगदितं तेषां काष्ठं चतुर्विधम्” तद्यथा “लघु यत्कोमलं काष्ठं सुघटं व्रह्मजाति तत् दृढाङ्गं लघुयत् काष्ठमघटं क्षत्रजाति तत् कोमलं गुरु यत् काष्ठंवैश्यजाति तदुच्यते दृढाङ्गं गुरु यत् काष्ठं शृद्रजातितदुच्यते लक्षणद्वययोगेन द्विजातिकाष्ठसंग्रहः ।क्षत्रियकाष्ठैर्घटिता भोजमते सुखसम्पदि नौका अन्येलघुभिः सुदृढैर्विदधति जलदुष्पदे नौकाम् विभिन्न-जातिद्वयकाष्ठजाता श्रेयसे नापि सुखाय नौका ।नैषा चिरं तिष्ठति भुज्यते विभिद्यते वारिणि मज्जतेच सिन्धुगाद्याऽर्हति लौहवन्धं तल्लोहकान्तै-र्हियते हि लौहम् विपद्यते तेन जलेषु नौका गुणेनबन्धं निजगाद भोजः” अथ लक्षणानि “सामान्यञ्चविशेषश्च नौकाया लक्षणद्वयम्” तत्र सामान्यम् ।“राजहस्तमितायामा तत्पादपरिणाहिनो ताव-देवोन्नता नैका क्षुद्रेति गदिता बुधैः अतः सार्द्धमि-तायामा तदर्द्धपरिणाहिनी त्रिभागेणोन्नता नौकामध्यमेति प्रचक्षते क्षुद्राऽथ मध्यमा भीमा चपलापटला भया दीर्घा पत्रपुटा चैव गर्भरा मन्वरातथा नौकादशंकमित्युक्त राजहस्ताद्यनुक्रमात् ।एकैकवृद्धैः सार्द्धैश्च विजानीयाद् द्वयं द्वयम् उन्नतिश्चप्रवीणा हस्तादर्द्धांशसम्मिता अत्र भीमा भयाचैव गर्भराख्या शुभप्रदा मन्थरा परतोयास्तु तासामेवाप्स्वधोगतिः तासां गुणस्तु संक्षेपात् दृढता चप्रकीर्त्तिता” अथ विशेषः “दीर्घा चैवोन्नता चेतिविशेषे द्विविधा भिदा तत्र दीर्घा यथा “राजहस्त-द्वयायामा अष्टांशपरिणाहिनी नौकेयं दीर्घिकानाम दशांशेनोन्नतापि दीर्घिका तरणिर्लोलागत्वरा गामिनी तरिः जङ्घाला प्लाविनी चैव धारिणीवेगिनी तथा राजहस्तैकैकवृद्ध्या नौकानामानिवै दश उन्नतिः परिणाहश्च दशाष्टांशमितौ क्रमात् ।अत्र लोला गामिनी प्लाविनी दुःखदा भवेत् ।लोलायमानामारभ्य यावत् भवति गत्वरा लोलायाःफलमाधत्ते एवं सर्वासु निर्णयः वेगिन्याः परतोया तु साखिलायोत्तरा तथा” भोजोऽपि “नौकादीर्घंयथेच्छं स्यात् तत्रैतानि विवर्जयेत् हस्तसंख्या परि-त्याज्या वसु वेद ग्रहोत्तरैः षष्ट्युत्तरमिता नौकाकुलं हन्ति वलं धनम् नवतेरुत्तरे यापि या चत्वा-रिंशतः परा” यावदपरदशकं तावदेव तत् फलमिति ।अथोन्नता “राजहस्तद्वयमिता तावत् प्रसरणो-न्नता इभमूर्द्धाभिधा नौका क्षेमाय पृथिवीभु-जाम् ऊर्द्ध्वानूर्द्ध्वा स्वर्णमुखी शर्भिणी मन्थरा तथा ।राजहस्तैकैकवृद्ध्या नाम पञ्च त्रयं भवेत् अत्रानूर्द्ध्वागर्भिणी निन्दितं नाम युग्मकम् मन्थरायाः परा-यास्तु ताः शुभाय यथोद्भवम्” भोजोऽपि बाणा-ग्न्युत्तरतो मानं नौका नाम शुभा वहेत् पञ्चाशदूर्द्ध्वादुल्लासं धननाशं त्रयोर्द्धतः इत्युन्नता “घात्वादौ ना-मतो वक्ष्ये निर्णयं तरिसंश्रयम् कनकं रजतं ताम्रंत्रितयं वा यथाक्रमम् ब्रह्मादिभिः परिन्यस्य नौका-चित्रणकर्मणि चतुःशृङ्गा त्रिशृङ्गा वा द्विशृङ्गा चैकशृङ्गिणी सितरक्तपीतनीलवर्णास्ताःस्युर्यथाक्रमम् ।केशरी महिषो नागो द्विरदो व्याघ्र एव पक्षीभेको मनुष्यश्च एतेषां वदनाष्टकम् नावां सुखोपरि-न्यस्य आदित्यादिद्रशाभुवाम् कलशो दर्पणश्चन्द्रस्त्रैदशानां महीभुजाम् हंसः केकी शुकः सिंहोगजोऽहिर्व्याव्रषट्पदौ आदित्यादिदशाजातनौको-परि परिन्यसेत् नौकासु मणिविन्यासो विज्ञेयोनवदण्डवत् सुमुक्तास्तवकैर्युक्ता नौका स्यात् सर्वतोभद्रा तत्संख्या चेदथ रसवेदद्वयसम्मिता क्रमशः ।कनकादीनां माला जयमालेति गद्यते सद्भिः ब्रह्म-क्षत्रे द्वितये एकैके वैश्यशूद्रयोनी निर्गृहं सगृहंबाध तत्सर्वं द्विविधं भवेत् निर्गृहं पूर्वमुद्दिष्टं सगृ-हाणि यथा शृणु सगृहा त्रिविधा प्रोक्ता सर्वमध्या-श्रमन्दिरा सर्वतो मन्दिरं यत्र सा ज्ञेया सर्वमन्दिरा ।राज्ञां कोशाश्चनारीणां फलमत्र प्रशस्यते मध्यतो म-न्दिरं यत्र सा ज्ञेया मध्यमन्दिरा राज्ञां विलासया-त्रादिवर्षासु प्रशस्यते अग्रतो मन्दिरं यत्र सा ज्ञेयाह्यग्रमन्दिरा चिरप्रवासयात्रायां रणे काले थना-त्यये मन्दिरमानं नौकाप्रसरत एवार्द्धभागतो न्यू-नम्” भोजस्तु दीर्घवृत्तवसुषड्दिवाकरानेकदिङ्नवमिता यथाक्रमम् राजपञ्चभुजसम्मितोन्नतिर्म-न्दिरे तरिगते महीभुजाम् भास्करादिकदशाभुवांपुनर्धातुनिर्णयनमत्र पूर्ववत् पताकाकलसादीनां नि-र्णयो नवदण्डवत् काष्ठजं धातुजं चेति मन्दिरं द्विविधंभवेत् काष्ठजं सुखसम्पत्त्यै विलासे धातुजं मतम् ।अत्र शय्यासनादीनां मन्थरोल्लोचयोरपि अन्येशाञ्चैवमुनिभिर्निर्णयः पूर्ववन्मतः दिङ्मात्रमिदमुद्दिष्टं नौका-लक्षणमग्रजम् प्रधानेष्वेव नियमो अप्रधाने नि-र्णयः लघुता दृढता चैव गामिताऽच्छिद्रता तथा ।समतेति गुणोद्देशो नौकानां सम्प्रकाशितः एवं वि-चिन्त्य यो राजा नौकायानं करोति चिरंसुखमाप्नोति विजयं समरे श्रियम् योऽज्ञानादन्यथामानं नौकानां कुरुते नृपः तस्यैतानि विनश्यन्तियशोवीर्यं बलं धनम्” जथन्यजलयानानि यथा “नौ-कान्यतो जले यानं जघन्यमिति गद्यते तद्देहावह-वस्ते तु पाश्चात्त्यानां प्रकीर्त्तिताः द्रोणीरूपन्तु यद्-यानं द्रोणीयानं तदुच्यते घटीमिर्घटितं यानं घटीनौकेति गद्यते तुम्बाद्यैस्तु फलैर्यानं फलयानं प्रचक्ष्यते ।चर्मभिस्थूलपूर्णैर्यच्चर्मयानं तदुच्यते यानं यल्लघुभि-र्वृक्षैर्वृक्षयानं तदुच्यते जन्तुनिः सलिले यानं जन्तुयानंप्रचक्ष्यते बाहुभ्यां सन्तरेद् वारि जघन्येषु निर्णयः”
Capeller
German
निष्पद fußlos.