| YouTube Channel

निष्ठितं (niSThitaM)

 
शब्दकल्पद्रुमः
Sanskrit
निष्ठितं, त्रि, (नि + स्था + क्तः ।) नितरां स्थितम् ।यथा, भागवते ३६ ।“देवद्विषां निगमवर्त्मनि निष्ठितानांपूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः ।लोकान् घ्नतां मतिविमोहमतिप्रलोभंवेशं विधाय बहुभाष्यत औपधर्म्म्यम्
”“देवद्विषां दैत्यानां निष्ठितानां नितरां स्थिता-नाम् ।” इति श्रीधरस्वामी
(निष्ठा जाता-स्येति तारकादित्वादितच् ।) निष्ठाविशिष्टः ।निश्चयेन स्थितश्च
(सम्यक्ज्ञाता यथा, रामायणे १४ ।“रक्षिता स्वस्य धर्म्मस्य स्वजनस्य रक्षिता ।वेदवेदाङ्गतत्त्वज्ञो धनुर्व्वेदे निष्ठितः
”)