| YouTube Channel

निष्क्रान्तः (niSkrAntaH)

 
शब्दकल्पद्रुमः
Sanskrit
निष्क्रान्तः, त्रि, (निर् + क्रम + क्तः ।) निर्गतः ।यथा, मार्कण्डेये ८७ ।“भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।काली करालवदना विनिष्क्रान्तासिपाशिनी
”(यथाच, महाभारते १३ ४५ ।“निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे ।नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव
”)