| YouTube Channel

निष्क्रमणं (niSkramaNaM)

 
Apte 1890
English
निष्क्रमणं 1 Going forth or out.
2 = निष्क्रम (3) above
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् Ms. 2. 34.
शब्दकल्पद्रुमः
Sanskrit
निष्क्रमणं,
क्ली,
(निस् + क्रम + भावे ल्युट् ।)दशसंस्कारान्तर्गतसंस्कारविशेषः तदनुष्ठानंयथा, जाते कुमारे जन्मवासराद्यस्तृतीयःशुक्लपक्षस्तस्य तृतीयायां तिथौ प्रातः कुमारंस्नापयित्वा सायं सन्ध्यायामतीतायां चन्द्राभि-मुखः कृताञ्जलिः पिता तिष्ठेत् अथ माताशुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणस्यांदिशि भर्त्तुर्वामपार्श्वे पश्चिमाभिमुखीभूय उत्तर-शिरसं कुमारं पित्रे समर्पयति ततो माताभर्त्तुः पृष्ठदेशेन उत्तरस्यां दिशि गत्वा चन्द्रा-भिमुखीभूय भर्त्तुर्दक्षिणपार्श्वे तिष्ठति अथपिता जपति प्रजापतिरृषिरनुष्टुप् छन्दश्चन्द्रोदेवता कुमारस्य चन्द्रदर्शने विनियोगः ओँयत्ते सुषीमे हृदयं हितमन्तः प्रजापतौ वेदाहंमन्ये तद्ब्रह्ममाहं पौत्त्रमघं निगाम् ततःप्रजापतिरृषिरनुष्टुप् छन्दश्चन्द्रो देवता कुमा-रस्य चन्द्रदर्शने विनियोगः ओँ यत् पृथिव्याअनामृतं दिवि चन्द्रमसि श्रितं वेदमृतस्याहंनाममाहं पोत्त्रमघं ऋषम् ततः प्रजापति-रृषिरनुष्टुप्छन्द इन्द्राग्नी देवते कुमारस्यचन्द्रदर्शने विनियोगः ओँ इन्द्राग्नी शर्म्मयच्छतं प्रजायै मे प्रजापती यथायं प्रमीयेतपुत्त्रो अनित्र्या अधि इति मन्त्रत्रयं जप्त्वाकुमारं चन्द्रं दर्शयति पिता चन्द्राय अर्घ्यंददाति ततः पिता तथाभूतमेव कुमार-मुत्तरशिरसं मात्रे दत्त्वा वामदेव्यगानान्तं कर्म्मकृत्वाच्छिद्रमवधार्य्य गृहं प्रविशेदिति अतऊर्द्धमपरशुक्लपक्षत्रयेऽपि तृतीयायां तिथौसायंसन्ध्यामतिक्रम्य चन्द्राभिमुखः पिता जला-ञ्जलिं गृहीत्वा प्रजापतिरृषिरनुष्टुप्छन्दश्चन्द्रोदेवता कुमारस्य चन्द्रदर्शने विनियोगः ओँयददश्चन्द्रमसि कृष्णं पृथिव्या हृदयं श्रितं तदहंविद्बांस्तत् पश्यन्माहं पौत्त्रमघं रुदमितिपठित्वा जलाञ्जलिं त्यजेत् वारद्वयं तूष्णीम् ।ततो वामदेव्यं गीत्वाच्छिद्रमवधार्य्य गृहं प्रविशे-दिति एतच्च निष्क्रमणकर्म्माङ्गभूतमुदीच्यं कर्म्मपत्नी पुत्त्रोपादानविरहात् प्रवासिनापि कर्त्तव्य-मेव इति निष्क्रमणम्
इति भवदेवभट्टः
*
तत्र विहितदिनं यथा रिक्तातिरिक्तास्तिथयः ।शनिमङ्गलवासरेतरे वाराः आर्द्राश्लेष्मा-कृत्तिकाभरणीमघाविशाखापूर्व्वफल्गुनीपूर्व्वा-षाढापूर्व्वभाद्रपत्शतभिषाभिन्नानि नक्षत्राणि ।कन्यातुलाकुम्भसिंहसंज्ञकानि लग्नानि बाल-कस्य चतुर्थे मासि तृतीये वा चन्द्रादिशोभनेकर्त्तव्यम् इति ज्योतिषम्