निष्क्रमण (niSkramaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishनिष्क्रमण - niSkramaNa - - logoff [ computer ]
निष्क्रमण - niSkramaNa - - disappearing
निष्क्रमण - niSkramaNa - - ceasing
निष्क्रमण - niSkramaNa - - going forth or out
निष्क्रमण - niSkramaNa - - taking a child for the first time out of the house in the fourth month after birth to see the sun
निष्क्रमण - niSkramaNa - - departing
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishनिष्क्रमणम् [niṣkramaṇam], 1 Going forth or out.
निष्क्रम (3) above
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् 2.34.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiनिष्क्रमणम्
- निस्+क्रम्+ल्युट्
आगे या बाहर जाना
निष्क्रमणम्
- निस्+क्रम्+ल्युट्
एक संस्कार
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritनिष्क्रमणं, (निस् + क्रम + भावे ल्युट् ।)दशसंस्कारान्तर्गतसंस्कारविशेषः । तदनुष्ठानंयथा, जाते कुमारे जन्मवासराद्यस्तृतीयःशुक्लपक्षस्तस्य तृतीयायां तिथौ प्रातः कुमारंस्नापयित्वा सायं सन्ध्यायामतीतायां चन्द्राभि-मुखः कृताञ्जलिः पिता तिष्ठेत् । अथ माताशुचिना वस्त्रेण कुमारमाच्छाद्य दक्षिणस्यांदिशि भर्त्तुर्वामपार्श्वे पश्चिमाभिमुखीभूय उत्तर-शिरसं कुमारं पित्रे समर्पयति । ततो माताभर्त्तुः पृष्ठदेशेन उत्तरस्यां दिशि गत्वा चन्द्रा-भिमुखीभूय भर्त्तुर्दक्षिणपार्श्वे तिष्ठति । अथपिता जपति प्रजापतिरृषिरनुष्टुप् छन्दश्चन्द्रोदेवता कुमारस्य चन्द्रदर्शने विनियोगः । ओँयत्ते सुषीमे हृदयं हितमन्तः प्रजापतौ वेदाहंमन्ये तद्ब्रह्ममाहं पौत्त्रमघं निगाम् । ततःप्रजापतिरृषिरनुष्टुप् छन्दश्चन्द्रो देवता कुमा-रस्य चन्द्रदर्शने विनियोगः । ओँ यत् पृथिव्याअनामृतं दिवि चन्द्रमसि श्रितं वेदमृतस्याहंनाममाहं पोत्त्रमघं ऋषम् । ततः प्रजापति-रृषिरनुष्टुप्छन्द इन्द्राग्नी देवते कुमारस्यचन्द्रदर्शने विनियोगः । ओँ इन्द्राग्नी शर्म्मयच्छतं प्रजायै मे प्रजापती यथायं न प्रमीयेतपुत्त्रो अनित्र्या अधि । इति मन्त्रत्रयं जप्त्वाकुमारं चन्द्रं दर्शयति । पिता चन्द्राय अर्घ्यंददाति च । ततः पिता तथाभूतमेव कुमार-मुत्तरशिरसं मात्रे दत्त्वा वामदेव्यगानान्तं कर्म्मकृत्वाच्छिद्रमवधार्य्य गृहं प्रविशेदिति । अतऊर्द्धमपरशुक्लपक्षत्रयेऽपि तृतीयायां तिथौसायंसन्ध्यामतिक्रम्य चन्द्राभिमुखः पिता जला-ञ्जलिं गृहीत्वा प्रजापतिरृषिरनुष्टुप्छन्दश्चन्द्रोदेवता कुमारस्य चन्द्रदर्शने विनियोगः । ओँयददश्चन्द्रमसि कृष्णं पृथिव्या हृदयं श्रितं तदहंविद्बांस्तत् पश्यन्माहं पौत्त्रमघं रुदमितिपठित्वा जलाञ्जलिं त्यजेत् । वारद्वयं तूष्णीम् ।ततो वामदेव्यं गीत्वाच्छिद्रमवधार्य्य गृहं प्रविशे-दिति । एतच्च निष्क्रमणकर्म्माङ्गभूतमुदीच्यं कर्म्मपत्नी पुत्त्रोपादानविरहात् प्रवासिनापि कर्त्तव्य-मेव । इति निष्क्रमणम् ॥
इति भवदेवभट्टः ॥
* ॥
तत्र विहितदिनं यथा । रिक्तातिरिक्तास्तिथयः ।शनिमङ्गलवासरेतरे वाराः । आर्द्राश्लेष्मा-कृत्तिकाभरणीमघाविशाखापूर्व्वफल्गुनीपूर्व्वा-षाढापूर्व्वभाद्रपत्शतभिषाभिन्नानि नक्षत्राणि ।कन्यातुलाकुम्भसिंहसंज्ञकानि लग्नानि । बाल-कस्य चतुर्थे मासि तृतीये वा चन्द्रादिशोभनेकर्त्तव्यम् । इति ज्योतिषम् ॥
वाचस्पत्यम्
Sanskritनिष्क्रमण निर् + क्रम--ल्युट् । १ गृहादितो बहिर्गमनेचतुर्थे मासि शिशोः कर्त्तव्ये प्रथमनिष्क्रमनिमित्ते२ संस्कारभेदे च । तन्मुहूर्त्तादिकं मुहू० पी० उक्तं यथा“दोलाधिरूढिरथ निष्क्रमणं चतुर्थमासे गमोक्तसम-येऽर्कमितेऽह्नि वा स्यात्” सू० “अथ निष्क्रमणमुहूर्त्तःतत्र चतुर्थमासे गमोक्तसमये यात्राभिहितसमीचीनति-थिवारनक्षत्रादिसहिते काले शिशूनां निष्क्रमणम् ।निष्क्रमाख्यसंस्कारपूर्वं गृहाद्बहिर्गमनं कुर्य्यात् । वाअथवाऽर्कमितेऽह्नि द्वादशे दिवसे निष्क्रमणं कुर्य्यात् ।यदाह मनुः “चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणंगृहात्” । गुरुरपि “गृहात् निष्क्रमणं सूतेश्चतुर्थेमासि कारयेत् । यात्रोक्ते समये मासि तृतीये द्वाद-शेऽहनि” अत्र तृतीयमासोऽप्युक्तः । राजमार्त्तण्डे-नापि “मासे तृतीये शशिवृद्धिपक्षे क्षपाकरे शोभनगोचरस्थे । उत्पातपापग्रहवर्जिते भे निष्कासनं सौख्य-करं शिशूनाम्” । तदेतयोः पक्षयोर्यथागृह्यं व्यवस्था ।मुहूर्त्तसंग्रहे तु निष्क्रमणे विशिष्य तिथ्याद्युक्तं यथा“पूर्वः पक्षः शुभः प्रोक्तः कृष्णश्चान्त्यत्रिकं विना । रिक्ता-षष्ठ्यष्टमीदर्शद्वादशीश्च विवर्जयेत् । चत्वार्यार्यम्णतस्त्रीणिवैश्वात् त्रीणि च बुध्न्यभात्” । बुध्न्यभादुत्तराभाद्रपदा-तस्त्रीणि भानि । “मैत्रमादित्यपुष्यौ च रोहिणी चशुभावहाः । झषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानिच । सतां तु वारवर्गाश्च शुभदास्तूदयास्तथा ।केन्द्रत्रिकोणगाः सौम्याः पापाः षष्ठत्रिलाभगाः ।उपनिष्क्रसणे शस्ता मातुलो वाहयेच्छिशुमिति” ।अधोमुखानि मूलाहिमिश्रोग्रमधोमुखं भवेदित्युक्तानि ।उदयाः लग्नानि । एवंविधे सुलग्ने क्रियमाणस्य शिशु-निष्क्रमण फलमाह वृहस्पतिः । “अथ निष्क्रमण्णं नामगृहात् प्रथमनिर्गमः । अकृतायां क्रियायां स्यादायुः-श्रीनाशनं शिशोः” । कृते संपद्विवृद्धिः स्यादायुर्वर्द्धनमेवचेति” अत्र विशेषमाह यमः “तृतीये मासि कर्त्तव्यंशिशोः सूर्यस्य दर्शनम् । चतुर्थे मासि कर्त्तव्यमग्नेश्च-न्द्रस्य दर्शनम्” इति । वेदभेदेन व्यवस्था ज्यो० त० दर्शितायथा “चतुर्थमासीति ऋग्वेदियजुर्वेदिनोः । यथाहविष्णुः “चतुर्थमास्यादित्यदर्शनमिति” । शौनकोऽपि“चतुर्थे मासि पुण्यर्क्षे शुक्ले निष्क्रमणं शिशोः” पार-स्करः “चतुर्थे मासि नष्क्रमणिक्यं सूर्यमुदीक्षयतितच्चक्षुरितीति” मासे तृतीय इति तु छन्दोगानां गोभि-लेन जननान्तरं तृतीयशुक्लपक्षतृतीयायां चन्द्रदर्शनरूप-निष्क्रामणविधानात् यथा गोभिलः “जननाद्यस्तृतीयो-ज्यौत्स्नस्तत्तृतीयायामित्यादि” । ज्यौत्स्नः शुक्लपक्षः ।अत्रैव कृत्यचिन्तामणिः “तस्मात् स्वस्वविधानतोऽर्क-शशिनोरर्घ्यं शिशुं दापयेत्” । ततः तारका० संजा-तार्थे इतच् । निष्क्रमणित संजातनिष्क्रमणे ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
