| YouTube Channel

निष्कलं (niSkalaM)

 
शब्दकल्पद्रुमः
Sanskrit
निष्कलं, त्रि, (निर्गता कला यस्मात् ।) कला-शून्यम् (यथा, महाभारते २०८ ।“संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः ।दृश्यन्ते निष्कलाः सप्त प्रहीणाः स्वस्वकर्म्मभिः
”)नष्टवीर्य्यम् इति मेदिनी ले, १०३
ब्रह्म ।यथा, --“चिन्मयस्याद्बितीयस्य निष्कलस्याशरीरिणः ।उपासकानां कार्य्यार्थं ब्रह्मणो रूपकल्पना
”इत्येकादशीतत्त्वे जामदग्न्यवचनम्
आधारे, पुं इति शब्दचन्द्रिका