| YouTube Channel

निषेधविधि (niSedhavidhi)

 
वाचस्पत्यम्
Sanskrit
निषेधविधि
पु०
निषेधे अभावे विधिरिष्टसाधनताधीहेतुः ।अभावे इष्टसाधनताबोधकवाक्ये यथा “एकादश्यां भु-ञ्जीतेत्यादौ” भोजनाभावे एव इष्टसाधनत्वं बोधयति तुभोजने विध्यर्थेष्टसाधनत्वभावम्, अतो निषेधवाक्या-दस्य भेदः “अष्टम्यां मांसं नाश्नीयात्” इत्यादौ तुनिषेधे मांसजोजने अनिष्टसाधनत्वं बोधयति “एकादश्यांन भुञ्जीत” इत्यादौ तु भोजनाभावे इष्टसाधनत्वमितिविधिस्वरूपे गदाधरः एवं नेक्षेतोद्यन्तमादित्यमित्या-दावपि निषेधविधित्वमित्याकरे स्थितम् अतएवएकादशीभोजनाभावस्य अभोजनसंकल्परूपस्य व्रतत्वम्तिथिखण्डविशेषनियमनं, निषेधत्वे कालमात्रापे-क्षतया तत्कालमात्रेण निवृत्तिः स्यात् “निषेधस्तुनिवृत्त्यात्मा कालमात्रमपेक्षते” इति भट्टोक्तेः