| YouTube Channel

निषिद्धं (niSiddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
निषिद्धं, त्रि, (निषिध्यते स्मेति नि + सिध +क्तः ।) निषेधविषयम् यथा, --“तीर्थे तिथिविशेषे गङ्गायां प्रेतपक्षके ।निषिद्धेऽपि दिने कुर्य्यात्तर्पणं तिलमिश्रितम्
”इति तिथितत्त्वम्
निषिद्धकर्म्माणि यथा, --मान्धातोवाच ।“ब्रूहि कर्म्मान् सुखोपायान् मद्बिधानां सुखा-वहान् ।निषिद्धमपि यद्येषां तदेव प्रथमं वद
नारद उवाच ।ज्याकर्षणं शत्रुनिवर्हणञ्चकृषिर्ब्बणिज्या पशुपालनञ्च ।शुश्रूषणञ्चापि तथार्थहेतो-रकार्य्यमेतत् परमं ब्राह्मणस्य
राजप्रैष्यं कृषिधनं जीवनञ्च बणिज्यया ।कौटिल्पं कौलटीयञ्च कुषीदञ्च विवर्ज्जयेत्
शूद्रो राजन् ! भवति धर्म्मापेतो दुराचरः ।वृषलीं रमते यस्तु पिशुनो नर्त्तनस्तथा
ग्रामप्रेष्यो विकर्म्मा यो द्विजश्चरिताच्च्युतः ।वेदानपि जपन् शूद्रैः समः परिकीर्त्तितः ।कृत्येष वर्ज्जनीयोऽसौ वैदिके तान्त्रिकेऽपि
निर्म्मर्य्यादे चाशुचौ क्रूरवृत्तेहिंसात्मके त्यक्तधर्म्मे श्ववृत्ते ।हव्यञ्च कव्यञ्च देयमेवदानञ्च दत्तं विफलं नरेन्द्र !
राजन्यानां करादानं विना वैवाहिकञ्च यः ।प्रतिग्रहः निन्द्योऽत्र परत्र चासुखप्रदः
युद्धे पलायनञ्चैव तथा कातरतार्थिषु ।अपालनं प्रजानाञ्च दाने धर्म्मे विरक्तता
अनवेक्षा स्वराष्ट्रस्य ब्राह्मणानामनादरः ।अमात्यानामसम्मानं तेषां कर्म्मानवेक्षणम्
भृत्यानाञ्च परीहासो निषिद्धः क्षत्त्रजन्म-नाम्
वैश्यानां धनलोभेन मिथ्यामूल्यप्रकाशनम् ।अपालनं पशूनाञ्च अनिज्या विभवे सति
शूद्राणाञ्च महाराज ! वृथैव धनसञ्चयः ।शुश्रूषोः कृतकार्य्यस्य कृतसन्तानकर्म्मणः
अभ्यनुज्ञातराज्यस्य शूद्रस्य जगतीपते ! ।अल्पान्तरगतस्यापि दशधर्म्मगतस्य
आश्रमा विहिताः सर्व्वे वर्ज्जयित्वा निरा-शिषम्
”इति पाद्मे स्वर्गखण्डे २७ अध्यायः
अपि ।“यस्तु भागवतान् दृष्ट्वा भूत्वा भागवतः शुचिः ।अभ्युत्थानं कुर्व्वीत अहं तेनापि हिंसितः
यश्च कन्यां पिता दत्त्वा प्रयच्छति तां पुनः ।अष्टौ पितृगणास्तेन हिंसिता नात्र संशयः
भार्य्यां प्रियसखीं ये तु साध्वीं हिंसन्ति निर्घृणाः ।न ते नृतां प्राप्नुवन्ति हिंसका दुष्टयोनिजाः
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपापकाः ।एतान् शिष्यान् विवर्ज्जेत उक्ता ये चान्य-पातकाः
शालपत्रे भोक्तव्यं च्छेत्तव्यं कदाचन ।अश्वत्थो वटवृक्षश्च च्छेत्तव्यौ कदाचन
च्छेत्तव्यो विल्ववृक्ष उडुम्बरश्च कदाचन ।कर्म्मण्याश्चैव ये वृक्षा च्छेत्तव्याः कदाचन
यदीच्छेत् परमां सिद्धिं मोक्षधर्म्मं सनातनम् ।भक्ष्याभक्ष्यञ्च ते शिष्य वेदितव्यं तदन्तरे
करीरस्य वधः शस्तः फलान्यौडुम्बरस्य ।सद्योभक्षी भवेत्तेन अभक्ष्याः पूतिवासिकाः
भक्षणीयं वाराहं मांसं मत्स्यस्य सर्व्वशः ।अभक्ष्या ब्राह्मणैर्ह्येतैर्दीक्षितर्हि संशयः
परिवादं कुर्व्वीत हिंसा वा कदाचन ।पैशुन्यञ्च कर्त्तव्यं स्तैन्यं वापि कदाचन
अतिथिञ्चागतं दृष्ट्वा दूराध्वानागमं क्वचित् ।संविमागस्तु कर्त्तव्यो येन केनापि पुत्त्रक !
गुरुपत्नी राजपत्नी ब्राह्मणी वा कदाचन ।मनसापि गन्तव्या एवं विष्णुः प्रभाषते
कनकादीनि रत्नानि यौवनस्था कामिनी ।तत्र चित्तं कर्त्तव्यमेवं विष्णुः प्रभाषते
दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनन्तथा ।तत्र मन्युर्न कर्त्तव्य एवं धर्म्मः सनातनः
”इति वराहपुराणम्
(निवारितम् यथा, देवीभागवते ६० ।“मा मा मा मेति बहुधानिषिद्धोऽपि तथाभृशम् ।आलिलिङ्ग प्रियां दैवात् पपात धरणीतले
”)