| YouTube Channel

निषादः (niSAdaH)

 
Apte
English
निषादः [niṣādḥ], 1
N.
of one of the wild aboriginal tribes in India, such as hunters, fishermen
&c.
a mountaineer
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समा
Rām.*
1.2.15
R.*
14. 52, 7
U.*
2.5.
A man of a degraded tribe in general, an outcast, a Chāṇḍāla.
Especially, the son of a Brāhmaṇa by a Sūdra woman.
cf.
ब्राह्मणाद्वैश्य- कन्यायामम्बष्ठो नाम जायते निषादः शूद्रकन्यायां यः पारशव उच्यते
Ms.*
1.8.
(In music) The first (more properly the last or seventh) note of the Hindu gamut
गीतकला- विन्यासमिव निषादानुगतम्
K.*
31 (where it has sense 1 also).
N.
of a Kalpa.
Comp.
-वत्
m.
the निषाद note
Mb.
* 12 184.39. -स्थपतिन्यायः The rule according to which when a compound expression is capable of being dissolved as a कर्मधारय or a तत्पुरुष, the former is to be preferred to the latter. This is discussed and established by जैमिनि and शबर in MS.* 6.1.51-52 in connection with the expression निषादस्थपति.
Apte 1890
English
निषादः 1 N. of one of the wild aboriginal tribes in India, such as. hunters, fishermen &c.
a mountaineer
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः Rām
R. 14. 52, 70
U. 2. 5.
2 A man of a degraded tribe in general, an outcast, a Cāṇḍāla.
3 Especially, the son of a Brāhmaṇa by a Śūdra woman
cf. Ms. 10. 8.
4 (In music) The first (more properly the last or seventh) note of the Hindu gamut
गीतकलाविन्यासमिव निषादानुगतं K. 31 (where it has sense 1 also).
Apte Hindi
Hindi
निषादः
पुं*
- नि+सद्+घञ्
"भारत की एक जंगली आदिम जाति, जैसे शिकारी, मछुवे आदि, पहाड़ी"
निषादः
पुं*
- नि+सद्+घञ्
"पतित जाति का मनुष्य, चाण्डाल, एक वर्णसंकर जाति"
निषादः
पुं*
- नि+सद्+घञ्
विशेषकर शूद्रा स्त्री से ब्राम्हन का पुत्र
निषादः
पुं*
- नि+सद्+घञ्
हिन्दूसरगम का पहला स्वर
Wordnet
Sanskrit
Synonyms:
निषादः
noun
सप्तस्वरान्तर्गतशेषस्वरः।
"निषादस्य सङ्क्षिप्तरूपं नि अस्ति।"
Synonyms:
निषादः
noun
निषादजातेः सदस्यः।
"निषादाः रामस्य आतिथ्यं चकार।"
Tamil
Tamil
நிஷாத3: : வேடன், சங்கீதத்தில் ஒரு ஸ்வரத்தின் பெயர்.
शब्दकल्पद्रुमः
Sanskrit
निषादः,
पुं,
(निषद्यते ग्रामशेषसीमायाम् ।यद्वा, निषीदति पापमत्र नि + सद् + कर्म्मणिअधिकरणे वा घञ् ।) चण्डालः इत्यमरः ।२ १० २०
वेणशरीरोद्भवजातिविशेषः ।यथा, अग्निपुराणे ।“मथ्यमाने ततो राज्ञस्तस्मिन्नूरौ प्रजज्ञिवान् ।ह्रस्वोऽतिपरुषः कृष्णस्तद्भयात् प्राञ्जलिः स्थितः
ते मन्त्रैर्व्विह्वलं दृष्ट्वा निषीदेत्यब्रुवंस्तदा ।निषादवंशकर्त्ता बभूव मुनिसत्तमाः !
धीवरानसृजन् वापि वेणकल्मषसम्भवान् ।ये चान्ये विन्ध्यनिलयाः शवरा नाहलादयः
अधर्म्मरुचयो ये वित्तैनान् वेणसम्भवान्
”पारिभाषिकचण्डालो यथा, मार्कण्डेयपुराणे ।“आशाकर्त्तुस्त्वदाता दातुश्च प्रतिषेधकः ।शरणागतं यस्त्यजति चण्डालोऽधमो नरः
”धीवरविशेषः इति मेदिनी दे, ३४
(निषीदन्ति षड्जादयः स्वरा यत्र नि + सद् +घञ् ।) सप्तस्वरान्तर्गतशेषस्वरः तु नारदमतेहस्तिस्वरतुल्यस्वरः अस्योच्चारणस्थानं लला-टम् व्याकरणमते दन्तः अयं वैश्यवर्णः ।सर्व्वस्वराणां मध्ये उच्चः अस्य जातिः सम्पूर्णा ।अस्य कूटतानाः ५०४० प्रत्येकतानम् ५६समुदायेन २८२२४० भवन्ति अस्य स्वरूपःगणेशतुल्यः कृष्णश्वेतवर्णः स्थानं पुष्कर-द्वीपः देवता सूर्य्यः वारः शनिः समयःनिशान्ते दण्ड -- ३४ पलानि अस्य श्रुतिःउग्रा शोभिनी मूर्च्छना मन्दरस्थानेसखा मध्यस्थाने अहङ्कृता तारस्थाने लोचनाच निषादवर्ज्जिता रागिणी आसावरी मल्लारीच नादपुराणमते निःसन्तानोऽयम्बीणायां धैवतावधिषड्जस्थानपर्य्यन्तं प्रथम-सप्तकतृतीयांशस्य शेषसमुदायबीणातन्त्रीनिषा-दस्थानं भवति इति सङ्गीतशास्त्रम्
*
“षड्जादयः षडेतेऽत्र स्वराः सर्व्वे मनोहराःनिषीदन्ति यतो लोके निषादस्तेन कथ्यते
चतस्रः पञ्चमे षड्जे मध्यमे श्रुतयो मताः ।ऋषभे धैवते तिस्रो द्वे गान्धारनिषादके
”इति सङ्गीतदामोदरः
(अस्य असुरवंशे उत्पत्तिः वैश्यो जातिः ।विचित्रो वर्णः पुष्करद्बीपे जन्म ऋषि-स्तुम्बुरुः सूर्य्यो देवता जगती छन्दः करुणेउपयोगित्वम्
इति सङ्गीतदर्पणम्
)
कृदन्तरूपमाला
Sanskrit
1 {@“षदॢ विशरणगत्यवसादनेषु”@} 2 ज्वलादिः।
‘ज्वलादेश्च तुदादेश्च सीदेद् विशरणादिके।
पद्यतेरर्थ आसीदेद् आसादयति चाङि यौ।।’ 3 देवः।
“-- ‘विशमृशणुदप्रवेशामर्शक्षेपेषु षदॢ विशरणार्थः।’ इति श्लोकधातु- पाठः।” इति पुरुषकारः।
सादकः-दिका, सादकः-दिका, सिषत्सकः-त्सिका, 4 सासदकः-दिका
5 सत्ता-सत्त्री, सादयिता-त्री, सिषत्सिता-त्री, सासदिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि भौवादिकखदतिवत् 6 ज्ञेयानि।
7 निषीदन्-प्रतिसीदन्-न्ती, 8 9 निषादः, सादः-सदः, 10 प्रासादः, 11 उपनिषत्-परिषत्-शुचिषत्-द्युसत्-दिविषत्, 12 बृसी, 13 विषण्णः-विषण्णवान्, 14 निषिषत्सुः, 15 सेदिवान्, 16 सद्रुः, 17 निषद्या, 18 सादी, 19 सेदिः
20 सदः, 21 निषद्वरः, 22 सादिः, 23 24 सत्त्रम् इतीमानि विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१८१४)
02
=>
(१-भ्वादिः-८५४-सक। अनिट्। पर।)
03
=>
(श्लो। १०८)
04
=>
[[६। ‘लुपसद--’ (३-१-२४) इति भावगर्हायां यङ्। भावगर्हा = धात्वर्थे कुत्साविशिष्ट- त्वम्। गर्हितं सीदति सासद्यते। अयं यङ् ‘धातोरेकाचः--’ (३-१-२२) इति औत्सर्गिकयङोऽपवादः इति प्राञ्चः। नेति नव्याः।]]
05
=>
[[७। धातोरनिट्त्वम्। दकारस्य चर्त्वेन तकारः। एवं तव्यदादिष्वपि।]]
06
=>
(३३८)
07
=>
[[८। शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छ- धौशीयसीदाः’ (७-३-७८) इति सीद इति सर्वादेशः। ‘सदिरप्रतेः’ (८-३-६६) इति इणन्तादुपसर्गात् परस्य सदिसकारस्य षत्वे रूपमेवम्। ‘अप्रतेः’ इत्युक्तत्वात् प्रतिसीदन् इत्यत्र षत्वम्। उपसर्गप्रकरणात् ‘नि’ इति कर्मप्रवचनीयस्य षत्वम्।]]
08
=>
[पृष्ठम्१३३६+ ३३]
09
=>
[[१। ‘ज्वलितिकसन्तेभ्यः--’ (३-१-१४०) इति कर्तरि णः। निषादः वन्यजातिविशेषः। पक्षे पचाद्यचि सदः इत्यपि साधुः। माधवस्तु “निषीदत्यस्मिन् पापमिति निषादः। ‘हलश्च’ (३-३-१२१) इति अधिकरणे घञ्” इत्याह। संज्ञाऽत्रेति विशेषः।]]
10
=>
[[२। ‘अकर्तरि कारके संज्ञायाम्’ (३-३-१९) इत्यधिकरणे घञ्। प्रसीदन्ति धनिनो- स्मिन् इति प्रासादः धनिनां वासः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति ‘प्र’ इत्यस्य दीर्घः। संज्ञायामेव मनुष्यभिन्नेऽपि स्थले दीर्घः
\n\n अन्यत्र
\n\n ततश्च ‘प्रसादः’ इत्यत्र न।]]
11
=>
[[३। उप निषीदन्ति, उप निषादयन्ति वा इति उपनिषत्। स्त्रियां सम्पदादित्वात् (वा। ३-३-१०८) क्विपि षत्वे रूपमेवम्। एवं परिषत् इत्यादयोऽपि। द्युसत्, दिविषत्, शुचिषत् इत्यादयस्तु ‘सत्सूद्विष--’ (३-२-६१) इत्यादिना क्विपि सम्पद्यन्ते। पर्षत् इति तु पृषोदरादित्वात् (६-३-१०९) परेरिकारलोपे साधुः। दिविषत् इत्यत्र ‘तत्पुरुषे कृति--’ (६-३-१४) इति सप्तम्या अलुक्। सुषामादित्वात् (८-३-९८) षत्वम्। ये स्त्रीलिङ्गशब्दाः संसत् इत्यादयः, ते सम्पदादिक्विबन्ताः
\n\n ये तु पुंंल्लिङ्गशब्दाः, ते ‘सत्सू--’ (३-२-६१) इति निष्पन्नाः इति वैयाकरणसम्प्रदायः।]]
12
=>
[[४। ब्रुवन्तः सीदन्त्यस्यामिति बृसी = मुनीनामासनम्। पृषोदरादित्वात् ब्रुवच्छब्दस्य ‘बृ’ इत्यादेशः। सदेरधिकरणे डट्प्रत्ययः। टित्त्वात् स्त्रियां डीप्।]]
13
=>
[[५। ‘रदाभ्यां--’ (८-२-४२) इति निष्ठातकारस्य धातुदकारस्य नकारः। षत्वम्, णत्वं च।]]
14
=>
[[६। सन्नन्तादुप्रत्ययः। ‘स्थादिष्वभ्यासेन चाभ्यासस्य’ (८-३-६४) इति पूर्वोत्तरखण्डयोः षत्वम्।]]
15
=>
[[७। लिटः ‘भाषायां सदवस--’ (३-२-१०८) इति क्वसुप्रत्ययः
\n\n एत्वाभ्यासलोपः। ‘वस्वेकाच्--’ (७-२-६७) इतीडागमः।]]
16
=>
[[८। ‘दाधेट्सिशदसदो रुः’ (३-२-१५९) इति तच्छीलादिषु कर्तृषु रुप्रत्ययः।]]
17
=>
[[९। स्त्रियां ‘संज्ञायां समजनिंषद--’ (३-३-९९) इत्यादिना अकर्तरि क्यप्प्रत्ययः। निषद्या = वासस्थानम्।]]
18
=>
[[१०। साधुकारिणि णिनिप्रत्ययः। सादी = अश्वस्योपरि स्थित्वा युघ्यमानः।]]
19
=>
[[११। ‘सदादिभ्यो दर्शनात्’ (वा। ३-२-१७१) इति वचनात् भाषायां किप्रत्ययः। छन्दस्येवायम्। प्रत्ययस्य लिड्वद्भावात् एत्वाभ्यासलोपौ।]]
20
=>
[[१२। औणादिकेऽसुन्प्रत्यये रूपम्। सदः सभा।]]
21
=>
[[१३। ‘नौ सदेः’ (द। उ। ८-४८) इति वरच्प्रत्ययः। निषद्वरः = कामः, कर्दमश्च।]]
22
=>
[[१४। ‘इण् अजादिभ्यः’ (वा। ३-३-१०८) इति इण्। सादिः अश्वस्थो योद्धा।]]
23
=>
[पृष्ठम्१३३७+ २९]
24
=>
[[१। औणादिके (द। उ। ८-८९) त्रप्रत्यये रूपम्। धातुदकारस्य चर्त्वेन तकारः। सत्त्रम् = यागविशेषः, अन्नशाला च।]]