| YouTube Channel

निश्वाससंहिता (nizvAsasaMhitA)

 
शब्दकल्पद्रुमः
Sanskrit
निश्वाससंहिता
स्त्री,
(निश्वासाख्या संहिता ।)शिवप्रणीतशास्त्रविशेषः यथा, --“एवमभ्यर्थितस्तैस्तु पुराहं द्बिजसत्तमाः ।वेदक्रियासमायुक्तां कृतवानस्मि संहिताम्
निश्वासाख्यां ततस्तस्यां लीना वाभ्रव्यशाण्डिलाः ।निश्वामहंहितायां हि लक्षमात्रप्रमाणतः
सैव पाशुपती दीक्षा योगः पाशुपतस्य हि ।एतस्माद्वेदमार्गाद्धि यदन्यदिह जायते
तत् क्षुद्रकर्म्म विज्ञेयं रौद्रं शौचविवर्ज्जितम्
”इति वराहपुराणम्
वाचस्पत्यम्
Sanskrit
निश्वाससंहिता शिवप्रणीते पाशुपते शास्त्रभेदे “एव०मभ्यर्थितस्तैस्तु पुराहं द्विजसत्तमाः वेदक्रियासमा-युक्तां कृतवानस्मि संहिताम् निश्वासाख्यां ततस्तस्यांगीना वाभ्रव्यशाण्डिलाः निश्वाससंहिता या हिलक्षमात्रप्रमाणतः सैव पाशुपती दीक्षा योगः पाशु-पतस्य हि एतस्माद्वेदमार्गाद्धि यदन्यदिह जायते ।तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम्” वराहपु०