| YouTube Channel

निवेश्यः (nivezyaH)

 
शब्दकल्पद्रुमः
Sanskrit
निवेश्यः, त्रि, (नि + विश + ण्यत् ।) निवेशनीयः ।यथा, वाधटीकायां गदाधरः प्रतिबन्धक-तायां निवेश्यत्वादिति शङ्क्यते
(यथा, हरि-वंशे ११५ २८ ।“तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत !
”शोधनीयः यथा, महाभारते ३६ १६ ।“अवश्यं राजपिण्डस्तैर्निवेश्य इति मे मतिः
”“निवेश्यः आनृण्यार्थं शोधनीयः ।” इति तट्टी-कायां नीलकण्ठः
विवाहार्हः यथा, महा-भारते १९२ ।“भवान्निवेश्यः प्रथमं ततोऽयंभीमो महाबाहुरचिन्त्यकर्म्मा
”“निवेश्यः विवाह्यः ।” इति तत्र नीलकण्ठः
)