| YouTube Channel

निवृत्तसन्तापन (nivRttasantApana)

 
वाचस्पत्यम्
Sanskrit
निवृत्तसन्तापन
न०
निवृत्तं सन्तापनं यस्य सन्तापविहीने ।तस्मै हितम् निवृत्तसन्तापनीय रसायनभेदे यथोक्तंसुश्रुते “यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः ।तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः अथ सप्तपुरुषा रसायनं नोपयुञ्जीरन् तद्यथा अनात्मवानलसोदरिद्रः प्रमादी व्यसनी पापकृद्भेषजापमानी चेति ।सप्तभिरेव कारणैर्न सम्पद्यते अज्ञानादनारम्भादस्थि-रचित्तत्वाद्दारिद्र्यादनायत्तत्वादधर्मादौषघालाभाच्चेति”औषधशब्दे दृश्यम्