| YouTube Channel

निविष्टं (niviSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
निविष्टं, त्रि, (नि + विश + क्तः ।) निवेशयुक्तम् ।(यथा, कुमारसम्भवे ३१ ।“भवन्ति साम्येऽपि निविष्टचेतसांवपुर्व्विशेषेष्वतिगौरवाः क्रियाः
”)आविष्टम् प्रविष्टम् यथा, --“उडुगणपरिवारो नायकोऽप्योषधीना-ममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।भवति विकलमूर्त्तिर्मण्डलं प्राप्य भानोःपरसदननिविष्टः को लघुत्वं याति
”इत्युद्भटः
(आबद्धम् यथा, देवीभागवते १५ ४५ ।“बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः ।संसारवासनाजाले निविष्टा वृद्धगामिनी
”स्थितम् यथा, रामायणे ।“कोशलो नाम मुदितः स्फीतो जनपदो महान् ।निविष्टः सरयूतीरे प्रभूतधनधान्यवान्
”)