| YouTube Channel

निविडं (niviDaM)

 
शब्दकल्पद्रुमः
Sanskrit
निविडं, त्रि, (नितरां विडतीति नि + विडआक्रोशे + ।) निरवकाशम् तत्पर्य्यायः ।निरन्तरम् निविरीषम् घनम् सान्द्रम् ५नीरन्ध्रम् बहुलम् दृढम् गाढम् ९अविरलम् १० इति हेमचन्द्रः ८२
(यथा, आर्य्यासप्तशत्याम् ३२० ।“निविडघटितोरुयुगलां श्वासोत्तब्धस्तनार्पित-व्यजनाम्
”यथा, रघुवंशे ५८ ।“तस्यापरेष्वपि मृगेषु शरान् मुमुक्षोःकर्णान्तमेत्य बिभिदे निविडोऽपि मुष्टिः
”नासिकाया नतम् नि + “नेर्विडच्विरी-सचौ ।” ३२ इति विडच् अव-टीटम् “तद्योगात् नासिका निविडा ।” इतिसिद्धान्तकौमुदी
)