| YouTube Channel

निवासः (nivAsaH)

 
Apte
English
निवासः [nivāsḥ], Living, dwelling, residing.
A house, adode, habitation, resting-place
निवासश्चिन्तायाः
Mk.*
1.15
Śi.*
4.63
5.21
Bg.*
9.18
Mk.*
3.23.
Passing the night.
A dress, garment.
Nightquarters.
Refuge, receptacle, asylum
जगन्निवासो वसुदेवसद्मनि
Śi.*
1.1.Comp. -भवनम् sleeping-room. -रचना an edifice
दृष्ट्वा प्राङ्भवतीं निवासरचनामस्माकमाशान्वितः
Mk.*
3.23.
Apte 1890
English
निवासः 1 Living, dwelling, residing.
2 A house
abode, habitation, resting-place
निवासश्चिंतायाः Mk. 1. 15
Śi. 4. 63, 5. 21
Bg. 9. 18
Mk. 3. 23.
3 Passing the night.
4 A dress, garment.
5 Nightquarters.
6 Refuge, receptacle, asylum
जगन्निवासो वसुदेवसद्मनि Śi. 1. 1.
Hindi
Hindi
जीवित
Apte Hindi
Hindi
निवासः
पुं*
- नि+वस्+घञ्
"रहना, बसना, निवास करना"
निवासः
पुं*
- नि+वस्+घञ्
"घर, आवास, वासगृह, विश्राम-स्थान"
निवासः
पुं*
- नि+वस्+घञ्
रात बिताना
निवासः
पुं*
- नि+वस्+घञ्
"पोशाक, वस्त्र"
निवासः
पुं*
- नि+वस्+घञ्
"घर, आवास, निवास"
Wordnet
Sanskrit
Synonyms:
निवासः
noun
कस्यचित् अधिकारिणः आश्रयस्थानम्।
"राज्यपालमहोदयस्य निवासः अत्रैव अस्ति।"
Synonyms:
क्षेत्रम्, प्रदेशः, अन्तः, भूमिः, निवासः, अवकाशः, उद्देशः, दिक्, देशः, स्थानम्
noun
कस्यापि विस्तारितः भागः।
"एतत् भारतस्य कृष्योत्पादकं क्षेत्रम् अस्ति।"
Synonyms:
अधिवासः, निवासः, वासः, वसनम्, अधिष्ठानम्
noun
कस्मिन् अपि स्थाने आश्रयः।
"अधिवासाय अतीव उचितं स्थानम् एतत्।"
Synonyms:
आवासः, निवासः, क्षयणः, गृभः, अवसितम्, आक्षित्, अस्तम्, अस्ततातिः
noun
तत् स्थानं यत्र कः अपि वसति।
"एषः वृक्षः पक्षिणाम् आवासः।"
Synonyms:
गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्
noun
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
"गृहिण्या एव गृहं शोभते।"
Synonyms:
निवासः, वसतिः, वासः, वासस्थानम्, निवसतिः, निवासस्थानम्, निवासभूयम्, गृहम्, आवासः, अधिवासः, समावासः, आवसथः, वास्तुः, वास्तु, स्थानम्, अवस्थानम्, प्रतिष्ठा, आयतनम्, निकेतनम्, आलयः, निलयः, निलयिता, क्षिः
noun
तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
"व्याघ्रस्य निवासः वने अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
निवासः,
पुं,
(निवसति अस्मिन् नि + वस् +अधिकरणे घञ् ।) गृहम् इति हेमचन्द्रः ।४ ५७
(यथा, विष्णुपुराणे १३ ८४ ।“तत्र तत्र प्रजानां हि निवासं समरोचयत्
”आश्रयस्थानम् यथा, भागवते ११ २७ ।“श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् ।बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम्
”वस्त्रम् यथा, हरिवंशे १८१ ४८ ।“नमश्चर्म्मनिवासाय नमस्ते पीतवाससे
”भावे घञ् वासः यथा, महाभारते ।१ १८६ ।“कुम्भकारस्य शालायां निवासं चक्रिरे तदा
”)
कृदन्तरूपमाला
Sanskrit
1 {@“निवास आच्छादने”@} 2 अदन्तः।
3 अत्र धातौ ‘नि’ इत्युपसर्गविशिष्टस्यैव धातुत्वम्, इति क्षीरस्वामिमतम्।
‘पूर्वं धातुरुपसर्गेण युज्यते’ इति भाष्यमतेनैवमुक्तम्।
तन्मते निवासयित्वा इत्यत्र क्त्वाप्रत्ययस्योपपत्तिश्चिन्त्या।
वस्तुतस्तु ‘सङ्ग्राम, व्यय, वीर’ इत्यादिषु ‘सम्, वि’ इत्युपसर्गयोरिव अत्रापि ‘नि’ इत्युपसर्गविशिष्टस्यैव धातुत्वम्।
अत्र प्रकृतिप्रत्ययोपसर्गादिविभागरहितः ‘निवास’ इत्यानुपूर्वीक एव धातुरिति तत्त्वम्।
अन्यथा, ‘पूर्वं धातुः साधनेन युज्यते’ इति ‘सुट् कात् पूर्वः’ 4 इति सूत्रभाष्ये सिद्धान्तितस्य विरोधस्स्यात्।
अत एवाडागम- योग्येषु लकारेष्वपि अनिवासयिष्यत् इत्याद्येव रूपम्।]] निवासकः-सिका, निनिवासयिषकः-षिका
निवासयिता-त्री, निनिवासयिषिता-त्री
निवासयन्-न्ती, निनिवासयिषन्-न्ती
निवासयिष्यन्-न्ती-ती, निनिवासयिषिष्यन्-न्ती-ती
निवासयमानः, निनिवासयिषमाणः, निवासयिष्यमाणः, निनिवासयिषिष्यमाणः
5 सुनिवासू-सुनिवासौ-सुनिवासः
-- -- 6 निवासितम्-तः, निनिवासयिषितः-तवान्
निवासः, निनिवासयिषुः
निवासयितव्यम्, निनिवासयिषितव्यम्
निवासनीयम्, निनिवासयिष- णीयम्
निवास्यम्, निनिवासयिष्यम्
निवासयमानः, निनिवासयिषमाणः
ईषन्निवासः-दुर्निवासः-सुनिवासः
-- -- निवासः, निनिवासयिषः
निवासयितुम्, निनिवासयिषितुम्
निवासना, निनिवासयिषा
निवासनम्, निनिवासयिषणम्
निवासयित्वा, निनिवासयिषित्वा
प्रणिवास्य, प्रणिनिवासयिष्य
7 निवासम् २, निवासयित्वा २, निनिवासयिषम्
निनिवासयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(९५२)
02
=>
(१०-चुरादिः-१८८६। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(६-१-१३५)
05
=>
[[१। क्विपि, अदन्तत्वादस्य धातोरल्लोपस्य स्थानिवद्भावात् सकारस्य रुत्वविसर्गौ भवतः।]]
06
=>
[[B। ‘छिद्रं गवेषयितुमेव तु वासयन्ते ये ते निवासितधियो ह्यसुभिर्विभाज्याः।।’ धा। का। ३। ५६।]]
07
=>
[पृष्ठम्०८३०+ २९]
1 {@“वस निवासे”@} 2 ‘वस्यति स्तम्भने वस्ते, छादने वसयेत्, वसेत्।।
निवासे वासयेत् स्नेहे, वासयत्युपसेवने।’ 3 इति देवः।
‘अयं धातुः उभयपदी’ इति कातन्त्रशाकटायनादयः।
वासकः-सिका, वासकः-सिका, 4 विवत्सकः-त्सिका, वावसकः-सिका
5 वस्ता-त्री, वासयिता-त्री, विवत्सिता-त्री, वावसिता-त्री
वसन्-न्ती, वासयन्-न्ती, विवत्सन्-न्ती
-- निवत्स्यन्-न्ती-ती, वासयिष्यन्-न्ती-ती, विवत्सिष्यन्-न्ती-ती
-- -- वासयमानः, वासयिष्यमाणः, -- वावस्यमानः, वावसिष्यमाणः
6 अध्युषितम्- 7 8, प्रोषितः, 9 अनुषितो 10, गुरुः शिष्येण, तः-तवान्, वासितः, विवत्सितः, वावसितः-तवान्
वसः, 11 प्रवासी, जलवासी, सुवासी, नगरवासी, 12 ग्रामेवासी-ग्रामवासी, 13 अवासी, होतुरन्तेवासी, 14 पितुरन्तेवासी, 15 अध्यूषुषः 16 ऊषिवान् 17, वासः, वासनः, 18 वास्तव्यः, 19 विवत्सुः, वावसः
वस्तव्यम्, वासयितव्यम्, विवत्सितव्यम्, वावसितव्यम्
वसनीयम्, वासनीयम्, विवत्सनीयम्, वावसनीयम्
20 वास्यम्, 21 अमावास्या 22 -अमावस्या, वास्यम्, विवत्स्यम्, वावस्यम्, उष्यमाणः, वास्यमानः, विवत्स्यमानः, वावस्यमानः
ईषद्वसः-दुर्वसः-सुर्वसः
-- -- निवासः, 23 आवासः 24, लिप्तवासः, वनेवासः, 25 वनवासः, ग्रामेवासः, 26 उदवासः, उदकवासः, उद्वासः, उपवासः, प्रावासः, वासः, विवत्सः, वावसः
वस्तुम्, वासयितुम्, विवत्सितुम्, वावसितुम्
27 उष्टिः, 28 वासिः, वासना, विवत्सा, वावसा
वसनम्, वासनम्, विवत्सनम्, वावसनम्
29 उषित्वा 30, वासयित्वा, विवत्सित्वा, वावसित्वा
31 प्रोष्य, प्रवास्य, प्रविवत्स्य, प्रवावस्य
वासम् २, उषित्वा २, वासम् २, वासयित्वा २, विवत्सम् २, विवत्सित्वा २, वावसम्
वावसित्वा
32 33 वसतिः, 34 वासिः, 35 वसिः, 36 वस्तिः, 37 वसु, 38 वस्तु, 39 वास्तु, 40 आवसथः, 41 वत्सरः, 42 वासरः, 43 वसिष्ठः, 44 वस्नम्, 45 वसन्तः, 46 वस्त्रम्।
प्रासङ्गिक्यः
01
=>
(१५७६)
02
=>
(१-भ्वादिः-१००५। अक। अनि। पर।)
03
=>
(श्लो। १८७-८)
04
=>
[[५। सन्नन्तात् ण्वुलि, धातुसकारस्य ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारे रूपमेवम्। एवं स्यप्रत्यये, सन्नन्तेषु सर्वत्रापि ज्ञेयम्।]]
05
=>
[पृष्ठम्१२१२+ २८]
06
=>
[[१। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवस--’ (३-४-७२) इत्यादिना कर्तृकर्मणोः क्तः। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति इडागमः। सम्प्रसारणम्। पूर्वरूपादिकम्। ‘शासिवसिघसीनां च’ (८-३-६०) इति षत्वम्।]]
07
=>
[[आ। ‘बभञ्जाध्युषितं भूयः क्षुधित्वा पत्रिभिर्वनम्।।’ भ। का। ९। ३९]]
08
=>
[अनेन]
09
=>
[[B। ‘आहर्तुमन्यानशिषत् प्रोषितत्रासकर्कशः।।’ भ। का। ९। ६८]]
10
=>
[गुरुं शिष्यः]
11
=>
[[२। ताच्छीलिकः ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इति घिनुण्प्रत्ययः।]]
12
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्यये ‘शयवासवासिषु अकालात्’ (६-३-१८) इति सप्तम्या अलुक्। एवम् अन्तेवासी इत्यत्रापि ज्ञेयम्।]]
13
=>
[[४। ‘याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम् (ग। सू। ३-१-१३४) इति वसेः ग्रह्यादिपाठात् णिनिप्रत्ययः।]]
14
=>
[[C। ‘रुतानि शृण्वन् वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम्।।’ शि। व। ३। ५५]]
15
=>
[[ड्। ‘अध्यूषुषो यामभजञ्जनस्य याः संपदस्ता मनसोऽप्यगम्याः।।’ शि। व। ३-५९]]
16
=>
[[५। ‘भाषायां सदवसश्रुवः’ (३-२-१०८) इति लिटः क्वसुः। सम्प्रसारणपूर्वरूपादिकम्। अभ्यासस्य उत्तरखण्डस्य सवर्णदीर्घः। ‘शासिवसि--’ (८-३-६०) इति षत्वम्।]]
17
=>
[[E। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं जनौघजन्यम्।’ भ। का। ३-२७]]
18
=>
[[६। ‘वसेस्तव्यत् कर्तरि णिच्च’ (वा। ३-१-९६) इति वचनात् कर्तरि तव्यत्प्रत्ययः। णिद्वद्भावेनोपधावृद्धिः। वसतीति वास्तव्यः।]]
19
=>
[[F। ‘प्रसूनकॢप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः।।’ शि। व। १-६६]]
20
=>
[पृष्ठम्१२१३+ २६]
21
=>
[[१। अमा = सह वसतः सूर्याचन्द्रमसौ इत्यर्थे ‘अमावस्यद् अन्यतरस्याम्’ (३-१-१२२) इति ण्यत्प्रत्ययान्तो निपात्यते। पक्षे वृद्ध्यभावश्च निपातनादेव। तेन अमावास्या अमावस्या इति रूपद्वयम्।]]
22
=>
[[आ। ‘स तामूचेऽथ कच्चित्त्वममावास्यासमन्वये।’ भ। का। ६-६४]]
23
=>
[[२। ‘हलश्च’ (३-३-१२१) इति घञ्। ‘शयवास--’ (६-३-१८) इति सप्तम्या अलुक्।]]
24
=>
[[B। ‘आवासे सिक्तसंमृष्टे गन्धैस्त्वं लिप्तवासिता।’ भ। का। ५-९०]]
25
=>
[[C। ‘रक्षन् वनेवासकृताद् भयात् तान् प्रातश्छलेनापजगाम रामः।।’ भ। का। ३-१६।]]
26
=>
[[३। ‘पेषंवासवाहनधिषु च’ (६-३-५८) इति सूत्रेण वासशब्द उत्तरपदे उदकशब्दस्य उदादेशः। उदवासः उदकस्य वास इत्यर्थः।]]
27
=>
[[४। स्त्रियां क्तिनि सम्प्रसारणषत्वष्टुत्वादिकेषु रूपमेवम्। वसतिः इति तु औणादिकं रूपमिति ज्ञेयम्।]]
28
=>
[[५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्प्रत्यये रूपम्। यद्यपि भाव एवायं प्रत्ययः, तथापि यथासम्भवं कर्तर्यपि भवति। वासिः = तक्ष्ण आयुधविशेषः।]]
29
=>
[[६। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति क्त्वायामिडागमः। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधं बाधित्वा ‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’ (१-२-७) इति कित्त्वम्। तेन सम्प्रसारणादिकं भवतीति ज्ञेयम्।]]
30
=>
[[ड्। ‘ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते।’ भ। का। ३-४५।]]
31
=>
[[E। ‘क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्तात्…।’ शि। व। ११-६५]]
32
=>
[पृष्ठम्१२१४+ ३०]
33
=>
[[१। ‘वहिवस्यर्तिभ्यश्चित्’ (द। उ। १-२९) इत्यतिप्रत्ययः। वसतिः = आलयः।]]
34
=>
[[२। ‘वसिवपि--’ (द। उ। १-५३) इति इञ्प्रत्ययः। वासिः = तक्षकारभाण्डम्।]]
35
=>
[[३। औणादिकः (द। उ। १-६८) इप्रत्ययः। वसिः शय्या, रात्रिर्वा।]]
36
=>
[[४। ‘वसेस्तिः’ (द। उ। १-७४) इति तिप्रत्ययः। वसत्यस्मिन् नानौषधियुक्तः स्नेह इति वस्तिः-अधःकायप्रदेशः, चर्ममयः पुटश्च। बस्तिः इति गौडीयाः।]]
37
=>
[[५। औणादिके (द। उ। १-९५) उप्रत्यये रूपमेवम्। वसु = धनम्।]]
38
=>
[[६। ‘वसेस्तुन्’ (द। उ। १-१२८) इति तुन्प्रत्ययः। वस्तु = द्रव्यम्।]]
39
=>
[[७। ‘अगारे णिच्च’ (द। उ। १-१२९) इति तुन्प्रत्ययः, तस्य णिद्वद्भावेनोपधावृद्धिः। वास्तु = गृहादिकम्।]]
40
=>
[[८। ‘आङि वसः’ (द। उ। ६-३९) इति आङ्युपपदे धातोरथप्रत्यये रूपमेवम्। आवसथः = गृहादिकम्।]]
41
=>
[[९। ‘वसेश्च’ (द। उ। ८-५१) इति सरन्प्रत्यये ‘सः स्यार्द्धधातुके’ (७-४-४९) इति तकारादेशे रूपम्। वसन्त्यस्मिन् ग्रहनक्षत्रर्तुदेवता इति वत्सरः = अब्दः। ‘संवत्सरो वत्सरोऽब्दः हायनोऽस्त्री शरत्समाः’ इत्यमरः।]]
42
=>
[[१०। णिजन्तात् औणादिके (द। उ। ८-१००) अरप्रत्यये रूपमेवम्। ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ इत्यमरः।]]
43
=>
[[११। अतिशयेन वसुमान् वसिष्ठः। वसुमच्छब्दात् इष्ठन्प्रत्यये मतुब्लुकि टिलोपे रूपमेवम्।]]
44
=>
[[१२। ‘धापॄवस्यज्यतिभ्यो नः’ (द। उ। ५-३९) इति नः। “वस्नम् मूल्यम्” इति धातुवृत्तिः।]]
45
=>
[[१३। ‘तॄभूवहिवसि--’ (द। उ। ६-१९) इति झच्प्रत्ययः। ‘झोऽन्तः’ (७-१-३) इति अन्तादेशे वसन्तः इति रूपम्। ऋतुविशेषः।]]
46
=>
[[१४। औणादिके (द। उ। ८-७९) ष्ट्रन्प्रत्यये रूपमेवम्। केचित्तु ‘वस आच्छादने’ इत्यस्मात् व्युत्पादयन्ति, तदेव न्याय्यम्।]]