| YouTube Channel

निवातकवचः (nivAtakavacaH)

 
शब्दकल्पद्रुमः
Sanskrit
निवातकवचः,
पुं,
दैत्यविशेषः तु हिरण्य-कसिपोः पौत्त्रः संह्रादपुत्त्रः इत्यग्निपुराणम्
(निवातं शस्त्राभेद्यं कवचं येषामिति दानव-विशेषे, पुंलिङ्गो बहुवचनान्तः ते तु इन्द्रादि-ष्टेनार्ज्जुनेन निहताः यथा, महाभारते ।१६८ ७० -- ७२ ।“ततो मामब्रवीद्राजन् ! प्रहस्य बलवृत्रहा ।नाविषह्यन्तवास्तीति त्रिषु लोकेषु किञ्चन
निवातकवचा नाम दानवा देवशत्रवः ।समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसत्युत
तिस्रः कोट्यः समाख्याता स्तुल्यरूपबलप्रभाः ।तांस्तत्रजहि कौन्तेय ! गुर्व्वर्थस्ते भविष्यति
”एतद्बिवरणविस्तृतिस्तु तत्रैव विशेषतो द्रष्टव्या
)