| YouTube Channel

निर्व्वेदः (nirvvedaH)

 
शब्दकल्पद्रुमः
Sanskrit
निर्व्वेदः,
पुं,
(निर् + विद् + घञ् ।) स्वावमान-नम् इति हेमचन्द्रः
(यथा, देवीभागवते ।३ १० ३७ ।“देवैर्युद्धं कृतं चोग्रं प्रह्लादस्तु पराजितः ।निर्व्वेदं परमं प्राप्तो ज्ञात्वा धर्म्मं सनातनम्
”)स तु त्रयस्त्रिंशद्ब्यभिचारिभावानामादिमः ।शान्तरसस्य स्थायिभावश्च यथा, --“निर्व्वेदःस्थायिभावोऽस्ति शान्तोऽपि नवमोरसः
”इति काव्यप्रकाशः
तस्य लक्षणं यथा, --“तत्त्वज्ञानापदीर्य्यादेर्न्निर्व्वेदः स्वावमाननम्
”तदुदाहरणम् यथा, --“मृत्पिण्डबालुकारन्ध्रपिधानरचनार्थिना ।दक्षिणावर्त्तशङ्खोऽयं हन्त चूर्णीकृतो मया
”इति साहित्यदर्पणम्
परवैराग्यम् यथा, --“ततः कदाचिन्निर्व्वेदान्निराकाराश्रितेन ।लोकतन्त्रं परित्यक्तं दुःखार्त्तेन भृशं मया
”इति मोक्षधर्म्मः
वैराग्यम् यथा, श्रीभगवद्गीतायाम् ।“तदा गन्तासि निर्व्वेदं श्रोतव्यस्य श्रुतस्य
”(निर्गतो वेदो यस्मादिति ।) वेदरहिते, त्रि