| YouTube Channel

निर्व्विष्टः (nirvviSTaH)

 
शब्दकल्पद्रुमः
Sanskrit
निर्व्विष्टः, त्रि, (निर् + विश + क्तः ।) कृतनिर्व्वेशः ।प्राप्तः यथा, श्रीभागवते ।“यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते
”स्थितः यथा, भागवते ३३ ।“स्वनिर्म्मितेषु निर्व्विष्टो भुड्क्ते भूतेषु तद्-गुणान्
”विवाहितः कृताग्निहोत्रः यथा “ज्येष्ठेऽ-निर्व्विष्टे कनीयान् निर्व्विशन् परिवेत्ता भवति ।”इत्युद्वाहतत्त्वम्