| YouTube Channel

निर्व्वापः (nirvvApaH)

 
शब्दकल्पद्रुमः
Sanskrit
निर्व्वापः,
पुं,
(निर्व्वपणमिति निर् + वप +घञ् ।) निवापः प्रेतभिन्नमृतपित्रुद्देश्यक-दानम् इत्यमरटीकायां तर्कवागीशः
(यथा, देवीभागवते १६ ।“पुत्त्रेभ्योऽहं ददाम्यद्य निर्व्वापं विधिपूर्व्वकम्
”भिक्षार्थदानम् यथा, पञ्चतन्त्रे २० ।“एतस्मिन्नवसरे ब्राह्मणोऽपि कुतश्चित् गृहीत-निर्व्वापः परिभ्रम्य यावदागतः पश्यति तावत्पुत्त्रशोकाभिभूता ब्राह्मणी विलपति
भक्ष-णम् इति रामानुजः
यथा, रामायणे ।२ ९१ ८० ।नीलवैदूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ।निर्व्वापार्थं पशूनां ते ददृशुस्तत्र सर्व्वशः
”)