| YouTube Channel

निर्व्वाणं (nirvvANaM)

 
शब्दकल्पद्रुमः
Sanskrit
निर्व्वाणं,
क्ली,
(निर् + वा गमने + क्तः तस्यनः ।) अस्तगमनम् निर्वृतिः गजमज्जनम् ।(यथा, रघुः ७१ ।“असह्यपीडं भगवन्नृणमन्त्यमवेहि मे ।अरुन्तुदमिवालानमनिर्व्वाणस्य दन्तिनः
”)सङ्गमः अपवर्गः इति मेदिनी णे, ५८
(यथा, भागवते २८ ३५ ।“मुक्ताश्रयं यर्हि निर्व्विषयं विरक्तंनिर्व्वाणमृच्छति मनः सहसा यथार्च्चिः
”)विश्रान्तिः इति हेमचन्द्रः
(समाप्तिः ।यथा भागवते २९ ।“आरब्धकर्म्मनिर्व्वाणो न्यपतत् पाञ्चभौतिकः
”)निश्चलम् शून्यम् विद्योपदेशनम् इतिशब्दरत्नावली
नाभिदेशे जप्यप्रणवपुटित-मातृकापुटितमूलमन्त्रम् यथा, --“कुल्लुकां मूर्द्ध्नि संजप्य हृदि सेतुं विचिन्तयेत् ।महासेतुं विशुद्धे तु षोडशारे समुद्धरेत्
प्तणिपुरे तु निर्व्वाणं महाकुण्ड लिनीमधः ।स्वाधिष्ठाने कामबीजं राकिणी मूर्द्ध्नि संस्थितम् ।विचिन्त्य विधिवद्देवि ! मूलाधारान्तिकाच्छिवे !
विशुद्धान्तं स्मरेद्देवि ! विशतन्तुतनीयसीम् ।देवीस्थानं द्विजिह्वान्तं मन्त्रमूलावृतं मुहुः
”निर्व्वाणं यथा, --“अथ वक्ष्यामि निर्व्वाणं शृणु सावहितानधे ! ।प्रणवं पूर्व्वमुच्चार्य्य मातृकाद्यं समुच्चरेत्
मातृकार्णां समस्ताञ्च पुनः प्रणवमुच्चरेत् ।एवं पुटितमूलन्तु प्रजपेन्मणिपूरके
एवं निर्व्वाणमीशानि ! यो जानाति पामरः ।कल्पकोटिसहस्रेषु तस्य सिद्धिर्न जायते
”इत्यागमतत्त्वविलासः
(विष्णुः यथा, महाभारते १३ १४९ ७५ ।“त्रिसामा सामगः साम निर्व्वाणं भेषजंभिषक्
”)