| YouTube Channel

निर्व्वहणं (nirvvahaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
निर्व्वहणं, क्ली
स्त्री,
(निर् + वह + भावे ल्युट् ।)निष्ठा इत्यमरः १५
तत्तु प्रक्रान्ता-भिनयनिर्व्वाहः किंवा नाटके पञ्च सन्धयोभवन्ति यथा, --“मुख प्रतिमुखञ्चैव गर्भो विमर्ष एव ।तथा निर्व्वहणञ्चेति नाटके पञ्च सन्धयः
”तत्र पञ्चमस्य सन्धेः संज्ञाद्वयमिदम् इतिभरतः
मुकुटस्त्वाह द्बे पञ्चमसन्धिसमाप्तौ ।प्रस्तुतकथासमाप्ताविति यावत् यथैतदनुवृत्तौशब्दार्णवः निर्व्वहणन्तु निष्ठा स्त्री संहारश्चसमापने प्रक्रान्तकथानिर्व्वाहः इति मधु-माधवादयः