| YouTube Channel

निर्व्वपणं (nirvvapaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
निर्व्वपणं,
क्ली,
(निर् + वप + भावे ल्युट् ।)दानम् इत्यमरः ३०
(यथा, मनुः २४८ ।“अनयैवावृता कार्य्यं पिण्डनिर्व्वपणं सुतैः
”पिण्डदानम् यथा, तत्रैव २६० ।“एवं निर्व्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।गां विप्रमजमग्निं वा प्राशयेसु वा क्षिपेत्
”यथा गोः रामायणे १०८ ४२ ।“एषा मन्दाकिनी पुण्या नदी सुविमलोदका ।पितुर्निर्व्वपणं यत्र मया मूलफलैः कृतम्
”पिण्डः यथा, महाभारते १३ ८४ १४ ।“तत् समाप्य यथोद्दिष्टं पूर्व्वकर्म्म समाहितः ।दातुं निर्व्वपणं सम्यक् यथावदहमारभम्
”अन्नादिसंविभागः इति श्रीधरस्वामी
यथा, भागवते १२ १२ ।“रहूगणैतत् तपसा यातिन चेज्यया निर्व्वपणाद् गृहाद् वा
”)