| YouTube Channel

निर्म्मोकः (nirmmokaH)

 
शब्दकल्पद्रुमः
Sanskrit
निर्म्मोकः,
पुं,
(नितरां मुच्यते इति निर् +मुच् + घञ् ।) सर्पत्वक् तत्पर्य्यायः अहि-कोषः निर्ल्व यनी कञ्चुकः इति हेम-चन्द्रः ३८१
(यथा, आर्य्यासप्त-शत्याम् ३२८ ।“निजगात्रनिर्व्विशेषस्थापितमपि सारमखिल-मादाय ।निर्म्मोकञ्च भुजङ्गी मुञ्चति पुरुषञ्च वारवधूः
”त्वक्मात्रम् यथा, महाभारते १३ १४१ ।१०१ ।“मृगनिर्म्मोकवसनाश्चीरवल्कलवाससः ।निर्द्वन्द्वाः सत्पथं प्राप्ता वालिखिल्यास्तपोधनाः
”भावे घञ् ।) मोचनम् आकाशः सन्नाहः ।इति मेदिनी के, १११
(सावर्णिमनोःपुत्त्रविशेषः यथा, भागवते १३ ११ ।“अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।निर्म्मोकविरजस्काद्याः सावर्णितनया नृप !
”)