निर्म्माल्यं (nirmmAlyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनिर्म्माल्यं, (निर् + मल + ण्यत् ।) देवो-च्छिष्टद्रव्यम् । देवस्वत्वनिवृत्तिविशिष्टं देवदत्तंवस्तु । यथा, --“अर्व्वाक् विसर्ज्जनाद्द्रव्यं नैवेद्यं सर्व्वमुच्यते ।विसर्ज्जिते जगन्नाथे निर्म्माल्पं भवति क्षणात् ॥
”इति गरुडपुराणम् ॥
* ॥
तस्य स्थापनं क्षेपणञ्च यथा । “ऐशान्यां मण्डलंकृत्वा निर्म्माल्यशेषं दद्यादिति । वैष्णवे तु ओँविश्वक्सेनाय नमः । शक्तौ तु ओँशेषिकायैनमः । शिवे ओँचण्डेश्वराय नमः । सूर्य्ये ओँतेजश्चण्डाय नमः । गणेशे ओँउच्छिष्टगणेशायनमः । कालिकादौ ओँउच्छिष्टचाण्डालिन्यैनमः । तथा च विद्यानन्दनिबन्धे ।‘सूर्य्ये गणपतावुग्रे शाक्ते शैवेऽथ वैष्णवे ।तेजश्चण्डमथोच्छिष्टसोजमुच्छिष्टपूर्व्विकाम् ॥
चाण्डालीं शेषिकां चण्डं विश्वक्सेनं क्रमाद्-यजेत् ॥
’सोजो गणेशः ।‘हृदये च बहिर्देवीं समर्प्य विधिवत्ततः ।निर्म्माल्यञ्च शुचौ देशे नैवेद्यं भक्षयेत् सुधीः ॥
’तन्त्रान्तरे ।निर्म्माल्यं शिरसा धार्य्यं सर्व्वाङ्गे चानुलेपनम् ।नैवेद्यञ्चोपभुञ्जीत दत्त्वा तद्भक्तशालिने ॥
”इति तन्त्रसारः ॥
* ॥
“उदके तरुमूले वा निर्म्माल्यं तत्र संत्यजेत् ॥
”इति कालिकापुराणे ५५ अध्यायः ॥
निर्म्माल्यकालो यथा, --“मणिमुक्तासुवर्णानां देवदत्तानि यानि च ।न निर्म्माल्यं द्बादशाब्दं ताम्रपात्रं तथैव च ॥
पटी शाटी च षण्मासं नैवेद्यं दत्तमात्रतः ।मोदकं कृशरञ्चैव यामार्द्धेन महेश्वरि ! ॥
पट्टवस्त्रं त्रिमासञ्च यज्ञसूत्रन्त्वहः स्मृतम्यावदन्नं भवेदुष्णं परमान्नन्तथैव च ॥
”इत्येकादशीतत्त्वे योगिनीतन्त्रम् ॥
शिवनिर्म्माल्ये विशेषो यथा, स्कान्दे ।“निर्म्माल्यं यो हि मे भक्त्या शिरसा धारयिष्यति ।अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः ।नरके पच्यते घोरे तिर्य्यग्योनौ च जायते ॥
ब्रह्महापि शुचिर्भूत्वा निर्म्माल्यं यस्तु धारयेत् ।तस्य पापं महच्छ्रीघ्रं नाशयिष्ये महाव्रते ! ॥
शुचिः स्नानादिनेति शेषः । एवञ्च स्पृष्ट्वारुद्रस्य निर्म्माल्यं सवासा आप्लुतः शुचिरितिकालिकापुराणं अशुचिविषयम् ॥
अनुपनीत-विषयमिति श्रीदत्तः । बह्वृचगृह्यपरिशिष्टम् ।अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥
”इति तिथितत्त्वम् ॥
तस्य उत्तारणकालो यथा, --अथ निर्म्माल्योत्तारणम् । अत्रिस्मृतौ ।“प्रातःकाले सदा कुर्य्यान्निर्म्माल्योत्तारणं बुधः ।तृषिताः पशवो बद्धाः कन्यका च रजस्वला ॥
देवता च सनिर्म्माल्या हन्ति पुण्यं पुराकृतम् ॥
नारसिंहे श्रीयमोक्तौ ।देवमाल्यापनयनं देवागारे समूहनम् ।स्नापनं सर्व्वदेवानां गोप्रदानसमं स्मृतम् ॥
नारदपञ्चरात्रे ।यः प्रातरुत्थाय विधाय नित्यंनिर्म्माल्यमीशस्य निराकरोति ।न तस्य दुःखं न दरिद्रता चनाकालमृत्युर्न च रोगमात्रम् ॥
अरुणोदयवेलायां निर्म्माल्यं शल्यतां व्रजेत् ।प्रातस्तु स्यान्महाशल्यं घटिकामात्रयोगतः ॥
अतिशल्यं विजानीयात्ततो वज्रप्रहारवत् ।अरुणोदयवेलायां शल्यं तत् क्षमते हरिः ॥
घटिकायामतिक्रान्तौ क्षुद्रं पातकमावहेत् ।मुहूर्त्ते समतिक्रान्ते पूर्णं पातकमुच्यते ॥
अतिपातकमेव स्यात् घटिकानां चतुष्टये ।मुहूर्त्तत्रितये पूर्णे महापातकमुच्यते ॥
ततः परं ब्रह्मवधो महापातकपञ्चकम् ।प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥
निर्म्माल्यस्य विलम्बे तु प्रायश्चित्तमथोच्यते ।अतिक्रान्ते मुहूर्त्तार्द्धे सहस्रं जपमाचरेत् ॥
पूर्णे मुहूर्त्ते सञ्जाते सहस्रं सार्द्धमुच्यते ॥
सहस्रद्वितयं कुर्य्यात् घटिकानां चतुष्टये ।मुहूर्त्तत्रितयेऽतीते अयुतं जपमाचरेत् ॥
प्रहरे पूर्णतां याते पुरश्चरणमुच्यते ।प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥
”इति श्रीहरिभक्तिविलासे ३ विलासः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
