| YouTube Channel

निर्भयः (nirbhayaH)

 
शब्दकल्पद्रुमः
Sanskrit
निर्भयः, त्रि, (निर्गतं भयं यस्य यस्माद्बा ।) भय-रहितः तत्पर्य्यायः अजानेयः इतित्रिकाण्डशेषः
(यथा, हरिवंशे ८३ ११ ।“रजकः तु तौ प्राह युवां कस्य वनेचरौ ।राज्ञो वासांसि यौ मौढ्याद्याचेते निर्भया-वुभौ
”पुं, रौच्यमनुपुत्त्रे यथा, हरिवंशे ८३ ।“सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः ।रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे
”)