निर्द्धारण (nirddhAraNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritनिर्द्धारण निर् + धृ--णिच्--ल्युट् । १ निश्चये जातिगुणक्रि-याभिः समुदायादेकदेशस्य २ पृथक्करणे “यतश्च निर्द्धार-चम्” पा० तदर्थे षष्ठी सप्तमी च भवति । तत्स्वरूपा-न्वयादिकं शब्दश० प्र० उक्तं यथा“विशेषस्य स्वेतरसामान्यव्यावृत्तधर्मवत्त्वं निर्धारणंतच्च समुदितं न षष्ठ्यर्थः सामान्यतन्निष्ठधर्मयोः स्वपदो-पात्तत्वात् । किन्तु विशेषान्यत्वं व्यावृत्तं च । विशेषस्तत्स-मभिव्याहृतक्षत्रियादिर्विशेष्य ग्राह्यः । व्यावृत्तत्वञ्च भेद-प्रतियोगित्वं तथा च नराणां क्षत्रियः शूरतम इत्यत्रक्षत्रियस्य नरविशेषतया षष्ठ्यर्थेन क्षत्रियान्यत्वेन विशि-ष्टस्य तत्प्रकृत्यर्थस्य नरस्य तादृशनरत्वावच्छिन्नाधेयत्व-संसर्गेण भेदेऽन्वयलब्धस्य क्षत्रियान्यनरत्वावच्छिन्नवृत्तिक-भेदप्रतियोगित्वस्य शूरतमे शूरतमस्य च क्षत्रिये तादा-त्म्येनान्वय इति क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रति-योगित्ववच्छूरतमाभिन्नः क्षत्रिय इत्याकारकस्तत्र बोधः ।क्षत्रियान्यनरस्याघेयतामात्रेण भेदेऽन्वये नराणां क्षत्रियःसुन्दर इत्यपि प्रयोगापत्तेः क्षत्रियान्यकुरूपनरनिष्ठभेद-प्रतियोगित्वस्य सुन्दरे सत्त्वात् । एवञ्च नरत्वातच्छिन्न-वृत्तिकभेदप्रतियोगित्वस्य शूरतमे बाधादुक्तवाक्यस्यायोग्य-तापत्तिरतः षष्ठ्यर्थेन क्षत्रियान्यत्वेन तत्प्रकृत्यर्थो नरोविशेषितः । नच घटानां क्षत्रियः शूर इत्यपि स्यात्क्षत्रियान्यघटत्वावच्छेदेन शूरभेदस्य सत्त्वादिति वाच्यंराहोः शिर इत्यादाविव प्रकृते क्षत्रियान्वयिनः स्वप्रकृ-त्यर्थतादात्म्यस्य षष्ठ्या बोध्यत्वात् । न च सङ्ख्यान्यसु-वर्थस्य प्रकृत्यर्थविशेष्यत्वनियमात् क्षत्रियान्यत्वरूपस्य षष्ठ्य-र्थस्य प्रकृत्यर्थनरे प्रकारत्वायोग इति वाच्यं सम्बोध्य-त्वादौ व्यभिचारेण तादृशव्याप्तेः प्रायिकत्वस्य प्रागुक्त-त्वात् । न च नराणां क्षत्रियो द्रव्यमित्यपि स्यात्क्षत्रियान्यनरत्वावच्छेदेन द्वित्वाद्यवच्छिन्नद्रव्यप्रतियोगि-ताकभेदसत्त्वादिति वाच्यं द्रव्यत्वादिविशिष्टे धर्मिणिद्रव्यत्वाद्यवच्छिन्नस्यैव भेदप्रतियोगित्वस्य बोधने निर्द्धारणषष्ठ्याः तमर्थत्वात् । यद्यपि भेदः प्रतियोगित्वञ्च द्वयमेवनिर्द्धारणषष्ठ्यथः चत्रियशब्देनैवोपस्थापितस्य क्षत्रियस्यषष्ठ्यर्थभेदे तस्य च नरे नरस्य च पुनर्भेदे पुनर्भेदस्य प्रति-योगित्वेऽन्वयादेव क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रति-योनित्वस्य शूरतमऽन्वयसम्भवः । तथापि क्षत्रियादि-नामोपस्थाप्यस्य क्षत्रियादेस्तादृशनामोत्तरविभक्त्यर्थ एवभेदान्वयस्य व्युत्पन्नत्वात् नरपदोत्तरषष्ठ्यर्थे तदन्व-यासम्भवात् क्षत्रियान्यत्वं विशिष्टमेव षष्ठ्यर्थो नत्व-न्यतामात्रम् न च नरस्य क्षत्रियः शूर इत्यपि स्यात्पाणिपादस्य पाणिः पवित्र इत्यत्रेवान्यत्रापि एकवचनस्यनिर्द्धारणार्थकत्वे क्षत्यभावात् । अतएव द्वन्द्वः सामासिकस्यचेति गीतापि सङ्गच्छते । एकवचनभिन्नयोरेव षष्ठीसप्तम्यो-रुक्तनिर्द्धारणबोधकत्वव्युत्पत्तिस्वीकाराद्वा । ननु पाथःपृथिव्योजल स्नेहवदित्यादौ जलभिन्नयोः पाथःपृथिव्योरप्रसिद्ध्या पाथःपृथिव्युभयवृत्तिभेदप्रतियोगित्वस्यस्नेहवति बाधेन च जलान्यपाथःपृथिव्युभयत्वावच्छिन्न-वृत्तिकभेदप्रतियोगिनः स्नेहवतो वोधासम्भवः । न चद्विपदद्वन्द्वोत्तरनिर्द्धारणषष्ठ्या अन्यतरवृत्तिभेदप्रयोगि-त्वमेवार्थः तन्निविष्टे चान्यतरस्मिन्नेकपदोपात्तत्वेन जला-न्यत्वादेः षष्ठार्थान्तरस्यान्वयः तथाच जलान्यो यः पाथपृथिव्योरन्यतरस्तन्निष्ठस्य भेदस्य प्रतियोगित्वं स्नेहवतिवर्त्तत एवेति वाच्यं तावतापि पाथःपृथिव्युभयतादा-त्म्यस्य जले बाधादुक्तवाक्यस्यायोम्यतातादवस्थ्यात् पाथः-पृथिव्योस्तेज उष्णमित्याद्यप्रयोगेन निर्द्धारणषष्ठ्यास्तादा-त्म्यवाचिताध्रौव्यात् घटतद्भिन्नयोर्घटः कम्बुग्रीवादि-मानित्यादौ घटतद्भिन्नान्यतरत्वाप्रसिद्ध्या तादृशान्य-तरवृत्तिभेदस्य बोधयितुमशक्यत्वाच्चेति चेन्न द्वन्द्वोत्तरनिर्द्धारणषष्ठ्याः पर्य्याप्तसंख्यायामपि शक्तत्वेन तस्मिन्नेवैकपदोपात्तत्वेन षष्ठ्यर्थस्य जलाद्यन्यत्वरूपनिर्द्धार्य्य-भेदस्यान्वयेन सर्वसामञ्जस्यात् । पाथःपृथिव्योर्जलं स्नेह-वदित्यादौ जलभिन्नो यः पाथःपृथिवीपर्य्याप्तसंख्याश्रय-स्तत्त्वावच्छिन्नवृत्तिकभेदप्रतियोगिसस्नेहाभिन्नं पाथःपृथिवीपर्य्याप्तसख्याश्रयो जलमित्यन्वये वाधकभावात् ।पटघटमठानां घटः कम्बुग्रीवादिमानित्यादावप्युक्तरीत्यैबान्वयधीः । इदन्तु बोध्यं यत्रोद्देश्यविधेययोस्तादात्म्ये-नान्वयबोधसामग्री तत्रैव निर्द्धारणषष्ठ्या भेदपतियोगि-त्वमर्थः यत्र तु सम्बन्धान्तरेण, तत्रात्यन्ताभावप्रतियोगि-त्वमतो नराणां क्षत्रिये शौर्य्यमित्यादौ क्षत्रियान्यनरत्वा-वच्छिन्नवृत्तिकस्यात्यन्त्यभावस्यैव प्रतियोगित्वं शौर्य्यादौप्रतीयते न तु तादृशभेदस्य नराणां क्षत्रिये रूपमित्यपिप्रयोगापत्तेः । नरणां मध्ये क्षत्रियः शूर इत्यादौ तुनिर्द्धारणवाचिनो मध्ये इत्यव्ययस्य तदर्थकषष्ठ्या सहसम्भेदे देहे चैत्र इत्यादाविव नान्यतरवैयर्थ्यम् । नरेषुक्षत्रियः शूर इत्यादौ निर्द्धारणसप्तमीस्थलेऽप्युक्तदि-शैवान्वयो द्रष्टव्यः । यत्तु नराणां क्षत्रिय, शूरतमइत्याद्रौ राहोः शिर इत्यत्रेवाभेदएव षष्ठ्यर्थस्तादात्म्यंवा तथा च नराभिन्नक्षत्रियत्वाच्छेदेन शूरतमम्याभेदस्तत्रवाक्यार्थस्तेन नराणां क्षत्रियोऽर्जुन इत्यादिकोन प्रयोमःनरभिन्नक्षत्रियत्वावच्छेदेनार्ज्जुनाभेदस्यासत्त्वात् न वानराणां वानरः पशुरित्यादिकः” कीशे पश्वभेदसत्त्वेऽपिमानुषाभेदस्य विरहादिति तत्तुच्छं नराणां क्षत्रियःप्राणी क्षत्रियाणां नरः शूरैत्यादिबाक्यस्य दुर्वार-तापत्तेः । केचित्तु नराणां क्षत्रियः शूर इत्यादौ क्षत्रि-यान्यो नरः शूरभिन्नो नराभिन्नः क्षत्रियश्च शूरैत्ये-वमन्वयितावच्छेदकधर्मावच्छेदेन धियमुरीकुर्वन् भेदमभेदञ्चनिर्द्धारणवाचिषष्ठीसप्तम्योरर्थमाहुस्तच्चिन्त्यं नामार्थमुख्य-विशेषकान्वयबोधे नाम्नः प्रथमान्तत्वापेक्षायाः परित्यागा-पत्तेः स्वप्रकृत्यर्थाबच्छिन्नस्यैव संख्यान्यसुबर्थस्य शब्दान्त-रार्थेन सहान्वयस्य व्युत्पन्नत्वेन षष्ठ्यर्थे केवलभेदे शूरादेरन्वयायोगाच्चेत्यास्तां विस्तरः” । “पञ्चमी विभक्ते” पा० यत्रनिर्द्धार्य्यमाणस्य भेदएव प्रतीयते तत्र पञ्चमी स्यात् सि-कौ० पञ्चम्यास्तु भेदएवाथः यथा माथुरा पाटलिपुत्रेभ्यआढ्यतर इति “यतश्च निर्द्धारणमित्यनुवर्त्तते विभागोऽत्रभेदः तत्र निर्द्धारणे सर्वत्र यथा कथञ्चित् भेदस्य सत्त्वे-ऽपि विभक्तग्रहणसामर्थ्यात् यत्र भेद एव न तु केना-प्युपाध्यादिरूपेणाभेदस्तत्रैवास्याः प्रवृत्तिरित्याह भेदए-वेति न तु शब्दान्तरोपात्ते सामान्याक्रान्ततेति भावः ।अत्र पञ्चम्यर्थो निर्द्धारणविषयरूपएव तत्र च अवधिमत्त्व-सम्बन्धन पाटलिपुत्रस्यान्वयः तेन पाटलिपुत्रावधिकनि-र्द्धारणविषया माथुरा आढ्यतरा इति बोधः । न ह्यत्रनिर्द्धा णाबधेर्निर्द्धार्य्यमाणस्य च गोषु कृष्णेत्यादाविवसामान्यविशेषभावोऽस्ति प्रत्युत शब्दोपात्तयोधर्मयोर्वि-रोध एव” मनोरमा ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
