| YouTube Channel

निर्द्देशः (nirddezaH)

 
शब्दकल्पद्रुमः
Sanskrit
निर्द्देशः,
पुं,
(निर् + दिश + भावे घञ् ।) आज्ञा ।इत्यमरः १५
(यथा, भागवते ।६ ३८
“यूयं वै धर्म्मराजस्य यदि निर्द्देशकारिणः ।ब्रूत धर्म्मस्य नस्तत्त्वं यच्च धर्म्मस्य लक्षणम्
”)कथनम् (यथा, गीतायाम् १७ २३ ।“ओँ तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः
”)उपान्तः इति मेदिनी शे, २३