| YouTube Channel

निर्णीतं (nirNItaM)

 
शब्दकल्पद्रुमः
Sanskrit
निर्णीतं, त्रि, (निर् + नी + क्तः ।) कृतनिर्णयः ।निश्चयीकृतः यथा, --“निर्णीते व्यवहारे तु प्रमाणमफलं भवेत् ।लिखितं साक्षिणो वापि पूर्व्वमावेदितं चेत्
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।निर्णीतव्यवहाराणां प्रमाणमफलं तथा
”इति व्यवहारतत्त्वम्
तद्वैदिकपर्य्यायः “निण्यम् सस्वः सनुतः३ हिरुक् प्रतीच्यम् अपीच्यम् इतिषनिनर्णीतान्तर्हितनामधेयानि ।” इति वेद-निघण्टौ २५