| YouTube Channel

निर्णयः (nirNayaH)

 
Apte
English
निर्णयः [nirṇayḥ] निर्णीत [nirṇīta] निर्णेतृ [nirṇētṛ], निर्णीत निर्णेतृ &e. See under निर्णी.
निर्णयः [nirṇayḥ], 1 Removing, removal.
Complete ascertainment, decision, affirmation, determination, settlement
संदेहनिर्णयो जातः
Ś.*
1.27
Ms.*
8.31, 49
9.25
Y.*
2.1
हृदयं निर्णयमेव धावति
Ki.*
2.29.
Deduction, inference, conclusion, demonstration (in logic).
Discussion, investigation, consideration
Sentence, verdict, judgment
बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये
Mb.
* 3.292.2
सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय
M.*
1.
Application of a conclusive argument.
(In
Rhet.
) Narration of events.
Comp.
-उपमा
a.
comparison based upon an inference
Kāv.2.27. -पादः a sentence, decree, verdict (in law).
Apte 1890
English
निर्णयः, निर्णीत, निर्णेतृ &c. See under निर्णी.
निर्णयः 1 Removing, removal.
2 Complete ascertainment, decision, affirmation, determination, settlement
संदेहनिर्णयो जातः Ś. 1. 28
Ms. 8. 301, 409
9. 250, Y. 2. 10
हृदयं निर्णयमेव धावति Ki. 2. 29.
3 Deduction, inference, conclusion, demonstration (in logic).
4 Discussion, investigation, consideration.
5 Sentence, verdict, judgment
सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय M. 1.
6 Application of a conclusive argument.
7 (In Rhet.) Narration of events.
Comp.
पादः a sentence, decree, verdict (in law).
Wordnet
Sanskrit
Synonyms:
निर्णयः
noun
वादिप्रतिवादिनोः मतं तर्कञ्च श्रुत्वा तस्य योग्यतायाः विषये न्यायालयद्वारा स्वस्य निश्चितमतकथनम्।
"बहुभ्यः दिनेभ्यः प्रचाल्यमानस्य अभियोगस्य निर्णयः ह्यः जातः।"
Synonyms:
निर्णयः, निश्चयः, व्यवसायः, सम्प्रधारणम्, परिच्छेदः
noun
केषाञ्चन कार्यक्रमादीनाम् अवधारणम्।
"सितम्बरमासस्य चतुर्दशदिनाङ्के कवि-सम्मेलनस्य आयोजनस्य निर्णयः जातः।"
Synonyms:
निर्णयः, निर्णयपादः, आधर्षणम्, तीरणम्, तीरतम्
noun
न्यायालये वादिप्रतिवादिनां दोषादोषविषये अधिकारानधिकारविषये वा प्रस्तूतान् तर्कान् श्रुत्वा दण्डाधिकारिणा कृतं निर्धारणम्।
"तस्य न्यायालयस्य निर्णये यः विश्वासः आसीत् सः नष्टः।"
Synonyms:
निर्णयः, निश्चयः, विनिश्चयः
noun
उचितानुचितयोः विचार्य इदं योग्यम् इति निर्धारणस्य क्रिया।
"तेन गृहजनेभ्यः पृथक् निवासस्य निर्णयः कृतः।"
Synonyms:
निश्चयः, निर्णयः, निर्णयणम्, निश्चितम्, निष्पत्तिः, सिद्धीः
noun
ऊहादिना कस्यापि वस्तुनः स्थितेः निश्चितिः।
"भूरि निरिक्षणानन्तरम् अस्माकम् अयं निर्णयः जातः यत् रामः सज्जनः पुरुषः इति।"
Synonyms:
परीक्षणम्, समीक्षणम्, निरीक्षणम्, निरुपणम्, अनुसन्धानम्, परीक्षा, विचारः, विचारणम्, विचारणा, जिज्ञासा, अन्वेक्षणम्, अन्वेक्षणा, अवेक्षा, अवेक्षणम्, संवीक्षणम्, प्रसमीक्षा, निर्णयः, निश्चयः, अनुयोगः, विवेचना, विवेकः, विमर्शः
noun
कस्यापि वस्तुनः सम्यक् प्रविचेयस्य क्रिया।
"सम्यक् परीक्षणाद् अनन्तरमेव कस्यापि सत्यता स्वीकरणीया।"
Tamil
Tamil
நிர்ணய: : நிச்சயித்தல், தீர்மானித்தல்.
शब्दकल्पद्रुमः
Sanskrit
निर्णयः,
पुं,
(निर्णयनमिति निर् + नी + “एरच् ।”३ ५६ इति भावे अच् ।) अवधार-णम् तत्पर्य्यायः निश्चयः इत्यमरः ।१
निर्णयनम् निचयः इतिशब्दरत्नावली
(यथा, मनुः १२ ।“स तानुवाच धर्म्मात्मा महर्षीन् मानवो भृगुः ।अस्य सर्व्वस्य शृणुत कर्म्मयोगस्य निर्णयम्
”)विचारः तत्पर्य्यायः तर्कः गुञ्जा चर्च्चा ।इति यिकाण्डशेषः
विरोधपरिहारः इतिमिताक्षरा
चतुष्पादव्यवहारान्तर्गतशेषपादः ।फय्सला इति आरवीयभाषा
डिक्री इतिइङ्गरेजीयभाषा
तद्बिवरणं यथा “अथनिर्णयः तत्र नारदः ।यस्योचुः साक्षिणः सत्यां प्रतिज्ञां जयीभवेत् ।अन्धथावादिनो यस्य ध्रुवस्तस्य पराजयः
स्वयमभ्युपपन्नोऽपि स्वचर्य्यावसितोऽपि सन् ।क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम्
सभ्यैरवधृतः पश्चात् राज्ञा शास्यः शास्त्रतः
’यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युप-लक्षणम् साक्षिलिखितभुक्तिशपथानां मध्ये-ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रति-पादकं एव जयी अन्यथा पराजित इतिप्रत्येतव्यम् स्वयमभ्युपपन्नः आत्मनैवाङ्गीकृत-स्वपराजयः स्वचर्य्यावसितः कम्पस्वेदवैवर्ण्या-दिना पराजितत्वेनावधृतः क्रियावसन्नःसाक्षादिना प्राप्तपराजयः परमनन्तरम् ।सभ्यावधारणं सभासदां मिलितानामयं परा-जितः इति निर्णयं अर्हेत शास्त्रविधिनाशास्यः
*
निर्णयस्य फलमाह बृहस्पतिः ।‘प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् ।जयपत्रस्य चादानात् जयी लोके निगद्यते
’जयपत्रस्य लेखनप्रकारमाह एव ।‘यद्वृत्तं व्यवहारेषु पूर्व्वपक्षोत्तरादिकम् ।क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत्
पूर्व्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः ।प्रदद्याज्जयिने पत्रं जयप्रत्रं तदुप्यते
’कात्यायनः ।‘अर्थिप्रत्यर्थिवाक्यानि प्रतिसाक्षिवचस्तथा ।निर्णयश्च तथा तस्य यथा चावधृतं स्वयम्
एतद्यथाक्षरं लेख्यं यथापूर्व्वं निवेशयेत् ।सभासदश्च ये तत्र घर्म्मशास्त्रविदस्तथा
’तवश्च भारोत्तरे क्रिया पत्रसाक्षादिकंनिर्णयो जयपराजयावधारणं निर्णयकालाव-स्थितमध्यस्थाश्च इत्यादिकं सर्व्वं लेखनीयं निरू-पणस्य सन्यक्त्वप्रदर्शनार्थम् तथाहि भाषो-त्रलेस्वनं हेत्वन्तरेण पुनर्न्यायप्रत्यवस्थान-निषेधार्थम् बहि गृहीतमिति मिथ्योत्तरेणपराजितस्य पुनः परिशोधितं मयेति प्रत्यव-स्थानं सम्भवति प्रमाणलेखनन्तु पुनः प्रमाणा-न्तरोपन्यासनिरासार्थम् तदाह कात्यायनः ।‘क्रियां बलवतीं त्यक्त्वा दुर्ब्बलां योऽवलम्बते ।स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात् क्रियाम्
निर्णीते व्यवहारे तु प्रमाणमफलं भवेत् ।लिखितं साक्षिणो वापि पूर्व्वमावेदितं चेत्
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।निर्णीतव्यवहाराणां प्रमाणमफलन्तथा
’निर्णयोत्तरकृन्यमाह मनुः ।‘अर्थे त्वमन्यमानन्तु कारणेन विभावितम् ।दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तितः
’अमन्यमानं अपलपन्तम् कारणेन साक्ष्यादि-प्रमाणेन याज्ञवल्क्यः ।‘ज्ञात्वापराधं देशञ्च कालं बलमयापि वा ।वयः कर्म्म वित्तञ्च दण्डं दण्ड्येषु दापयेत्
*
मनुः ।‘तीरितं चानुशिष्टञ्च यत्र क्वचन सम्भवेत् ।कृतं तद्धर्म्मतो विद्यात् तद्भूयो निवर्त्तयेत्
’अनुशिष्टं साक्ष्यादिनिर्णीतम् अतएव तीरितंप्राड्विवाकादिभिः समापितम् तद्बिवादपदंपुननं निवर्त्तयेदित्यर्थः
यत्र तु तीरितानुशिष्ट-योरप्यधर्म्मकृतत्वम्मत्वा पराजयी पुनर्द्विगुण-दण्डमङ्गीकृत्य प्रत्यवतिष्ठते तत्र पुनर्न्यायदर्शन-माह नारदः ।‘तीरितं चानुशिष्टञ्च यो मन्येत विधर्म्मतः ।द्विगुणं दण्डमादाय तत् कार्य्यं पुनरुद्धरेत्
’असद्बिचारे तु विचारान्तरमाह एव ।‘असाक्षिकन्तु यद्दृष्टं विमार्गेण तीरितम् ।असम्मतमतैर्द्दृष्टं पुनर्द्दर्शनमर्हति
’असाक्षिकमित्यप्रमाणोपलक्षणम्
*
याज्ञवल्क्यः ।‘दुर्द्दृष्टांस्तु पुनर्द्दृष्ट्वा व्यवहारान् नृपेण तु ।सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम्
साक्षिसभ्यावसव्नागां दूषणे दर्शनं पुनः ।स्वचर्य्यावसितानान्तु नास्ति पौनर्भवो विधिः
’साक्षिवचनेन सभ्यावधारितेन प्राप्तावसादानांदोवदर्शने पुनर्न्यायदर्शनम् स्वव्यापारेण विरुद्ध-भाषादिना प्राप्तावसादानान्तु नास्ति पुनर्न्यायः
बृहस्पतिरपि ।‘पलायनानुत्तरत्वादन्यपक्षाश्रयेण ।हीनस्य गृह्यते वादो स्ववाक्यजितस्य
’मनुः ।‘बलाद्दत्तं बलाद्भुक्तं बलाद्वा लिखितञ्च यत् ।सर्व्वान् बलकृतानर्थानकृतान् मनुरब्रवीत्
’याज्ञवल्क्यः ।‘बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्त्तयेत् ।स्त्रीनक्तमन्तरागारबहिर्ग्रामकृतांस्तथा
मत्तोन्मत्तार्त्तव्यसनिबालभीतादियोजितः ।असम्बन्धकृतश्चैव व्यवहारो सिध्यति
’उपाधिश्छलमिति शूलपाणिः उपाधिर्भयादि-रिति विज्ञानेश्वरः तन्मते भीतादियोजितःइत्युक्तवचनेनन पौनरुक्तम् बहिर्ग्रामः बहि-र्द्देशः मत्तो मद्यादिना उन्मत्तो वाता-दिना व्यसनी द्यूताद्यासक्तः असम्बन्धो वादि-तन्नियुक्तव्यतिरिक्त उदासीनः आदिपदाद-स्वतन्धदासपुत्त्रादेर्ग्रहणम् तथा नारदः ।‘स्वतन्त्रोऽपि हि यत्कार्य्यं कुर्य्याच्चाप्रकृतिं गतः ।तदप्यकृतमेवाहुरस्वातन्त्र्यस्य हेतुतः
कामक्रोधाभिभूता ये भयव्यसनपीडिताः ।रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः
तथा दासकृतं कार्य्यमकृतं परिचक्षते ।अन्यत्र स्वामिसन्देशान्न दासः प्रभुरातनः
पुत्त्रेण कृतं कार्य्यं यत् स्यादच्छन्दतः पितुः ।तदप्यकृतमेवाहुर्दासपुत्त्रौ तौ समौ
’एतच्च कुटुम्बभरणातिरिक्तविषयम् ।‘कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत्
स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत्
’इति मनुवचनात् ।कुटुम्बमवश्यं भरणीयम् अध्यधीनः परतन्त्रःपुत्त्रदासादिः व्यवहारमृणादिकम् ज्यायान्स्वतन्त्रः विचालयेत् अनुमन्येतेत्यर्थः तथाच नारदः ।‘स्वातन्त्र्यन्तु स्मृतं ज्येष्ठे ज्यैष्ठं गुणवयःकृतम् ।अस्वतन्त्राः प्रजाः सर्व्वाः स्वतन्त्रः पृथिवीपतिः
अस्वतन्त्रः स्मृतः शिष्य आचार्य्यस्य स्वतन्त्रता ।अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रा दासाः परि-ग्रहाः
स्वतन्त्रस्तत्र तु गृही यस्य तत् स्यात् क्रमागतम् ।गर्भस्थैः सदृशो ज्ञेयः अष्टमाद्बत्सराच्छिशुः
बाल आषोडशाद्बर्षात् पौगण्डोऽपि निगद्यते ।परतो व्यवहारज्ञः स्वतन्त्र पितरावृते
त्रीवतोर्न स्वतन्त्रः स्याज्जरयापि समन्वितः ।तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात्
अभावे बीजिनो माता तदभावे पूर्व्वजः
’परिग्रहाः अनुजीविप्रभृतयः तथा वृह-स्पतिः ।‘पितृव्यभ्रातृपुत्त्रस्त्रीदासशिष्यानुजीविभिः ।यद्गृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति
’कात्यायनः ।‘कुटुम्बार्थमशक्तौ तु गृहीतं व्याधितेऽथवा ।उपप्लवनिमित्तञ्च विद्यादापत्कृतन्तु तत्
कन्यावैवाहिकञ्चैव प्रेतकार्य्ये यत् कृतम् ।एतत् सर्व्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः
’प्रभोरिति कर्त्तरि षष्ठी तेन प्रभुणा दातव्य-मिति रत्नाकरः
बृहस्पतिः ।‘यः स्वामिना नियुक्तोऽपि धनाय व्ययपालने ।कुषीदकृषिबाणिज्ये निसृष्टार्थस्तु सम्मतः
प्रमाणं तत्कृतं सर्व्वं लाभालाभव्ययोदयम् ।स्वदेशे वा विदेशे वा स्वामी तन्न दिसंवदेत्
’सम्मतस्तस्य स्वामिन इत्यर्थः ।” इति व्यवहार-तत्त्वम्
अधिकरणविशेषः यथा, --“विषयी विषयश्चैव पूर्व्वपक्षस्तथोत्तरम् ।निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽद्यकरणं स्मृतम्
”इति स्मृतिमीमांसा
न्यायमते तदभावाप्रकारकत्वे सति तत्प्रकारक-ज्ञानम् यथा वह्निमान् पर्व्वत इत्यादि-बोधः इति भाषापरिच्छेदः
तद्धर्म्मावच्छिन्न-प्रकारत्वान्यप्रकारत्वानिरूपितपक्षतावच्छेदका-वच्छिन्नविशेष्यताशालिज्ञानम् इति जग-दीशः