| YouTube Channel

निर्ज्जलैकादशी (nirjjalaikAdazI)

 
शब्दकल्पद्रुमः
Sanskrit
निर्ज्जलैकादशी,
स्त्री,
(निर्ज्जला एकादशी ।)ज्यैष्ठमासीयशुक्लैकादशी यथा, पाद्मे ।श्रीभीमसेन उवाच ।“पितामह ! ह्यशक्तोऽहमुपवासे करोमि किम् ।अतो बहुफलं ब्रूहि व्रतमेकमपि प्रभो !
श्रीव्यास उवाच ।वृषस्थे मिथुनस्थेऽर्के शुक्ला ह्येकादशी हि या ।ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्ज्जिता
स्नाने चाचमने चैव वर्ज्जयित्वोदकं बुधः ।उपयुञ्जीत नैवान्यद्व्रतभङ्गोऽन्यथा भवेत्
उद्याददयं यावद्वर्ज्जयित्वा जलं बुधः ।अप्रयत्नादवाप्नोति द्वादशद्वादशीफलम्
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् ।जलं सुवर्णं दत्त्वा तु द्विजातिभ्यो यथाविधि
भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी ।एवं कृते तु यत् पुण्यं भीमसेन ! शृणुष्व तत्
संवत्सरस्य या मध्ये एकादश्यो भवन्ति हि ।तासां फलमवाप्नोति पुत्त्र ! मे नात्र संशयः
इति मां केशवः प्राह शङ्खचक्रगदाधरः
”किञ्च ।“धनधान्यवहा पुण्या पुत्त्रभाग्यसुखप्रदा ।उपोषिता नरव्याघ्र ! इति सत्यं ब्रवीमि ते
यमदूता महाकायाः करालाः कामरूपिणः ।दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम्
पीताम्बरधराः शङ्खचक्रहस्ता मनोजवाः ।अन्तकाले नयन्त्येनं वैष्णवा वैष्णवीं पुरीम्
”किञ्च ।“तोयस्य नियमं यस्तु कुरुते वैष्णवोत्तमः ।पलकोटिसुवर्णस्य यामे यामे पुण्यभाक्
स्नाग दानं जपं होमं यदस्यां कुरुते नरः ।तत् सर्व्वञ्चाक्षयं प्राप्तमेतत् कृष्णस्य भाषितम्
किंवापरेण धर्म्मेण निर्ज्जलैकादशीं नृप ! ।उपोष्य सम्यग्विधिना वैष्णवं पदमाप्नुयात्
”किञ्च ।“यैः कृता भीमसेनैषा निर्ज्जलैकादशी शुभा ।स्वकुलं तारितं सर्व्वं कुलातीतं तथा शतम्
आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरे
”किञ्च ।“आत्मद्रोहः कृतस्तस्तु यैरेषा नह्युपोषिता ।पापात्मानो दुराचारा दुष्टास्ते नात्र संशयः
”किञ्च ।“यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्त्तयेत् ।उभौ तौ स्वर्गमाप्तौ हि नात्र कार्य्या विचा-रणा
”अथ निर्ज्जलवतविधिः यथा, --“यथाप्राग्लिखितं कृत्वा सङ्कल्पनियमं व्रते ।जलमादाय गृह्णीयान्मन्त्रेणानेन वैष्णवः
एकादश्यां निराहारो वर्ज्जयिष्यामि वै जलम् ।केशवप्रीणनार्थाय प्रत्यन्तदमनेन
इति
“वर्ज्जयेच्चाम्ब्वहोरात्रं विना चाचमनार्थकम् ।विना प्राशनं पादोदकस्यात्यन्तपावनम्
एकादश्यां निशायान्तु नित्यपूजां विधाय हि ।हैमीं त्रैविक्रमीं मूर्त्तिं स्नापयेत् पयआदिभिः
वस्त्रादिकं समर्प्याथाभ्यर्च्च्य गन्धादिभिश्च ताम् ।प्रणम्य जागरं कुर्य्यात् तदग्रे नर्त्तनादिना
प्रातःस्नानादि निर्व्वत्य तं त्रिविक्रममर्च्चयेत् ।शक्त्याम्बुकुम्भान् विप्रेभ्यो दद्यात् गन्धाद्यल-ङ्कृतान्
”तत्र मन्त्रः ।“देवदेव हृषीकेश संसारार्णवतारक ! ।जलकुम्भप्रदानेन यास्यामि परमाङ्गतिमिति
दद्याच्च कनकं छत्रं वस्त्रयुग्ममुपानहौ ।जलपात्राणि दिव्यानि विभवे सति वैष्णवः
शक्त्या विप्रान् भोजयित्वा पीत्वा भ्रातृकरा-ज्जलम् ।स्वयं वानीय मौनी सन् भुञ्जीत सह बन्धुभिः
”इति श्रीहरिभक्तिविलासे १५ विलासः