निरृतिः (nirRtiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशब्दकल्पद्रुमः
Sanskritनिरृतिः, (निर्नियता ऋतिर्घृणा अशुभं वायत्र ।) अलक्ष्मीः । इत्यमरः । १ । ८ । २ ॥
(यथा, महाभारते । १ । ८७ । ९ ।“अरुन्तुदं परुषं तीक्ष्णवाचंवाक्कण्टकैर्व्वितुदन्तं मनुष्यान् ।विद्यादलक्ष्मीकतमं जनानांसुखे निबद्धां निरृतिं वहन्तम् ॥
”)अस्या उपाख्यानं यथा, --“समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः ।श्रेष्ठञ्च कौस्तुभं तेषु विष्णवे प्रददुः सुराः ॥
यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः ।तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ॥
लक्ष्मीरुवाच ।असंस्कृत्य कथं ज्येष्ठां कनिष्ठा परिणीयते ।तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ! ॥
विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनः ।तस्माद्धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन ! ॥
सूत उवाच ।इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः ।उद्दालकाय मुनये मुदीर्घतपसे तदा ।आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ॥
स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम् ।स्रवदारक्तनयनां रूक्षपिङ्गशिरोरुहाम् ॥
स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम् ।वेदध्वनिसमायुक्तमानयामास धर्म्मवित् ॥
होमधूपसुगन्धाढ्यं वेदघोषेण नादितम् ।आश्रमं तं विलोक्याथ व्यथिता साब्रवीदिदम् ॥
ज्येष्ठोवाच ।नहि वासानुरूपोऽयं वेदध्वनियुतो मम ।नात्रागमिष्ये भो ब्रह्मन् ! नयस्वान्यत्र मां ध्रुवम् ॥
उद्दालक उवाच ।कथं नायासि किञ्चात्र वर्त्तते स्वमतं तव ।तव योग्या च वसतिः का भवेत् तद्वदस्व माम् ॥
ज्येष्ठोवाच ।वेदध्वनिर्भवेद्यस्मिन्नतिथीनाञ्च पूजनम् ।यज्ञदानादिकं यत्र नैव तत्र वसाम्यहम् ॥
परस्परानुरागेण दाम्पत्यं यत्र विद्यते ।पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम् ॥
दानशौचे न विद्येते परद्रव्यापहारिणः ।परदाररता यत्र तत्र स्थाने रतिर्म्मम ॥
वृद्धसज्जनविप्राणां यत्र स्यादपमाननम् ।निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहम् ॥
सूत उवाच ।इति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत् ।उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह ॥
उद्दालक उवाच ।अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि श्रम्यतां क्षणम् ।आश्रमस्थानमालोक्य यावदायाम्यहं पुनः ॥
सूत उवाच ।इति तां तत्र संस्थाप्य जगामोद्दालको मुनिः ।प्रतीक्षन्ती चिरं तत्र यदा तं न ददर्श सा ॥
तदा रुरोद करुणं भर्त्तुस्त्यागेन दुःखिता ।तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् ॥
तदा विज्ञापयामास विष्णुमुद्बिग्नमानसा ॥
लक्ष्मीरुवाच ।स्वामिन्मद्भगिनी ज्येष्ठा स्वामित्यागेन दुःखिता ।तामाश्वासयितुं याहि कृपालो ! यद्यहं प्रिया ॥
सूत उवाच ।लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः ।आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत् ॥
विष्णुरुवाच ।अश्वत्थवृक्षमासाद्य सदालक्ष्मीः स्थिरा भव ।ममांशसम्भवो ह्येष आवासस्ते मया कृतः ॥
मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति ।अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल ॥
प्रत्यब्दमर्च्चयिष्यन्ति तां ज्येष्ठां गृहधर्म्मिणः ।तेष्वियं श्रीः कनिष्ठा ते सदा तिष्ठत्वनामया ॥
”इति पाद्मोत्तरखण्डे १६१ अध्यायः ॥
(पापदेवता । यथा, ऋग्वेदे । १० । १६५ । १ ।“दूतो निरृत्या इदमाजगाम ।”“निरृत्याः पापदेवताया दूतोऽनुचरः ।” इतितद्भाष्ये सायनः ॥
)
निरृतिः, त्रि, (निर्गता ऋतिरशुभं यस्मात् ।)निरुपद्रवः । इति धरणिः ॥
दिक्पालविशेषे, पुं । इति मेदिनी । ते, ११६ ॥
स तु नैरृत-कोणाधिपतिः । तस्य विवरणं यथा, --“पूर्व्वस्यान्तु सुकान्तस्य रक्षकूटाह्वयो गिरिः ।यत्रास्ते सततं देवो निरृती राक्षसेश्वरः ॥
खड्गहस्तो महाकायो वामे चर्म्मधरस्तथा ।जटाजूटसमायुक्तः प्रांशुकृष्णाचलोपमः ॥
द्विभुजः कृष्णवस्त्रस्तु गर्द्दभोपरिसंस्थितः ।प्रान्तोपान्तौ विन्दुसर्गसहितौ वादिरेव च ॥
नैरृत्यं कथितं बीजं तेन तं परिपूजयेत् ।रक्षकूटं समारुह्य निरृतिं राक्षसेश्वरम् ॥
यः पूजयेद्विधानेन चण्डिकां राक्षसेश्वरीम् ।न तस्य राक्षसेभ्योऽस्ति भयं वापि कदात्तन ॥
राक्षसाश्च पिशाचाश्च वेताला गणनायकाः ।तं दृष्ट्वा पुरुषं राजन् ! सर्व्वदैव प्रबिभ्यति ॥
”इति कालिकापुराणे ८१ अध्यायः ॥
(राक्षसः । यथा, ऋग्वेदे । ८ । २४ । २४ ।“वेत्था हि निरृतीनां वज्रहस्तपरिवृजम् ॥
”मृत्युः । यथा, भागवते । १ । १९ । ४ ।“स चिन्तयन्नित्थमथाशृणोद्यथामुनेः सुतोक्तो निरृ तिस्तक्षकाख्यः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
