निरृति (nirRti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishनिरृति - nirRti - - dissolution
निरृति - nirRti - - bottom or lower depths of the earth
निरृति - nirRti - - evil
निरृति - nirRti - - calamity
निरृति - nirRti - - destruction
निरृति - nirRti - - adversity
निरृति - nirRti - - death or the genius of death
Wilson
EnglishApte 1890
EnglishMonier Williams Cologne
Englishनि॑र्-°ऋति (नि॑र्-) dissolution, destruction, calamity, evil, adversity, (personified as the goddess of death and corruption and often associated with Mṛtyu, A-rāti ,
variously regarded as the wife of A-dharma, mother of Bhaya, Mahā-bhaya and Mṛtyu [MBh. ] or as a daughter of A-dharma and Hiṃsā and mother of Naraka and Bhaya [MārkP. ]
binds mortals with her cords,
is regent of the south [AV. ] and of the asterism Mūla [Var. ])
Monier Williams 1872
Englishनिर्-ऋति, इस्, f. decay, dissolution, destruction, anni-
hilation, calamity, evil, adversity
imprecation, curse
Decay or Destruction personified (goddess of death
and corruption
she is described as binding mortals
with her cords, and is often associated with Mṛtyu,
A-rāti, and similar beings
she is variously regarded
as the wife of A-dharma, mother of Bhaya, Mahā-
bhaya, and Mṛtyu, or as a daughter of A-dharma and
Hiṃsā and mother of Naraka and Bhaya
she is
regent of the south-west or south-western quarter
and of the asterism Mūla)
(इस्), f. the bottom or
lower depths of the earth (perhaps regarded as the
seat of putrefaction
cf. नैरृत)
(इस्, इस्, इ), free
from adversity, (in this sense निर् is a privative.)
Macdonell
EnglishBenfey
EnglishL R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritअलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।
दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥
किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।
अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अलक्ष्मी (स्त्री), निरृति (स्त्री), कालकर्णिका (स्त्री), अशुभ (क्ली), दुष्कृत (क्ली), दुरित (क्ली), पाप (क्ली), एनस् (क्ली), पाप्मन् (पुं), पातक (पुंक्ली), किल्बिष (क्ली), कलुष (क्ली), किण्व (क्ली), कल्मष (क्ली), वृजिन (क्ली), तमस् (क्ली), अंहस् (क्ली), कल्क (क्ली), अघ (क्ली), पङ्क (पुंक्ली), उपाधि (पुं), धर्मचिन्तन (क्ली)
अभिधानरत्नमाला
Sanskritअलक्ष्मी
अलक्ष्मी, निरृति
अलक्ष्मीर्निर्ऋतिर्ज्ञेया नियतिर्विधिरुच्यते ॥ ८६ ॥
verse 1.1.1.86
page 0011
Mahabharata
EnglishNirṛti^1, a Rudra. § 108 (Aṃśāvat.): I, 66, 2566 (enumeration of the eleven Rudras, sons of Sthānu).--§ 191 (Arjuna): I, 123, 4825 (among the Rudras present at the birth of Arjuna).
Nirṛti^2 (“destruction”), a goddess. § 125 (Aṃśāvat.): I, 66, 2618 (wife of Adharma and mother of the Nairṛtas). --§ 641 (Rājadh.): XII, 122, 4514 (devī).
पुराणम्
Englishनिरृति १ / NIRṚTI I. A deva. The Purāṇas contain the following information about him.(i) He is one of the Aṣṭadikpālas (guards of the eight quarters). He is in charge of the south-western corner. (See under Aṣṭadikpālas).(ii) He is one of the ekādaśarudras. (Ādi Parva, Chapter 66, Verse 2).(iii) brahmā was his grand-father and sthāṇu his father. (Ādi Parva, Chapter 66, Verse 2).(iv) He attended the birth-day celebrations of arjuna. (Ādi Parva, Chapter 129, Verse 63).(v) In temples his idols are installed with sword in hand and seated on an ass. (agni purāṇa, Chapter 51).
निरृति २ / NIRṚTI II. Wife of the deva called adharma. She had three sons called bhaya, mahābhaya and antaka. These Rākṣasas are known as Nairṛtas. (Ādi Parva, Chapter 66, Verse 54).
शब्दकल्पद्रुमः
Sanskritनिरृतिः, (निर्नियता ऋतिर्घृणा अशुभं वायत्र ।) अलक्ष्मीः । इत्यमरः । १ । ८ । २ ॥
(यथा, महाभारते । १ । ८७ । ९ ।“अरुन्तुदं परुषं तीक्ष्णवाचंवाक्कण्टकैर्व्वितुदन्तं मनुष्यान् ।विद्यादलक्ष्मीकतमं जनानांसुखे निबद्धां निरृतिं वहन्तम् ॥
”)अस्या उपाख्यानं यथा, --“समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः ।श्रेष्ठञ्च कौस्तुभं तेषु विष्णवे प्रददुः सुराः ॥
यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः ।तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ॥
लक्ष्मीरुवाच ।असंस्कृत्य कथं ज्येष्ठां कनिष्ठा परिणीयते ।तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ! ॥
विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनः ।तस्माद्धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन ! ॥
सूत उवाच ।इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः ।उद्दालकाय मुनये मुदीर्घतपसे तदा ।आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ॥
स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम् ।स्रवदारक्तनयनां रूक्षपिङ्गशिरोरुहाम् ॥
स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम् ।वेदध्वनिसमायुक्तमानयामास धर्म्मवित् ॥
होमधूपसुगन्धाढ्यं वेदघोषेण नादितम् ।आश्रमं तं विलोक्याथ व्यथिता साब्रवीदिदम् ॥
ज्येष्ठोवाच ।नहि वासानुरूपोऽयं वेदध्वनियुतो मम ।नात्रागमिष्ये भो ब्रह्मन् ! नयस्वान्यत्र मां ध्रुवम् ॥
उद्दालक उवाच ।कथं नायासि किञ्चात्र वर्त्तते स्वमतं तव ।तव योग्या च वसतिः का भवेत् तद्वदस्व माम् ॥
ज्येष्ठोवाच ।वेदध्वनिर्भवेद्यस्मिन्नतिथीनाञ्च पूजनम् ।यज्ञदानादिकं यत्र नैव तत्र वसाम्यहम् ॥
परस्परानुरागेण दाम्पत्यं यत्र विद्यते ।पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम् ॥
दानशौचे न विद्येते परद्रव्यापहारिणः ।परदाररता यत्र तत्र स्थाने रतिर्म्मम ॥
वृद्धसज्जनविप्राणां यत्र स्यादपमाननम् ।निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहम् ॥
सूत उवाच ।इति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत् ।उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह ॥
उद्दालक उवाच ।अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि श्रम्यतां क्षणम् ।आश्रमस्थानमालोक्य यावदायाम्यहं पुनः ॥
सूत उवाच ।इति तां तत्र संस्थाप्य जगामोद्दालको मुनिः ।प्रतीक्षन्ती चिरं तत्र यदा तं न ददर्श सा ॥
तदा रुरोद करुणं भर्त्तुस्त्यागेन दुःखिता ।तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् ॥
तदा विज्ञापयामास विष्णुमुद्बिग्नमानसा ॥
लक्ष्मीरुवाच ।स्वामिन्मद्भगिनी ज्येष्ठा स्वामित्यागेन दुःखिता ।तामाश्वासयितुं याहि कृपालो ! यद्यहं प्रिया ॥
सूत उवाच ।लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः ।आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत् ॥
विष्णुरुवाच ।अश्वत्थवृक्षमासाद्य सदालक्ष्मीः स्थिरा भव ।ममांशसम्भवो ह्येष आवासस्ते मया कृतः ॥
मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति ।अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल ॥
प्रत्यब्दमर्च्चयिष्यन्ति तां ज्येष्ठां गृहधर्म्मिणः ।तेष्वियं श्रीः कनिष्ठा ते सदा तिष्ठत्वनामया ॥
”इति पाद्मोत्तरखण्डे १६१ अध्यायः ॥
(पापदेवता । यथा, ऋग्वेदे । १० । १६५ । १ ।“दूतो निरृत्या इदमाजगाम ।”“निरृत्याः पापदेवताया दूतोऽनुचरः ।” इतितद्भाष्ये सायनः ॥
)
निरृतिः, त्रि, (निर्गता ऋतिरशुभं यस्मात् ।)निरुपद्रवः । इति धरणिः ॥
दिक्पालविशेषे, पुं । इति मेदिनी । ते, ११६ ॥
स तु नैरृत-कोणाधिपतिः । तस्य विवरणं यथा, --“पूर्व्वस्यान्तु सुकान्तस्य रक्षकूटाह्वयो गिरिः ।यत्रास्ते सततं देवो निरृती राक्षसेश्वरः ॥
खड्गहस्तो महाकायो वामे चर्म्मधरस्तथा ।जटाजूटसमायुक्तः प्रांशुकृष्णाचलोपमः ॥
द्विभुजः कृष्णवस्त्रस्तु गर्द्दभोपरिसंस्थितः ।प्रान्तोपान्तौ विन्दुसर्गसहितौ वादिरेव च ॥
नैरृत्यं कथितं बीजं तेन तं परिपूजयेत् ।रक्षकूटं समारुह्य निरृतिं राक्षसेश्वरम् ॥
यः पूजयेद्विधानेन चण्डिकां राक्षसेश्वरीम् ।न तस्य राक्षसेभ्योऽस्ति भयं वापि कदात्तन ॥
राक्षसाश्च पिशाचाश्च वेताला गणनायकाः ।तं दृष्ट्वा पुरुषं राजन् ! सर्व्वदैव प्रबिभ्यति ॥
”इति कालिकापुराणे ८१ अध्यायः ॥
(राक्षसः । यथा, ऋग्वेदे । ८ । २४ । २४ ।“वेत्था हि निरृतीनां वज्रहस्तपरिवृजम् ॥
”मृत्युः । यथा, भागवते । १ । १९ । ४ ।“स चिन्तयन्नित्थमथाशृणोद्यथामुनेः सुतोक्तो निरृ तिस्तक्षकाख्यः ॥
”)
वाचस्पत्यम्
Sanskritनिऋ(रृ)ति नियता ऋतिर्घृणा यत्र प्रा० व० रमध्यो वा ।१ दक्षिणपश्चिमविदिक्पतौ । “मृगव्याधश्च सर्पश्च निरृतिश्चमहायशाः” भा० आ० ६६ अ० । २ अलक्ष्म्याम् स्त्री ३ निरु-पद्रवे । ४ अधर्मस्य भार्य्यायां स्त्री “अधर्सस्तत्र संजातःसर्वशुभविनाशकः । तस्यापि निरृतिर्भार्य्या नैरृता येनराक्षसाः” भा० आ० ६६ अ० । ५ अधर्मस्य कन्यायाञ्च स्त्री“हिंसा भार्य्या त्वधर्मस्य तस्यां जज्ञे तथाऽनृतम् ।कम्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम्” मार्क-ण्डेयपु० ५ अ० । ६ मृत्युभार्य्यायाम् । “निरृतिश्च तथाचान्या मृत्योर्भार्य्याऽभवनुमुने!” तत्रैवाध्याये ।अलक्ष्मीश्च लक्ष्म्या ज्येष्ठा भगिनी अश्वत्थशब्दे ५०६ पृ०दृश्यम् । ७ मूलानक्षत्रे तस्य तद्देवताकत्वात् तथात्वम् ।निरृतिर्लोकपालश्च पिङ्गाक्षव्याधः कार्पटिकादीनांरक्षर्थं यतमानस्ताराक्षण तत्पितृव्येन धातितःमरणकाले तेषामाधिपत्यं लभेयमितीच्छया प्राणविमोच-नात् तदीशतामाप तत्कथा काशीख० १२ अ० यथा “असू-दयिष्यमेतांस्तदभविष्यं यदीश्वरः । अभिलव्योन्नतिंप्राणानत्याक्षीत् स परार्थतः । या मतिस्त्वन्तकालेस्याद्गतिस्तदनुरूपतः । दिगीशत्वमतः प्राप्तो नैरृत्यांनैरृतेश्वरः” इति । एतल्लोकप्राप्तिकारणादिकं तत्रैव यथा“दिक्पतेनैरृतस्यासौ पुण्यापुण्यजनोषिता । राक्षसानिवसन्त्यस्यामपरद्रोहिणः सदा । जातिमात्रेण रक्षांसिवृत्तैः पुण्यजना इमे । अत्यक्तश्रुतिवर्त्मानो जाता वर्णावरेष्यपि । नाद्रियन्तेऽन्नपानानामस्मृत्युक्तं कदाचन ।परदारपरद्रव्यपरद्रोहपराङ्मुखाः । जाता जातौनिकुष्टायामपि पुण्यानुसारिणः । द्विजातिभक्त्युत्पन्ना-न्नैरात्मानं पोषयन्ति ये । सदा सङ्कुचिताङ्गाश्च द्विजस-म्भाषणादिशु । आहूता हृष्टवदना वदन्ति द्विजसन्निधौ ।जय जीव भगोनाथ स्वामिन्निति हि वादिनः । तीर्थस्नानपरानित्यं नित्यदेवपरायणाः । द्विजेषु नित्यंप्रणताः स्वनामाख्यानपूर्वकम् । दमदानदयाक्षान्तिशौ-चेन्द्रियविनिग्रहाः । अस्तेयसत्याऽहिंसाश्च सर्वेषांधर्महेतवः । नवस्वेषु सदोद्युक्ता ये जातायत्र कुत्रचित् ।सर्वभोगसमृद्धास्ते वसन्त्यत्र पुरोत्तमे । म्लेच्छा अपिमुतीर्थेषु ये मृता नात्मघातकाः । विहाय काशीं निर्वाणविश्राणान्तेऽत्र भोमिनः । अन्धन्तमो विशेयुस्ते ये चैवा-त्यहनो जनाः । भुक्त्वा निरयसाहस्रं ते च स्युर्ग्राम-श्रूकराः । आत्मथातो न कर्त्तव्यस्तस्मात् क्वापि विप-श्चिता । इहापि च परत्रापि न शुभान्यात्मधातिनाम् ।यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः । प्रयागे सर्वती-र्थानां राज्ञि सर्वाभिलाषदे । अन्त्यजा अपि ये केचि-द्दयाधर्मानुसारिणः । परोपकृतिनिष्ठास्ते वसन्त्यत्र तुसत्तमाः । अस्य स्वरूपं वक्ष्यावो दिक्पतेः क्षणतःशृणु । मध्येविन्धाटवि पुरा पक्वणस्य जनाग्रणीः ।पल्लीपतिरभूदुग्रः पिङ्गाक्ष इति विश्रुतः । निर्विन्ध्याया-स्तटे शूरः क्रूरकर्मपराङ्मुखः” ।
Grassman
Germannírṛti, f. [von ar mit nís], 1〉 Auflösung, Verwesung, Verderben
2〉 personificirt als Todesgenie
3〉 Abgrund, Tiefe als Sitz der Verwesung (BR.).
-is 1〉 {38, 6} neben durháṇā
{836, 11}. — 2〉 {395, 17}
{553, 7} (devī́)
{862, 2}
{885, 1}—_{885, 4}.
-im 1〉 {24, 9}
{515, 2}
{164, 32}. — 2〉 {862, 4}
{902, 4}.
-yai 2〉 {990, 1}.
-yās [G.] 2〉 {991, 1} dūtás.
-es [G.] 1〉 upásthe {117, 5}
{620, 9}
{921, 14}
upásthāt {844, 10}
{987, 2}. — 3〉 {574, 1} avaṃśā́t.
-īs [N. pl.] 2〉 tisrás {940, 2}.
-īnaam 1〉 {644, 24} parivṛ́jam.
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
