| YouTube Channel

निरुद्धप्रकाशः (niruddhaprakAzaH)

 
शब्दकल्पद्रुमः
Sanskrit
निरुद्धप्रक(का)शः,
पुं,
मेढ्रजातक्षुद्ररोगविशेषः ।तल्लक्षणमाह ।“वातोपसृष्टे मेढ्रे तु चर्म्म संश्रयते मणिम् ।मणिश्चर्म्मोपनद्धश्च मूत्रस्रोतो रुणद्धि
निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् ।मूत्रं प्रवर्त्तते जन्तोर्म्मणिर्व्विव्रियते
निरुद्धप्रकशं विन्द्यात् सरुजं वातसम्भवम् ।निरुद्धप्रकाश इत्यस्य स्थाने निरुद्धप्रकशपद-मार्षत्वात्
*
अथ तस्य चिकित्स्या ।“निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम् ।दारवीं वा जतुकृतां घृताक्तां संप्रवेशयेत्
परिषिञ्चेद्बसां मज्जां शिशुमारवराहयोः ।चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम्
त्र्यहात् स्थूलतरां सम्यक् नाडीं गर्भे प्रवेशयेत् ।स्रोतो विवर्द्धयेदेव स्निग्धमन्नञ्च भोजयेत्
भित्त्वा वा सेवनीं मुक्त्वा सद्यः क्षतवदाचरेत्
”इति भावप्रकाशः