| YouTube Channel

निरुक्तं (niruktaM)

 
शब्दकल्पद्रुमः
Sanskrit
निरुक्तं,
क्ली,
(निर्निश्चयेन उक्तम् ।) वेदवेदाङ्ग-शास्त्रविशेषः यथा, --“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषन्तथा ।छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः
”इति शब्दरत्नावली
(तथाहि, --“वर्णागमो वर्णविपर्य्ययश्चद्वौ चापरौ वर्णविकारनाशौ ।धातोस्तदर्थातिशयेन योग-स्तदुच्यते पञ्चविधं निरुक्तम्
”यदुक्तं देवराजयज्वना निर्व्वचने, तद्यथा, --“अत उक्ताध्ययनविधेरुक्तच्छन्दःप्रविभागस्योक्त-विनियोगस्योपलक्षितकर्म्माङ्गभूतकालस्योपद-र्शितलक्षणस्यैतैरङ्गैर्वेदस्यार्थपरिज्ञानविषये नि-रुक्तं नामेदमङ्गमारभ्यते प्रधानञ्चेदमितरेभ्यो-ऽङ्गेभ्यः सर्व्वशास्त्रेभ्यश्चार्थपरिज्ञानाभिनिवेशात् ।अर्थो हि प्रधानम् तद्गुणः शब्दः चेतरेषुव्याकरणादिषु चिन्त्यते कल्पे खल्वपि विनि-योगश्चिन्त्यते पुनरर्थाभिधानवशेन मन्त्रा-णाम् यो यमर्थमभिधानेन संस्कर्त्तुं समर्थो मन्त्रःस तत्र विनियुज्यते तदुक्तं अर्थाभिधान-संयोगान्मन्त्रेषु शेषभावः स्यात् इति चनिरुक्तादृतेऽन्यदङ्गमन्यद्वा बाह्यं शास्त्रमस्तितात्पर्येण यदशेषान् शब्दान् निर्ब्रूयात् यदपिच क्वचित् क्वचिदन्यशास्त्रे शब्दनिर्व्वचनम् ।अतएव तदित्युपलक्ष्यम् यथा शब्दलक्षणपरि-ज्ञानं सर्व्वशास्त्रेषु व्याकरणात् एवं शब्दार्थनिर्व्व-चनपरिज्ञानं निरुक्तात् वस्तुमात्रमेव हि इत-रेषु शास्त्रेषु स्वाभिमतबुद्धिविषयमेव किञ्चि-च्चिन्त्यते ब्राह्मणमपि विध्यर्थवादरूपमशेष-मन्त्रार्थशेषभूतमेव मन्त्रब्राह्मणार्थपरिज्ञानबद्ध-श्चाध्यात्माधिदैवाधिभूतपरिज्ञानद्बारेण धर्म्मार्थ-काममोक्षाख्योऽखिलपुरुषार्थः चानिरुक्तोमन्त्रार्थो व्याख्यातव्य इति तस्मादर्थपरिज्ञाना-भिनिवेशादिदमेव प्रधानमित्युपपन्नम् अथा-स्यैवमखिलपुरुषार्थोपकारवृत्तिसमर्थस्य संग्रहः ।तद्यथा, --नामाख्यातोपसर्गनिपातलक्षणम् भावविकार-लक्षणम् नामान्याख्यातजानि सर्व्वाणि चयथोपन्यस्य पक्षप्रतिपक्षतो विचार्यावधारणम् ।सर्व्वाण्याख्यातजानि कानिचिदेवानेक-धातु-जान्यपीति मन्त्राणामर्थवत्त्वानर्थवत्त्वे विचार्य्यशास्त्रारम्भप्रयोजनद्बारेणार्थवत्तावधारणम् ।पदविभागपरिज्ञानप्रतिज्ञानबोधावलम्बिप्रदर्श-नाय आदिमध्यान्तानेकदैवतलिङ्गसङ्कटेषु मन्त्रेषुयाज्ञिकपरिज्ञानद्वारेण देवतापरिज्ञानप्रतिज्ञा ।अर्थज्ञप्रशंसा अनर्थज्ञावधारणम् वेदवेदाङ्ग-व्यूहः सप्रयोजननिघण्टुसमाम्नायविरचनम् ।प्रकरणत्रयविभागेन नैघण्टुकप्रधानदेवताभि-धानप्रविभागलक्षणम् निर्व्वचनलक्षणद्वारेणशब्दवृत्तिविषयोपदेशः अर्थप्राधान्यात् लोपो-पधाविकारवर्णलोपविपर्ययोपदेशेन सामर्थ्योप-प्रदर्शनायादिमध्यान्तलोपोपधाविकारवर्णलोप-विपययाद्यन्तवर्णव्यापत्तिवर्णोपजनोदाहरण-चिन्ता अन्तस्थान्तर्द्धातुनिमित्तेन सम्प्रसार्या-सम्प्रसार्योभयप्रकृतिधातुनिर्व्वचनोपदेशः भा-षिकप्रायोवृत्तिभ्यो नैगमशब्दार्थप्रसिद्धिः नैग-मप्रायोवृत्तिभ्यो भाषिकशब्दार्थप्रसिद्धिः देश-व्यवस्थया शब्दरूपव्यपदेशः तद्धितसमासनाम-निर्व्वचनलक्षणम् शिष्यलक्षणम् विशेषेणव्याख्यया तत्त्वपर्यायभेदसङ्ख्यासन्दिग्धोदाहरणा-न्निर्व्वचनव्यवस्थया नामाख्यातोपसर्गनिपातानांविभागेन नैघण्टुकप्रकरणानुक्रमणम् अने-कार्थानवगतसंस्कारानुक्रमणम् परोक्षकृता-ध्यात्मिकमन्त्रलक्षणम् स्तुत्याशीःशपथाभि-शापाभिख्यापरिदेवनानिन्दाप्रशंसादिभिर्मन्त्रा-भिव्यक्तिहेतूपदेशः निदानपरिज्ञानव्याख्या-पनायानादिष्टदेवतोपपरीक्षणायाध्यात्मोपदेश-प्रकृतिभूमत्वम् इतरेतरजन्मत्वम् स्थानत्रय-भेदतः तिसृणामेकैकस्या माहाभाग्यकृतोऽनेक-नामधेयप्रतिलम्भः पृथगभिधानन्तूत्पत्तिसम्ब-न्धाद्बा देवतानामाकारचिन्तनम् भक्तिसाह-चर्यसंस्तवकर्म्मसूक्तभाक्त्वहविर्भाक्त्वव्यञ्जनभाक्त्वानि ।पृथिव्यन्तरिक्षद्युस्थानदेवतानामभिधेयाभिधान-व्युत्पत्तिप्राधान्यश्रुत्युदाहरणम् तन्निर्व्वचन-विचारोपपत्यवधारणानुक्रमेण व्याख्याय दैवत-प्रकरणनिर्णयः विद्यापारप्राप्त्युपायोपदेशः ।मन्त्रार्थनिर्व्वचनद्वारेण देवताभिधाननिर्व्वचनफलंदेवताताद्भाव्यम् इत्येष समासतो निरुक्त-शास्त्रचिन्ताविषयः
*
“वर्णागमो वर्णविपर्य्ययश्च इत्यादिना निश्चये-नोक्तं निरुक्तम् ।” इत्यमरटीकायां भरतः
पदभञ्जनम् यथा, --“प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम्
”इति हेमचन्द्रः
कथिते, त्रि यथा “निरुक्ता प्रकृतिर्द्वेधा ।”इति जगदीशः