| YouTube Channel

निरनुयोज्यानुयोग (niranuyojyAnuyoga)

 
Monier Williams Cologne
English
निर्—अनुयो°ज्यानुयोग
m.
the blaming of anything faultless,
Nyāyas.
Sarvad.
वाचस्पत्यम्
Sanskrit
निरनुयोज्यानुयोग
पु०
गौतमोक्ते निग्रहस्थानभेदे तल्ल-क्षणम् तत्रोक्तं यथा “निग्रहस्थानातियोगो निरनु-योज्यानुयोयः” सू० “निग्रहस्थानलक्षणस्य मिथ्याध्य-वसायादनिग्रहस्थाने निगृहीतोऽसाति परं ब्रुवन्निरनुयोज्यानुयोगान्निगृहीतो वेदितव्यः” इति भा० ।“अवसरे यथार्थनिग्रहस्थानोद्भावनातिरिक्तं यन्निग्रह-स्थानोद्भावनं तदित्यर्थः एतेनावसरे निग्रहस्थानोद्भावनेएकनिग्रहस्थाने निग्रहस्थानान्तरोद्भावने नातिव्याप्तिः सोऽयं चतुर्द्धा छलं जातिराभासोऽनवसरग्रह-णञ्च आभासो व्यभिचारादावसिद्ध्याद्युद्भावनम् अनव-सरग्रहणञ्चाकाले एवोद्भावनं यथा त्यक्षसि चेत् प्रतिज्ञा-हानिः विशेषयसि चेत् हेत्वन्तरम् एवमवसरमतीत्य-कथनमपि, यथा उच्यमानग्राह्यस्यापशब्दादेः परिसमाप्तौएवमनुक्तग्राह्याज्ञानाद्यननुभाषणावसरेऽनुद्भाव्यबोधावि-ष्करणानुभाषणप्रवृत्ते वादिनि तदुद्भावनमित्यादिक-मुह्यम्” वृत्तिः