| YouTube Channel

निरक्षदेशः (nirakSadezaH)

 
शब्दकल्पद्रुमः
Sanskrit
निरक्षदेशः,
पुं,
(निरक्षो देशः ।) व्यक्षदेशः ।पलभाशून्यस्थानम् तु पूर्व्वे भद्राश्ववर्षे यम-कोटिः दक्षिणे भारतवर्षे लङ्का पश्चिमे केतु-मालवर्षे रोमकः उत्तरे कुरुवर्षे सिद्धपुरी ।एताः भूवृत्तपादविवराः अन्योऽन्यं प्रतिष्ठिताः ।तासामुपरितो विषुवस्थो दिवाकरो याति ।तासु विषुवच्छाया ध्रुवस्योन्नतिश्च दृश्यते ।तत्र दिवामानं रात्रिमानञ्च त्रिंशन्नाडिकाः ।इति सूर्य्यसिद्धान्तमतम्
(यथा, सिद्धान्त-शिरोमणौ गोलाध्याये १५ ।“निरक्षदेशात् क्षितिषोडशांशेभवेदवन्ती गणितेन यस्मात्
”)