नियोज्य (niyojya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishनियोज्य - niyojya - - function [ computer ]
नियोज्य - niyojya - - to be fastened or attached to
नियोज्य - niyojya - - to be appointed or employed or directed or commanded
नियोज्य - niyojya - - to be committed or entrusted
नियोज्य - niyojya - - to be endowed or furnished with
नियोज्य - niyojya - - to be enjoined
नियोज्य - niyojya - - servant
नियोज्य - niyojya - - functionary
नियोज्य - niyojya - - official
Wilson
EnglishApte
Englishनियोज्यः [niyōjyḥ], One charged with any duty, a functionary, an officer, a servant, employee
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः 7.4.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiनियोज्यः
- नि + युज् + यत्
"किसी कर्तव्य का कार्यभार संभालने वाला, कार्यनिर्वाहक, अधिकारी, सेवक, नौकर"
L R Vaidya
EnglishWordnet
Sanskrit नियोज्य
नियुक्तं कर्तुं योग्यः।
"नियोज्यानाम् आवेदकानाम् अधिकारी नियुक्तिम् अकरोत्।"
अभिधानचिन्तामणिः
Sanskritदरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।
अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥
पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः ।
ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ ॥
डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः ।
दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० ॥
परान्नः परिपिण्डादः परजातः परैधितः ।
दरिद्र (पुं), दुर्विध (पुं), दुःस्थ (पुं), दुर्गत (पुं), निःस्व (पुं), कीकट (पुं), अकिञ्चन (पुं), अधिप (पुं), ईश (पुं), नेतृ (पुं), परिवृढ (पुं), अधिभू (पुं), पति (पुं), इन्द्र (पुं), स्वामिन् (पुं), नाथ (पुं), आर्य (पुं), प्रभु (पुं), भर्तृ (पुं), ईश्वर (पुं), विभु (पुं), ईशितृ (पुं), इन (पुं), नायक (पुं), नियोज्य (पुं), परिचारक (पुं), डिङ्गर (पुं), किङ्कर (पुं), भृत्य (पुं), चेट (पुं), गोप्य (पुं), पराचित (पुं), दास (पुं), प्रेष्य (पुं), परिस्कन्द (पुं), भुजिष्य (पुं), परिकर्मिन् (पुं), परान्न (पुं), परपिण्डाद (पुं), परजात (पुं), परैधित (पुं)
शब्दकल्पद्रुमः
Sanskritनियोज्यः, त्रि, (नियोक्तुं शक्यः । नि + युज +“प्रयोज्यनियोज्यौ शक्यार्थे ।” ७ । ३ । ६८ ।इति ण्यत्प्रत्ययेन निपातनात् साधुः ।) प्रेष्यः ।किङ्करः । इत्यमरः । २ । १० । १७ ॥
(यथा, भागवते । ४ । १२ । २८ ।“निशम्य वैकुण्ठनियोज्यमुख्ययो-र्म्मधुच्युतं वाचमुरुक्रमप्रियः ॥
”नियोजनीये, त्रि । यथा, महाभारते । १२ ।३२७ । ४६ ।“न नियोज्याश्च वः शिष्या अनियोगे महा-भये ॥
”)
वाचस्पत्यम्
Sanskritनियोज्य नि + युज--शक्यार्थे कर्मणि ण्यत् “प्रयोज्यनि-योज्यौ शक्यार्थे” पा० उक्तेः न कुत्वम् । १ प्रवर्त्तनीये नि-युञ्जतेः प्रवर्त्तनार्थकत्वात् कर्मणि ण्यता तत्कर्म च-च्यते प्रवर्त्तनाकर्म च तज्जन्यप्रवृत्तिमान् । तथा च स्वर्ग-कामोयजेतेत्यादौ स्वर्गकामो यागे नियोज्यः स्वर्गका-मादेश्च कामनाद्वारा यागे कृतिसाध्यताधीद्वारा प्रवृत्ति-र्जायते इति तस्य तथात्वम् । तदेतत् शब्दचि० उक्तंयथा “स्वर्गकामो यजेतेत्यादौ इष्टसाधनत्वं कार्यत्वंवा यदि विधिः समभिव्याहृतक्रियान्वयी तदन्यान्वयीवा गुरुमते यागादिर्न कार्यतया लिङा बोध यितुंशक्यते स्वर्गकामनियोज्यान्वययोग्यताविरहात् । काम-नाविशिष्टस्य हि ममेदं कर्त्तव्यमति बोद्धृत्वं नियो-ज्यत्वं कामना च तद्बोधोपयोगे सति भवति स चकामनानन्तरं काम्यसाधनताबोधात् कार्यताबोधे सतिस्यात् एवञ्च स्वर्गसाधनताबोधे सति स्वर्गकामनियोज्या-न्वययोग्यता । न च कालान्तरे भाविस्वर्गे क्रियासाक्षात् परम्परया वा साधनमिति शब्दो बोधयितुमर्हतिआशुविनाशित्वात् परम्पराघटकानुपस्थितेश्च तृतीयप्रकारस्याभावात् अन्यथा तमादाय साधनत्वसम्भवात्कल्प्यमप्यपूर्वं न स्यात् इष्टसाधनताविधिपक्षे तु स्फुटै-वानुपपत्तिः । कार्यताविधिपक्षे अन्वयप्रकारतया साधनत्वंशाब्दमिति फलतो न विशेषः । अतः क्रियातोऽन्यत्स्वर्गसाधनतार्हं कार्यं क्रियाकार्यतानिर्वाहकमित्यार्थम्”गदाधरेणेदं नियोज्यान्वयग्रन्थे विवृतं दिङ्मात्रमत्रीच्यते“लिङोऽर्थः कार्यत्वं पाकादिक्रियायामेब प्रथमतोऽन्वेतिन तु स्वर्गकामो यजेतेत्यादितो यागादौ प्रथमतस्तद-न्वयः किन्तु कार्यत्वेनैव वैदिकलिङ्वाच्येऽपूर्वे प्रथमतोविषयतया यागाद्यन्वयः प्रतीयते विषयत्वन्तु जन्यत्वम्तत्र च शक्यतावच्छेदककार्यत्वैकदेशे कृतौ स्वर्गकामा-न्वयः एवञ्च यागविषयकं स्वर्गकामकार्यमिति प्राथमिकोबोधः तदनन्तरमपूर्वस्य कृतिसाध्यता यागद्वारैव, यागम-कृत्वा अपूर्वस्य साधयितुमशक्यत्वादतो यागकार्यतां विनाऽपूर्वकार्यत्वसनुपपन्नमित्यनुपपत्तिप्रतिसन्धांने तत्सहकृतलोकस्थलकॢप्तक्रियाकार्यतान्वयगोचरशाव्दसामग्रीतोयागे औपादानिकोवोधः । पुनरनुसन्धीयमानशब्दसह-कृतानुपपत्तिज्ञानमेवोपादानमिति गीयते तदसहकृतंज्ञानञ्चार्थापत्तिरिति । न च यागकार्यतायाः पूर्वमप्रतीत-त्वेन यागकार्यताव्यतिरेकस्य दुर्ग्रहत्वात् उक्तानुपपत्ति-धीरेव न घटते इति वाच्यं यागो यदि कार्य्यो न स्यात्तदाऽपूर्वमपि कार्यं न स्यात् इति तर्काकारानुपपत्तिप्रतिसन्धानस्य यागकार्यतासिद्ध्यनधीनस्य यागकार्य्यतासाधकत्वोपगमात् । न चापाद्यापादकयोवेयधिकरण्यान्नोक्ततर्कसम्भव इति वाच्यं यागो यदि कृतिसाध्यो न स्यात्असाध्यककृत्यसाध्यकृतिसाध्यव्यापारको न स्यादित्ये ता-दृशतर्कोपगमेन सामञ्जस्यात् । कृतिसाध्यज्वलनादिरूप-व्यापारके कृत्यसाध्यकाष्ठादौ व्यभिचारवारणायासा-ध्यान्तं यापारविशेषणं, कृतिसाध्यव्यापारके नित्येव्यभिचारवारणायाऽननुकूलत्वमपेक्ष्य असाध्यकत्वंकृतौ विशेषणं शब्दानुपपत्तिधीजन्यतावच्छेदकधर्म्मयोःसङ्करी न दोषो गुणगतजात्यनभ्यु पगमेन तयोर्ज्जातित्वविरहात् । अस्तु वा केवलशब्दादिप्रमाणजन्यबोधवि-जातीय एव औपादानिकवोधः अपूर्वाविषयककामिकृ-तेरपूर्वसाधनक्रियाविषयकत्वं विनाऽपूर्वसाधनतानुपपत्तेःकृतौ क्रियाविषयकत्वोपपादकत्वं तस्याः काम्यसाधनत्व-मप्यपूर्वकार्यत्वोपपादकम् इति यागादेः काम्यसाधनता-प्यौपादानिकी, अस्माकं काम्यसाधनत्वस्य विधिप्रत्ययावा-च्यत्वेऽप्यध्याहारितस्याप्यर्थस्य शाब्दधीगोचरतया पदाज-न्याया अपि स्वर्गसाधनत्वोपस्थितेः पदजन्यक्रियाद्युप-स्थितिसहितायाः शाब्दसामग्रीत्वादिष्टसाधनत्वस्योपा-दानलभ्यता । वाजपेयेन यजेतेत्यादौ च तदाभिधानिक-मेव स्वर्गादिपदोपस्थाप्ये इष्टे कथञ्चित् तृतीयार्थ-करणत्वान्वय उपेयते इति गुरुमतं निराकृत्य आहत्यैवयागादौ विध्यर्थकृतिसाध्यत्वेष्टसाधनत्वयोरन्वयबोधंव्यवस्थापयितुकामो विचाराङ्गं विप्रतिपत्तिं दर्शयति अ-थेति स्वर्गकामोयजेतेत्यादाविति कालान्तरभाविफलका-मबोधकघटितवेदवाक्ये इत्यर्थः प्रतिपाद्यत्वं विघावन्वेतिविधित्वञ्च विदधाति प्रवर्त्तयतीति व्युत्पत्त्या प्रवृत्तिप्रयो-जकत्वं प्रवृत्तिजनकतावच्छेदकप्रकारताश्रयत्वम् । कार्य-त्वस्य विशिष्यैव कथं न पक्षतोपेयते इत्याकाङ्क्षायाम् इष्ट-साधनतासाधारणरूपावच्छिन्नःपक्षो, गुरूणामभावसाधनेएव नैयायिकाभिमतस्याहत्यक्रियायामिष्टसाधनतान्वय-स्यापि निराकरणं भवतीत्युक्तानुगतरूपेण पक्षकरणप्र-योजनमाविस्कर्त्तुं विधित्वेन संग्राह्यमर्थद्वयं दर्शयति इष्ट-साधनत्वं कार्यत्वं वेति वाकारोऽनास्थायां न विकल्पे ।इष्टसाधनत्वस्य विधित्वपक्षे कार्यत्वस्याकत्त्वात् । एवञ्चा-लौकिकक्रियागोचरकालान्तरभाविफलकामनाधीनप्रवृत्तिपरलिङ्पद तात्पर्य्यविषयप्रवर्त्तकधर्मत्वमेव पर्य्यवसितंपक्षतावच्छेदकम्” इत्युपक्रमे तु मध्ये“स्वर्गकामेति काम्यस्वर्गसाधनतानिर्वाहकापूर्वरूपय्या-पारे साधनत्वाप्रत्यायमे स्वर्गकामकृतिसाध्यत्वान्वयबोध-जनकधीविषयतदन्द्रयप्रयोजक स्वर्गकामनियोज्यकत्वरू-पयोग्यताविषयकशाब्दज्ञानस्य जनकीभूतं यन्नियोज्यतयास्वर्गकामरूपनियोज्यस्यान्वयप्रयोजकस्वर्गसाधनतायाज्ञानंतदसम्भवादित्यर्थः । कृतिविषयनिष्ठकाम्यसाधनतायाःकृतिविशेषप्रयोजकत्वेऽपि इष्टासाधनस्यापि सन्ध्यावन्द-नादेः कृतित उत्पत्तेः । कृतिसाध्यत्वसामान्ये यद्यपिसाक्षान्नेष्टसाधनत्वं प्रयोजकं तथापि तत्र कर्त्तुः क्रिया-नियोज्यत्वं क्रियाविषयककृतिसाध्यताज्ञानबत्त्वरूपंप्रयोजकमिति कार्यतान्वयबोधसामान्ये कर्त्तुर्नियोज्य-ताज्ञानमन्वयप्रयोजकरूपयोग्यताज्ञानविधया कारणम्तदपि ज्ञानं शाब्दात्मकमेवोपेयम् प्रमाणान्तराभावात् ।एवञ्च काम्यस्थले कामिनियोज्यतया वोधे कामनावि-शिष्टस्यैव तथाभानमङ्गीकार्यं कामनाया विशेषणत्वावश्यकत्वात् कामनाया उपलक्षणत्वे आत्ममात्रस्यैवोपलक्ष्यतया निष्कामसाधारणनियोज्यताबोधो न, विधेरप्रा-माण्यप्रसङ्गात्” “वस्तुतो वेदस्थले विशिष्टान्वयपरतायाऔत्सर्गिक्याः कथञ्चित्सम्भवे तत्त्यागायोगादपि काम-नाया विशेषणत्वमावश्यकमेव” । स्थलान्तरे च“यद्यपि नियोज्यत्वं विधिकर्तृकप्रवर्त्तनारूपनियोगकर्मत्वंधात्वर्थतावच्छेदकप्रवृत्तिरूपफलाश्रयत्वमेव प्रवर्त्तकज्ञा-नानुकूलव्यापारस्य नियोगत्वे च तादृशज्ञानाश्रयत्वमेवतथापि निरुक्तं पारिभाषिकमेव वा नियोज्यत्वम् अथवा प्रवर्त्तकज्ञानोपधायकतानिर्वाहकव्यापारो नियोगइति कामानासाधारणं तादृशज्ञानोपधायकत्वं नियो-ज्यत्वं कामनायास्तद्बोधोपयोगे कार्यताबोथजनकत्वेभ-वति निर्वहतीत्यर्थः । अन्यथा विशेषणांशे तद्वाधेन काम-नाया विशेषणत्वायोगादिति भावः । स चेति कामनाया-स्तद्बोधोपयोगश्चेत्यर्थः । कामनानन्तरं काम्यसाधनता-बोधात् कार्यत्वबोधे सतीति कामनाधीनकाम्यसाधनताबोधस्य कार्यताबोधोपयोगे सतीत्यर्थः साक्षात्तदनुपयो-गादिति भावः । काम्यसाधनताबोधस्य काननाधीनत्वंकामनाविषयकत्वेन बोध्यं तथा च कामनाविशिष्टस्यक्रियानियोज्यत्वं कामनायाः क्रियानिष्ठकाम्यसाधनताज्ञानोपयोगितानिर्वाह्यमिति तद्ध्वटकक्रियानिष्ठकाम्य-साधनत्वमपि नियोज्यतान्वयप्रयोजकमिति पर्य्यवसितम् ।एवञ्च स्वर्गकामसाधनताया नियोज्यतया स्वर्गकामान्वयप्रयोजकत्वे च सति सत्येव नियोज्यान्वययोग्यता नियो-ज्यत्वान्वयप्रयोजकयोग्यताघटितनियोज्यान्वयबोधसाम-ग्रीसम्पत्तिः । एवञ्च यागः स्वर्गसाधनीभूत स्वनियोज्यस्वर्गकामकार्यतान्वयधीरेतन्मते तत्र स्वर्गकामे नियो-ज्यताज्ञानं क्रियायां स्वर्गसाधनताज्ञानञ्च योग्यताज्ञा-नमेव औपादानिकरूपमनुपपत्तिमात्रमूलकं वा अपेक्ष्यतेइति तस्या अपि स्वर्गसाधनताविषयकतया तन्निर्वाहक-फलसमयपर्य्यन्तस्थायिव्यापारजनकत्वज्ञानभप्यपेक्षितमितिनाहत्यक्रियाकार्यताधीरिति समुदायार्थः” ।एवं शुचित्वतत्कालादिरूपकर्त्तृविशेषयुतस्यापि नियोज्य-त्वम् अत्र को नियोज्यः इत्याकाङ्क्षयोत्थापितस्य शुचित-त्तत् कालजीवित्वादेरधिकारिविशेषणस्य नियोज्यताप्रयो-जकत्वात् इत्याकारे विस्तरः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
