| YouTube Channel

नियमसेवा (niyamasevA)

 
शब्दकल्पद्रुमः
Sanskrit
नियमसेवा,
स्त्री,
(नियमेन भगवतः सेवा ।)कार्त्तिकमासे नियमपूर्व्वकभगवदाराधना यथा, “अकृत्वा नियमं विष्णोः कार्त्तिकं यः क्षिपेन्नरः ।जन्मार्ज्जितस्य पुण्यस्य फलं नाप्नोति नारद !
”किञ्च ।“नियमेन विना चैव यो नयेत् कार्त्तिकं मुने ! ।चातुर्म्मास्यं तथा चैव ब्रह्महा कुलाधमः
”तत्रोपक्रमकालश्चोक्तः श्रीकृष्णसत्यासंवादीय-कार्त्तिकमाहात्म्ये ।“आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् ।कार्त्तिकस्य व्रतानीह तस्यां कुर्य्यादतन्द्रितः
”इति श्रीहरिभक्तिविलासे १६ विलासः
अन्यत्कार्त्तिकशब्दे द्रष्टव्यम्
वाचस्पत्यम्
Sanskrit
नियमसेवा स्त्री नियमेन सेवा विष्णोः नियमपूर्वकम् आ-श्विनस्य शुक्लैदश्यामारभ्य कार्त्तिकमासे विष्णोः सेवायाम्“आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् कार्त्ति-कस्यन्ध्रतानीह तस्यां कुर्य्यादतन्त्रितः अकृत्वा नियमंविष्णोः कार्त्तिकं यः क्षिपेन्नरः जन्मार्जितस्य पुण्यस्यफलं नाप्नोति नारद!” किञ्च “नियमेन विना चैव ननयेत् कार्त्तिकं मुने! चातुर्मास्यं तथा चैव ब्रह्महा सकुलाधमः” हरिभक्तिविलासः