| YouTube Channel

निम्बूकं (nimbUkaM)

 
शब्दकल्पद्रुमः
Sanskrit
नि(म्बु)म्बूकं,
क्ली,
(निम्बति सिञ्चतीव रसेनेति ।निम्ब सेचने + बाहुलकात् ऊः पाक्षिको ह्रस्वश्च ।ततः कन् ।) वृक्षविशेषः काग्जी लेवु इतिभाषा
तत्पर्य्यायः अम्लजम्बीरः वह्निः ३दीप्तः वह्निबीजः अम्लसारः दन्ताघातः ७शोधनः जन्तुमारी निम्बूः १० रोचनः ११ ।(यथा, भावप्रकाशे पूर्व्वखण्डे भागे ।“निम्बः स्त्री निम्बकं क्लीवे निम्बूकमपि कीर्त्तितम्
”)तत्फलगुणाः अम्लरसत्वम् कटुत्वम् उष्ण-त्वम् गुल्मामवातकासकफार्त्तिकण्ठविच्छर्द्दि-हरत्वम् आग्नवृद्धिकारित्वम् चक्षुष्यत्वम् ।परिपक्वे अतीव रुच्यत्वञ्च इति राजनिर्घण्टः
पाचनत्वम् लघुत्वम् कृमिसमूहोदरग्रह-नाशित्वम् तीक्ष्णत्वम् वातपित्तकफशूलिनोहितत्वम् कष्टनष्टरुचिरोचनत्वम् त्रिदोष-वह्निक्षयवातरोगनिपीडितानां विषविह्वलानांमलग्रहे बद्धगुदे विसूचिकायाञ्च प्रदेयम् इतिभावप्रकाशः
*
“भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम् ।लंवङ्गमरिचोन्मिश्रं पानकं पानकोत्तमम्
निम्बूफलभवं पानमत्यम्लं वातनाशनम् ।वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम्
”इति राजनिर्घण्टः