| YouTube Channel

निमित्तबध (nimittabadha)

 
वाचस्पत्यम्
Sanskrit
निमित्तबध
पु०
निमित्तेन रोधादिहेतुना बधः रोधादि-निमित्ते गवादेर्वधे तत्र प्रायश्चित्तादि प्रा० त० उक्तं यथा“रोधादिनिमित्तकप्रायश्चित्तम् तत्राङ्गिराः “रोधनेबन्धने चापि योजने गवां रुजः उत्पाद्य मरणंवापि निमित्ती तत्र लिप्यते पादञ्चरेद्रोधबधे द्वौपादौ बन्धने चरेत् योजने पादहीनं स्याच्चरेत् सर्वंनिपातने” निमित्ती लिप्यत इति यथाकथञ्चित् मरण-निमित्ततारतम्येन “यो भूय आरभते तास्मन् फलेविशेषः” इत्यापस्तम्बवचनात् पापविशेषेणं लिप्यतेतद्विशेषात् प्रायश्चित्तविशेषमाह पादञ्चरेदित्यादि रोधःशीणायाः गोराहारप्रचारनिर्गमविरोधः बन्धन-मयथाबन्धनमकालबन्धनञ्च योजनं हलशकटादौयोजनं तत्रातिवाहादिनेति शेषः अत्रैव विषये व्य-वनः “प्राजापत्यद्वयं गोहत्याप्रायश्चित्तं रोधनबन्धनयोक्त्र-बधे पादवृद्ध्या नस्रानि लोमानि शिखावर्जं सशिखंवपनं त्रिषवणं गवानुगमनं सहशयनं सुमहत्तृणानिरथ्यासु चारयेत् व्रतान्ते ब्राह्मणभोजनमिति” रोधन-बन्धनयोक्त्रबध इत्यादेरयमर्थः रोधनिमित्तकवधे प्राजा-पत्यस्य पादः प्रायश्चित्तं नखच्छेदनमात्रम् बन्धन-निमित्तबधे प्राजापत्यस्य द्वौ पादौ नखानां लीम्नाञ्चछेदनम् योक्त्रनिमित्ते बधे प्राजापत्यपादत्रयंनखलोमशिखावर्जकेशच्छेदनञ्च दण्डादिप्रहारबधेसम्पूर्ण प्राजापत्यम् नखलोमकेशशिखाच्छेदनञ्च इति ।एतद्विषय एव मिताक्षराधृतं संवर्त्तवचनं तदेकवाक्य-त्वात् तद्यया “पादेऽङ्गलोमवपनं द्विपादे श्मश्रुणोऽपिच त्रिपादे शिम्नावर्जं वशिखन्तु निपातने” अत्रप्राजापत्यस्य पादादित्वे किं मानमिति चत् पराशर-वचनम् “रोधने तु चरेत् पादं बन्धने चार्द्धमेवहि योजने पादहीनं स्यात् प्राजापत्यं निपातने” ।“कृच्छ्रमज्ञानताडने” इति वार्हस्वत्यात् दण्डोऽत्र हस्त-प्रमाणो ग्राह्यः तदधिके तु द्विगुणपायश्चित्तविधानात् ।यथा अङ्गिराः “अङ्गुष्ठमात्रः स्थौल्येन बाहुमात्रःप्रमाणतः सार्द्रश्च सपलाशश्च दण्ड इत्यभिधीयते” ।“अस्यादूर्द्ध्वप्रहारेण यदि गां विनिपातयेत् द्विगुणन्तुभवेत्तत्र प्रायश्चित्तमिति स्थितिः” सपलासः सपत्रः ।एतद्वचनविषय एव च्यवनीक्तप्राजापत्यद्वयमिति एतच्चा-ज्ञानतः यथा वृहस्पतिः “पादञ्चरेत् रोधवधे कृच्छ्रार्द्धंबन्धधातने अतिवाहे पादोनं कृच्छ्रमज्ञानताडने” ।अन्नानञ्च क्षीणायामक्षीणत्वभ्रमः क्षैण्यज्ञाने तुपायिकमरणं ज्ञात्वा प्रवृत्तस्य चान्द्रायणपादादिकम् ।यथा हारीतः “नासाच्छेदनदाहेषु कर्णच्छेदनबन्धने ।अतिदोहातिवाहाभ्यां कृच्छ्रं चान्द्रायणं चरेत्” हत्वेतिशेषः कृच्छ्रं व्रतं तेन चान्द्रायणव्रतमित्यर्थः ।इति शूलपाणिमहामहोपाध्यायाः भवदेवभट्टैस्तुनिपातने कूपावदादिषु इति व्याख्यातं तदपि युक्तंअन्यथा तत्र पातजनकभयादिदर्शकस्य प्रायश्चित्तस्यानध्य-तद्धायापत्तेः “शस्त्रादिना तु हत्वा गां मानवंततपाक्षरेत् रोधादिना त्वाङ्गिरनमापस्तम्बोक्तमेव चेति”बृहस्पत्युक्तं तत्र प्रयमादिपदामुष्टिलोष्ट्रलगुडविषाग्न्या-दीनां प्रायिकमृत्युफलानां ग्रहणम् रोधादिनेति यथाकथञ्चिन्निमितमात्रस्य, बन्धादेरिति शूलपाणिव्याख्या-न्तराच्च तस्मान्निपातनपरम् उभयपरम् एतच्च रात्रौरक्षणार्थं रोधबन्धनव्यतिरिक्तविषयम् “सायं संयम-सनार्थन्तु दुष्येद्रोधबन्धयोः” इति अङ्गिरोवचनात्वन्धने मिताक्षरायां विशेषमाह व्यासः “न नारि-केलैर्नच शाणतालैर्नचापि मौञ्जैर्नच बन्धशृङ्खलैः ।एतैस्तु गावो हि बन्धनीया बद्ध्वा तु तिष्ठेत् परशुंगृहीत्वा कुशैः काशैश्च बध्नीयात् स्थाने दोषविवार्जते” ।निमित्तिन्शब्दे वक्ष्यमाणे मन्यूत्पादनदारा हनने