निमन्त्रण (nimantraNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishनिमन्त्रणम् [nimantraṇam], 1 Invitation.
Summoning, calling
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् * 3.256.6.
A summons.
पत्रम् an invitation card or note.
a summons.
Apte 1890
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiनिमन्त्रणम्
- नि + मंत्र् + ल्युट्
न्यौता
निमन्त्रणम्
- नि + मंत्र् + ल्युट्
"आमन्त्रण, बुलावा"
निमन्त्रणम्
- नि + मंत्र् + ल्युट्
"आह्वान, तलवी"
Shabdartha Kaustubha
Kannadaनिमन्त्रण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಆಹ್ವಾನ ಕೊಡುವುದು/ಕರೆಯುವುದು
निष्पत्तिः - > नि+मत्रि (गुप्तभाषणे) "ल्युट्" (३-३-११५)
निमन्त्रण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶ್ರಾದ್ಧಭೋಜನಕ್ಕಾಗಿ ಕರೆಯುವುದು
Indian Epigraphical Glossary
EnglishSanskrit Tibetan
Tibetanmgron
१) अतिथि २) निमन्त्रण ३) सत्त्र
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritनिमन्त्रण नि + मन्त्र--भावे ल्युट् । आवश्यकश्राद्धभो-जनादौ प्रवर्त्तने । “विधिनिमन्त्रणामन्त्रणाधीष्टसंपश्नप्रार्थनासु लिङ्” पा० “यस्याकरणे प्रत्यवायस्तन्निवन्त्रणम्”सि० कौ० । तथा च प्रत्यवायप्रयोजकाभावप्रतियोगिनिमन्त्रणम् । “व्राह्मणप्रातिवेश्यानामेतदेवा निमन्त्रणे”याज्ञ० “निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्”मा० व० २५५ अ० । श्राद्धनिमन्त्रणप्रकारादि निम-न्त्रितस्य नियमादि च नि० सि० निरूपितं यथाचन्द्रिकायां मात्स्ये “पठन्निमन्त्र्य नियमान् श्रावयेत्पैतृकान् वुधः । अक्रोधनैः शौचपरैः सततं ब्रह्मचा-रिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा”यत्तु मनुः “सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः ।भवितव्यं मवद्भिर्नः श्वोभूते श्राद्धकर्मणीति” तत्पूर्वेद्यु-र्निमन्त्रणपरं न तदहः । तत्रैव देबलः “असम्भवे परे-द्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत् । अज्ञातीनसमानार्षानयु-ग्मानात्मशक्तितः” । कात्यायनः अनिन्द्येनामत्त्रितोनापक्रामेत् केतनं गृह्यसक्तः” । अथ श्राद्धकर्तृभोक्तृ-नियमाः तत्र मिमन्त्रितविप्रत्यागेऽपरार्के यमः “केतनंकारयित्वा तु योऽतिपातयति द्विजम् । बह्महत्याम-वाप्नोति शूद्रयीनौ च जायते । आमन्त्र्य ब्राह्मणंयस्तु यथान्यायं न पूजयेत् । अतिकृच्छ्रासु षोरासुतिर्य्यग्योनिषु जाग्रते” । प्रमदात्त्यागे हारीतः“प्रमादाद्विस्मृतं ज्ञात्वा प्रसाद्यैनं प्रयत्नतः । तर्पयित्वायथान्यायं सर्वं तत् फलमश्नुते” । प्रमदाभावे तु नारा-यणः “एकस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतः शुचिः ।यतियान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते” यमः“आमन्त्रितस्तु यो विप्रो भोक्तुमन्यत्र गच्छति ।नरकाणां शतं गत्वा चाण्डालेप्यमिजायते” । तत्रैवदेवलः “पूर्वे निमन्त्रितोऽन्येन कुर्य्यादन्यप्रतिग्रहम् ।भुक्ताहारोऽथ वा भुङ्क्ते सुकृतं तस्य नश्यति” । यदिविप्रो विलग्वेत तदोक्तमादित्यपुराणे “आमन्त्रितश्चिरंनैव कुर्य्याद्विप्रः कदाचन । देवतानां पितॄणाञ्च दातुरन्नस्यचैव हि । चिरकारी भवेट्द्रोही पच्यते नरकाग्निना” ।पृथ्यीचन्द्रोदये यमः “निमन्त्रितस्तु यो विप्रो ह्यध्वानंमाति दुर्मतिः । भवन्ति पितरस्तस्य तं मासं पांशुभो-जनाः । आमन्त्रितस्तु यः श्राद्धे हिंसां वै कुरुते द्विजः ।पितरस्तस्य तं मासं भवन्ति रुधिराशनाः । आमन्त्रि-तस्तु यो विप्रो भारमुद्वहते द्विजः । पितरस्तस्य तं मासंभवन्ति स्वेदभोजनाः । निमन्त्रितस्तु यो विप्रः प्रकुर्य्यात्कलहं यदि । पितरस्तस्य तं मासं भवन्ति मलभोजनाः” ।शङ्खः “निमन्त्रितस्तु यः श्राद्धे मैधुनं सेवते द्विजः ।श्राद्धं दत्त्वा च भुक्त्वा च युक्तः स्यान्महतैनसा” । ऋता-वपि मैथुनं निषिद्धम् “ऋतुकाले नियुक्तो वा नैव गच्छेत्स्त्रियं क्वचित् । तत्र गच्छन्नवाप्नोति ह्यनिष्टानि फ-लानि तु” इति तत्रैव माधवीये च वृद्धमनूक्तेः “श्राद्धंकरिष्यन् कृत्वा वा भुक्त्वा वापि निमन्त्रितः । उपोष्यच तथा भुक्त्वा नोपेयाच्च ऋताबपि । भोक्ष्यन् करि-ष्यन् श्वः श्राद्धं पूर्वरात्रौ प्रयत्नतः । व्यवायं भोजनञ्चापिऋतावपि विवर्जयेत्” इति तत्रैवाश्वलायनोक्तेश्च । विज्ञा-नेश्वरेण तु श्राद्धे ऋतौ गच्छतोऽपि न दोष इत्युक्तम्तत्त्वगतिकत्वे ज्ञेयम् । वृहस्पतिः “द्विनिशं ब्रह्मचारीस्याच्छाद्धकृद्ब्राह्मणैः लह! अन्यथा वर्त्तमनौ तु स्यातांनिरयगामिनौ । पुनर्भोजनमध्वानं भारमायासमैथुनम् ।श्राद्धकच्छाद्धभुक् चैव सर्वमेतद्विवर्जवेत् । स्वाध्यायंकलहञ्चैव दिवास्वापं तथैव च” । यत्तु श्राद्धकाशि-कायां पुराणसमुच्चये “कृत्वा तु रुधिरस्रावं न विद्वान्श्राद्धमावरेत् । एकं द्वे त्रीणि वा विद्वान् दिनानिपरिवर्जयेत्” इति तन्निर्मूलम् । पृथ्वीचन्द्रोदये यमः“पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । सन्ध्यां प्रति-ग्रहं होमं श्वाद्धभोक्ताऽष्ट वर्जयेत्” । सन्ध्यानिषेधः प्राय-श्चित्तात् पूर्वं ज्ञेयः यथाहोशनाः “दशकृत्वः पिबे-दापो गायत्र्या श्राद्धभुक् द्विजः । ततः सन्ध्यामुपा-सीत जपेच्च जुहुयादपि” । गौडास्तु “सायं सन्ध्यां परा-न्नञ्च छेदनञ्च वनस्पतेः । अमावस्यां न कुर्वीत रात्रि-भोजनमेव च । द्यूतञ्च कलहञ्चैव सायंसन्ध्यां दिवा-शयम् । श्राद्धकर्त्ता च भोक्ता च पुनर्भुक्तिञ्च वर्जयेत्”कामधेनौ वराहाद्युक्तेः श्राद्धकर्त्तुरपि सायंसन्ध्या-विषेधमाहुः शिष्टास्तु निर्मूलत्वमाहुः । होमनिषेधस्तुस्वयंहोमविषयः “सूतके च प्रवासे च अशक्तौ श्राद्ध-भोजने । एवमादिनिमित्तेषु हावयेन्न तु हापयेत्” इतिछन्दोगपरिशिष्टात् । तत्रैवादित्यपुराणे “निमन्त्रितस्तु नश्राद्धे कुर्य्याद्भार्य्यादिताडनम्” । चन्द्रिकायां प्रचेताः“श्राद्धभुक् प्रातरुत्थाय प्रकुर्य्याद्दन्तधावमम् । श्राद्धकर्त्तान कुर्वीत दन्तानां धावनं बुधः” हेमाद्रौ जाबालिः“दन्तघावनताम्बूले तैलाभ्यङ्गममोजनम् । रत्यौषधपरा-न्नञ्च श्राद्धकृत् सप्त वर्जयेत्” । विष्णुरहस्ये “श्राडो-पवासदिवसे खादित्वा दन्तधावनम् । गायत्र्या शत-सम्पूतमम्बु प्राश्य विशुध्यति । पुनर्भोजनमध्वानं यानप्रायासमैधुनम् । दानप्रतिग्रहौ होमं श्राङ्गभुक्त्वष्ट वर्जयेत्” । “निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान्शुचिः । तैश्चापि संयतैर्भाव्यम् मनोवाक्कायकर्मभिः”याज्ञ० “पूर्वेद्युरपवेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयेतत्र्यवरान् सम्यक् विप्रान् यथोदितान्” मनुः । “पूर्वेद्युर्नि-वेदनम् वेदनं परेद्युर्द्वितीयं, तृतीयमामन्त्रणम्” आप-स्तम्बः “निवेदनं श्वोमया श्राद्धं कर्त्तव्यं तत्र भवन्तोनिमन्त्रणीया इत्येवंरूपं निवेदनम् । द्वीतयं वेदनंत्वामहं निमन्त्रये इत्यनेन निमन्त्रणम् । त्वयि श्राद्धमहंकरिष्ये” इति तृतीयमनुज्ञाग्रहणरूपम्” श्रा० त० रघु०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
