| YouTube Channel

निपातनं (nipAtanaM)

 
शब्दकल्पद्रुमः
Sanskrit
निपातनं,
क्ली,
(निपात्यतेऽनेनेति नि + पत +णिच् + करणे ल्युट् ।) खलीकारः इति भरतः
अधोनयनम् इति सर्व्वस्वम् तत्पर्य्यायः ।अवनायः इत्यमरः २९
निया-तनम् इति नयनानन्दः
व्याकरणलक्ष-णानुत्पन्नपदसाधनम् यथा, निपातनादिष्ट-सिद्धिः यल्लक्षणेनानुत्पन्नं तत् सर्व्वं निपा-तनात् सिद्धमिति भाष्यम्
निपातलक्षणं यथा, “वर्णागमो वर्णविपर्य्ययश्चद्वौ चापरौ वर्णविकारनाशौ ।धातोस्तदर्थातिशयेन योग-स्तदुच्यते पञ्चविधं निरुक्तम्
इति प्राञ्चः ।” इति दुर्गादासः
तद्यथा, --“वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्य्ययः ।षोडशादौ विकारः स्यात् वर्णनाशः पृषोदरे
”इति कलापपञ्जी