| YouTube Channel

निनाटयिषम् (ninATayiSam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“नट अवस्पन्दने”@} 2 अयं धातुः णोपदेशः।
‘णोपदेशास्त्वनर्द् नाट्’ इति पर्युदासात्।
अतः, ‘उपसर्गादसमासेऽपि--’ 3 इति णत्वं सोपसर्गे भवति।
‘अवस्यन्दने’ इत्येके।
4 ‘नृतौ नटत्यवस्पन्दे चुरादेर्णिचि नाटयेत्।’ 5 इति देवः।
नाटकः-टिका, निनाटयिषकः-षिका
नाटयिता-त्री, निनाटयिषिता-त्री
प्रनाटयन्-न्ती, निनाटयिषन्-न्ती
नाटयिष्यन्-न्ती-ती, निनाटयिषिष्यन्- न्ती-ती
नाटयमानः, निनाटयिषमाणः
नाटयिष्यमाणः, निनाटयिषिष्यमाणः
नाड्-नाड्-नाटौ-नाटः
नाटितम्- 6 तः, निनाटयिषितः-तवान्
नाटः, निनाटयिषुः
नाटयितव्यम्, निनाटयिषितव्यम्
नाटनीयम्, निनाटयिषणीयम्
नाट्यम्, निनाटयिष्यम्
ईषन्नाटः- 7 दुर्नाटः, सुनाटः
नाट्यमानः, निनाटयिष्यमाणः
नाटः, निनाटयिषः
नाटयितुम्, निनाटयिषितुम्
नाटना, निनाटयिषा
नाटनम्, निनाटयिषणम्
नाटयित्वा, निनाटयिषित्वा
प्रनाट्य, प्रनिनाटयिष्य
नाटम् २, नाटयित्वा २, निनाटयिषम्
निनाटयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(६५८)
02
=>
(१०-चुरादिः-१५४५। अक। सेट्। उभ।)
03
=>
(८-४-१४)
04
=>
[पृष्ठम्०६१२+ २५]
05
=>
(श्लो। ७६)
06
=>
[[आ। ‘ओलण्डिताद्रिरपि जालितदिव्यधामा निष्पीडितारिरनुनाटितमर्त्यभावः।’ धा। का। ३। १४।]]
07
=>
[[१। ‘दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वाच्यः’ (वा। १-४-६०) इति वचनात् णत्वं भवति।]]