निधिः (nidhiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishनिधिः [nidhiḥ], [नि-धा-आधारे कि]
Abode, receptacle, reservoir
जल˚, तोय˚, तपोनिधि
A store-house, treasury.
A treasure, store, hoard (for the nine treasures of Kubera, see नवनिधि).
The ocean.
An epithet of Viṣṇu.
A man endowed with many good qualities.
the science of chronology
Ch. 7.2.1. -ईशः, नाथः an epithet of Kubera
1.5.56. -वादः the art of finding treasure. -वासः the town of Newāsā on the Pravarā river in the Ahmednagar District
Cf. निधिवासकर-परमा- नन्द-प्रकाशितायां... संहितायां ......। Colophon of Śiva. B.2.
Apte 1890
EnglishApte Hindi
Hindiनिधिः
- नि + धा + कि
"घर, आधार, आशय"
निधिः
- नि + धा + कि
"भंडारगृह, कोषागार"
निधिः
- नि + धा + कि
"खज़ाना, भंडार, संचय"
निधिः
- नि + धा + कि
समुद्र
निधिः
- नि + धा + कि
विष्णु का विशेषण
निधिः
- नि + धा + कि
सद्गुणसंपन्न व्यक्ति
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit निधिः, कोशः
महार्हाणां अथवा दुर्लभानां वस्तूनां सञ्चयः।
"तस्य गृहे पुरातनानां मुद्राणाम् अलङ्काराणा च निधिः अस्ति। "
निधिः
कार्यार्थे सङ्गृहीतं धनम्।
"ग्रामीणक्षेत्रस्य विकासस्य निधेः दुरुपयोगः कृतः।"
कोशः, कोषः, निधिः
सञ्चितं धनम् ज्ञानादयः वा।
"कोशस्य व्ययः उचिते स्थाने कर्तव्यः।"
वैजयन्तीकोषः
SanskritWord: निधिः
Root: निधि
Gender: पुं
Number: all
अर्थः ⇒ सामान्यनिधिः
Meaning(s):
⇒ Treasure
Shloka(s):
1|2|60|1 ► निधानं गूढकोशो ना निधिः शेवधिरस्त्रियाम्। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
➠ 1|2|60|1 ⇢ निधानम् (निधान) (नपुं) ⇒ Treasure ⇒ सामान्यनिधिः
➠ 1|2|60|1 ⇢ गूढकोशः (गूढकोश) (पुं) ⇒ Treasure ⇒ सामान्यनिधिः
➠ 1|2|60|1 ⇢ निधिः (निधि) (पुं) ⇒ Treasure ⇒ सामान्यनिधिः
➠ 1|2|60|1 ⇢ शेवधिः (शेवधि) (पुं) ⇒ Treasure ⇒ सामान्यनिधिः
➠ 1|2|60|1 ⇢ शेवधि (शेवधि) (नपुं) ⇒ Treasure ⇒ सामान्यनिधिः
Related word(s):
अन्यसंबन्धाः ➡ कुबेरः
उपाधि ➡ धनम्
परा_अपरासंबन्धः ➡ शङ्खः1
Tamil
Tamilநிதி4: : வீடு, வசிக்குமிடம், இருப்பிடம், கஜானா, கடல், விஷ்ணு.
शब्दकल्पद्रुमः
Sanskritनिधिः, (निधीयतेऽत्रेति । नि + धा + किः ।)नलिकानामगन्धद्रव्यम् । समुद्रः । इति राज-निर्घण्टः ॥
(यथा, देवीभागवते । ३ । २२ । १० ।“कन्यां सुकेशीं निधिकन्यकासमांमेने तदात्मानमनुत्तमञ्च ॥
”)जीवकौषधिः । इति शब्दचन्द्रिका ॥
आधारः ।यथा । गुणनिधिः । जलनिधिः । इत्यादयः ॥
चिरप्रनष्टस्वामिकभूजातधनविशेषः । इतिप्राञ्चः ॥
अज्ञातस्वामिकचिरनिखातस्वर्णादि ।यथा । अधुना भूमौ चिरनिखातस्य सुवर्णा-देर्निधिशब्दवाच्यस्याधिगमे विधिमाह ।“राजा लब्ध्वा निधिं दद्यात् द्बिजेभ्योऽर्द्धं द्बिजःपुनः ।विद्वानशेषमादद्यात् सर्व्वस्यासौ प्रभुर्यतः ॥
इतरेण निधौ लब्धे राजा षष्टांशमाहरेत् ।अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥
”“उक्तलक्षणं निधिं राजा लब्धार्द्धं ब्राह्मणेभ्योदत्त्वा शेषं कोषे निवेशयेत् । ब्राह्मणस्तु विद्बान्श्रुताध्ययनसम्पन्नः सदाचारो यदि निधिं लभेततदा सर्व्वमेव गृह्णीयात् । यस्मादसौ सर्व्वस्यजगतः प्रभुः । इतरेण तु राजविद्बद्ब्राह्मण-व्यतिरिक्तेनाविद्वद्ब्राह्मणक्षत्त्रियादिना निधौलब्धे राजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं निधिंस्वयमाहरेत् । यथाह वशिष्ठः । अप्रज्ञायमानंवित्तं योऽधिगच्छेत् राजा तद्धरेदधिगन्त्रे षष्ठ-मांशं प्रदद्यात् इति । गौतमोऽपि निध्यधिगमोराजधनं न ब्राह्मणस्याभिरुपस्याब्रह्मणोऽप्या-ख्याता षष्ठं अंशं लभेतेत्येक इति । अनिवेदितइति कर्त्तरि निष्ठा । अनिवेदितश्चासौ विज्ञा-तश्च राजा इत्यनिवेदितविज्ञातः । यः कश्चि-न्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्चराजा स सर्व्वं निधिं दाप्यो रण्ड्यश्च शक्त्यपेक्षया ।अथ निधेरपि स्वाम्यागत्यरूपसङ्ख्यादिभिः स्वत्वंभावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठंद्वादशं वांशं स्वयमाहरेत् । यथाह मनुः ।“ममायमिति यो ब्रूयान्निधिं सत्येन मानवः ।तस्याददीत षड्भागं राजा द्वादशमेव वेति ॥
अंशविकल्पस्तु वर्णकालाद्यपेक्षया वेदितव्यः ।”इति मिताक्षरायां व्यवहाराध्यायः ॥
कुवेरस्य नवधा रत्नविशेषः । तत्पर्य्यायः ।शेवधिः २ । इत्यमरः । १ । १ । ७४ ॥
सेवधिः ३ ।इति भरतः ॥
तद्भेदा यथा, --“पद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च वर्च्चोऽपि निधयो नव ॥
”इति हारावली ॥
मार्कण्डेयपुराणे तु वर्च्च इति हित्वा अष्टावेवउक्ताः । इति भरतः ॥
* ॥
तल्लक्षणं यथा, --“पद्मिनी नाम या विद्या लक्ष्मीस्तस्याधिदेवता ।तदाधाराश्च निधयस्तान्मे निगदतः शृणु ॥
तत्र पद्ममहापद्मौ तथा मकरकच्छपौ ।मुकुन्दनीलौ नन्दश्च शङ्खश्चैवाष्टमो निधिः ॥
सत्यामृद्ध्यां भवन्त्येते सद्भिः सह भवन्त्यमी ।एते ह्यष्टौ समाख्याता निधयस्तव क्रोष्टुके ! ॥
एभिरालोकितं चित्तं मनुष्यस्य महामते ! ।यादृक् स्वरूपं भवति तन्मे निगदतः शृणु ॥
पद्मो नाम निधिः पूर्व्वः स यस्य भवति द्विज ! ।स तस्य तत्सुतानाञ्च तत्प्रौत्त्राणाञ्च नान्यगः ॥
दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत् ।सत्त्वाधारो महाभागो यतोऽसौ सात्त्विकोनिधिः ॥
सुवर्णरौप्यताम्रादिधातूनाञ्च परिग्रहम् ।करोत्यतितरां सोऽथ तेषाञ्च क्रयविक्रयम् ॥
करोति च यथा यज्ञान् यज्विनाञ्च प्रयच्छति ।सम्पादयति कामांश्च सर्व्वानेव यथाक्रमम् ॥
सभादेवनिकेतांश्च स कारयति तन्मनाः । * ।सत्त्वाधारो निधिश्चान्यो महापद्म इति श्रुतः ॥
सत्त्वप्रधानो भवति तेन चाधिष्ठितो नरः ।करोति पद्मरागादिरत्नानाञ्च परिग्रहम् ॥
समौक्तिकप्रबालानां तेषाञ्च क्रयविक्रयम् ।ददाति योगशीलेभ्यस्तेषामावसथांस्तथा ॥
स कारयति तच्छीलः स्वयमेव च जायते ।तत्प्रसूतास्तथाशीलाः पुत्त्रपौत्त्रक्रमेण च ॥
पूर्व्वर्द्धिमात्रः सप्तासौ पुरुषांश्च न मुञ्चति ।महापद्मस्तु विप्राणां यज्ञे समुपजायते ॥
* ॥
तामसो मकरो नाम निधिस्तेनावलोकितः ।पुरुषोऽथ तमःप्रायः सुशीलोऽपि हि जायते ॥
बाणखड्गर्ष्टिधनुषां चर्म्मणाञ्च परिग्रहम् ।दंशनानाञ्च कुरुते याति मैत्रीञ्च राजभिः ॥
ददाति शौर्य्यवृत्तीनां भूभुजां ये च तत्प्रियाः ।क्रयविक्रयञ्च शस्त्राणां नान्यत्र प्रीतिमेति च ॥
एकस्यैव भवत्येष नरस्य न सुतानुगः ।द्रव्यार्थं दस्युतो नाशं संग्रामे वापि संव्रजेत् ॥
* ॥
कच्छपाख्यो निधिर्योऽन्यो नरस्तेनाभिवीक्षितः ।तमःप्रधानो भवति यतोऽसौ तामसो निधिः ॥
व्यवहारा न शिष्टैश्च पण्यजातं करोति च ।कर्म्मान्तानखिलांश्चैव न विश्वसिति कस्यचित् ॥
समस्तानि यथाङ्गानि निगृह्यान्ते हि कच्छपः ।तथावष्टभ्य रत्नानि तिष्ठत्याकुलमानसः ॥
न ददाति न वा भुङ्क्ते तद्विनाशभयाकुलः ।निधानमुर्व्यां कुरुते निधिः सोऽप्येकपुरुषः ॥
* ॥
रजोगुणमयश्चान्यो मुकुन्दो नाम यो निधिः ।नरोऽवलोकितस्तेन तद्गुणो भवति द्विज ! ॥
वीणावेणुमृदङ्गादिगीतवाद्यपरिग्रहम् ।करोति वाद्यतां वित्तं नृत्यताञ्च प्रयच्छति ॥
वन्दिमागधसूतानां विटानां लास्यपाठिनाम् ।ददात्यहर्निशं भोगान् भुङ्क्ते तैस्तु समं द्बिज ! ॥
कुलटासु रतिश्चास्य भवत्यन्यैश्च तद्बिधैः ।प्रयाति सङ्गमेकञ्च स निधिर्भजते नरम् ॥
* ॥
रजःसत्त्वमयश्चान्यो नन्दो नाम महानिधिः ।उपैति स्तम्भमधिकं नरस्तेनावलोकितः ॥
समस्तधातुरत्नानां पण्यवाद्यादिकस्य च ।प्रतिग्रहं करोत्येष तथैव क्रयविक्रयम् ॥
आधारः स्वजनानाञ्च आगताभ्यागतस्य च ।सहते नावमानोक्तिं स्वल्पामपि महामुने ! ॥
स्तूयमानश्च महतीं प्रीतिं वध्नाति यच्छति ।यं यमिच्छति वै कामं मृदुत्वमुपयाति च ॥
बह्व्यो भार्य्या भवन्त्यस्य सूतिमत्योऽतिशोभनाः ।सन्ततौ सप्त च नरान्निधिर्नन्दोऽनुवर्त्तते ॥
प्रबर्द्धमानोऽनु नरमष्टभागेन सत्तम ! ।दीर्घायुष्यञ्च सर्व्वेषां पुरुषाणां प्रयच्छति ॥
बन्धूनामेव भ्रमणं ये च दूरादुपागताः ।तेषां करोति वै नन्दः परलोके न चादृतः ॥
* ॥
भवत्यस्य न च स्नेहः सहवासिषु जायते ।पूर्व्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ॥
तथैव सत्त्वरजसी यो बिभर्त्ति महानिधिः ।स नीलसंज्ञस्तत्सङ्गी नरस्तच्छीलभाग्भवेत् ॥
वस्त्रकार्पासधान्यादिफलपुष्पपरिग्रहम् ।मुक्ताविद्रुमशङ्खानां शुक्त्यादीनां महामुने ! ॥
काष्ठादीनां करोत्येष यच्चान्यज्जलसम्भवम् ।क्रयविक्रयमप्येषां नान्यत्र रमते मनः ॥
तडागान् पुष्करिण्यश्च तथारामान् करोति च ।बन्धञ्च सरितां वृक्षांस्तथा रोपयते नरः ॥
अनुलेपनपुष्पादिभोगभुक् वापि जायते ।त्रिपौरुषश्चापि निधिर्नीलो नामेति विश्रुतः ॥
रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः ।तेनापि नीयते विप्र ! तद्गुणत्वं निधीश्वरः ॥
एकस्यैव भवत्येष नरं नान्यमुपैति च ।यस्य शङ्खो निधिस्तस्य स्वरूपं क्रोष्टुके ! शृणु ॥
एक एवात्मना सृष्टमन्नं भुङ्क्ते तथाम्बरम् ।कदन्नभुक् परिजनो न च शोभनवस्त्रभृत् ॥
न ददाति सुहृद्भार्य्यासुतपौत्त्रस्नुषादिषु ।स्वपोषणपरः शङ्खी नरो भवति सर्व्वदा ॥
इत्येते निधयः ख्याता नराणामर्थदेवताः ॥
मिश्रावलोकिनो मिश्रस्वभावफलदायिनः ।यथाख्यातः स्वभावस्तु भवत्येकविलोकनात् ।सर्व्वेषामाधिपत्ये च श्रीरेषां द्विज पद्मिनी ॥
”इति मार्कण्डेयपुराणे ६८ अध्याये निधिलक्षणम् ॥
(पौरववंशीयनृपविशेषः । अयं हि दण्डपाणेःपुत्त्रः । मत्स्यपुराणादिमते निरामित्रनाम्नाविख्यातः । ५० । ८७ ॥
यथा, राजावल्यां प्रथम-परिच्छेदे ।“बुभुजे पृथिवीमेनां दण्डपाणिर्महाबलः ।राजासने ततः सोऽपि स्थापयित्वा निधिं सुतम् ॥
स्मरन्नारायणं देवं तपसे स वनं ययौ ।निघिस्तु विधिवद्राज्यं चकार नीतिपण्डितः ॥
”विष्णुः । यथा, महाभारते । १३ । १४९ । १७ ।“सर्व्वः शर्व्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ॥
”“प्रलयकालेऽस्मिन् सर्व्वं निधीयते इति निधिः ।”इति तद्भाष्ये शङ्करः ॥
महादेवः । यथा, महाभारते । १३ । १७ । ४३ ।“श्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
