| YouTube Channel

निद्राणः (nidrANaH)

 
शब्दकल्पद्रुमः
Sanskrit
निद्राणः, त्रि, (नि + द्रा + क्तः “संयोगादेरातोधातोर्यण्वतः ।” ४३ इति तस्य नः ।)निद्रागतः तत्पर्य्यायः शयितः इत्यमरः ।३ ३३
(यथा, आर्य्यासप्तशत्याम् ५२६ ।“विहितविविधानुबन्धो मानोन्नतयावधीरितोमानी ।लभते कुतः प्रबोधं जागरित्वैव निद्राणः
”)