निद्रा (nidrA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishनिद्रा - nidrA - - sleep
शयनं करोति { कृ } - zayanaMkaroti{kR} - verb 8 - sleep
निद्रां करोति { कृ } - nidrAMkaroti{kR} - verb 8 - sleep
निद्रालु - nidrAlu - - sleepy
शायिका - zAyikA - - sleeper
शयन - zayana - - sleeping
विनिद्र - vinidra - - sleepless
निद्रावस्था - nidrAvasthA - - sleepmode [ computer ]
प्रस्वपिति { प्र- स्वप् } - prasvapiti{pra-svap} - verb 2 - gotosleep
गत्वा शयनं करोतु - gatvAzayanaMkarotu - - Goandsleep
पीत्वा शयनं करोतु - pItvAzayanaMkarotu - - Drinkandthensleep.
रात्रौ निद्रा सम्यक् आसीत् - rAtraunidrAsamyakAsIt - - Ihadsoundsleeplastnight.
किं, इदानीम् एव निद्रा वा? - kiM, idAnImevanidrAvA? - - What!feelingsleepysoearly?
निद्रां कृतवन्तं एतं मा उत्थापयतु - nidrAMkRtavantaMetaMmAutthApayatu - - Donotwakehimup–heissleeping.
रात्रौ निद्रा एव नास्ति भोः - rAtraunidrAevanAstibhoH - - Ididnothaveevenawinkofsleeplastnight.
शय्या - zayyA - - sleep
सुप्ति - supti - - sleep
नन्दीमुखी - nandImukhI - - sleep
भूतधात्री - bhUtadhAtrI - - sleep
लञ्जा - laJjA - - sleep
निद्रा - nidrA - - sleep
रात्रौ निद्रा सम्यक् आसीत् - rAtraunidrAsamyakAsIt - - Ihadsoundsleeplastnight.
किं, इदानीम् एव निद्रा वा? - kiM, idAnImevanidrAvA? - - What!feelingsleepysoearly?
रात्रौ निद्रा एव नास्ति भोः - rAtraunidrAevanAstibhoH - - Ididnothaveevenawinkofsleeplastnight.
इदानीम् अपि निद्रा न आगता वा? - idAnImapinidrAnaAgatAvA? - - Haven'tyousleptyet?
निद्रा - nidrA - - sleepiness
निद्रा - nidrA - - sloth
निद्रा - nidrA - - budding state of a flower
निद्रा - nidrA - - drowsiness
निद्रा - nidrA - - mystical name of the letter bh
निद्रा - nidrA - - slumber
निद्रायते { निद्रा } - nidrAyate { nidrA } - verb - slumber
निद्रायते { निद्रा } - nidrAyate { nidrA } - verb - fall asleep
निद्रायते { निद्रा } - nidrAyate { nidrA } - verb - sleep
निद्रायति { निद्रा } - nidrAyati { nidrA } - verb - fall asleep
निद्रायति { निद्रा } - nidrAyati { nidrA } - verb - sleep
निद्रायति { निद्रा } - nidrAyati { nidrA } - verb - slumber
निद्रा - nidrA - - sleep
शयनं करोति { कृ } - zayanaMkaroti{kR} - verb 8 - sleep
निद्रां करोति { कृ } - nidrAMkaroti{kR} - verb 8 - sleep
निद्रालु - nidrAlu - - sleepy
शायिका - zAyikA - - sleeper
शयन - zayana - - sleeping
विनिद्र - vinidra - - sleepless
निद्रावस्था - nidrAvasthA - - sleepmode [ computer ]
प्रस्वपिति { प्र- स्वप् } - prasvapiti{pra-svap} - verb 2 - gotosleep
गत्वा शयनं करोतु - gatvAzayanaMkarotu - - Goandsleep
पीत्वा शयनं करोतु - pItvAzayanaMkarotu - - Drinkandthensleep.
रात्रौ निद्रा सम्यक् आसीत् - rAtraunidrAsamyakAsIt - - Ihadsoundsleeplastnight.
किं, इदानीम् एव निद्रा वा? - kiM, idAnImevanidrAvA? - - What!feelingsleepysoearly?
निद्रां कृतवन्तं एतं मा उत्थापयतु - nidrAMkRtavantaMetaMmAutthApayatu - - Donotwakehimup–heissleeping.
रात्रौ निद्रा एव नास्ति भोः - rAtraunidrAevanAstibhoH - - Ididnothaveevenawinkofsleeplastnight.
शय्या - zayyA - - sleep
सुप्ति - supti - - sleep
नन्दीमुखी - nandImukhI - - sleep
भूतधात्री - bhUtadhAtrI - - sleep
लञ्जा - laJjA - - sleep
Wilson
EnglishApte
Englishनिद्रा [nidrā], 2 To fall asleep, sleep.
निद्रा [nidrā], 1 Sleep, sleepiness
प्रच्छायसुलभनिद्रा दिवसाः 1.3
निद्रामुद्रां क्षिपन् 2.12.
Sloth
निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् (निवर्तयेत्) * 12.274.7.
Shutting, budding state. -अन्ध dead, fast asleep.-अलस dull or languid with drowsiness, fast asleep
निद्रालसा बर्हिणः 3.2. -दरिद्र suffering from want of sleep. -भङ्गः awaking. -वृक्षः darkness. -सजननम् phlegm, phlegmatic humour.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
English2. नि-द्रा, f. (said to be fr. rt. निन्द् + affix र),
sleep, slumber, sleepiness, sloth
(in flowers the
budding state is considered as sleep. hence निद्रां
त्यज् = to bloom)
a mystical N. of the letter भ्।
—निद्रा-दरिद्र, अस्, m., N. of a poet.
—निद्रान्-
ध (°रा-अन्°), अस्, आ, अम्, blind with sleep.
—नि-
द्रा-भङ्ग, अस्, m. rousing from sleep, awaking
[cf. भग्न-निद्र।]
—निद्रा-मय, अस्, ई, अम्,
consisting in sleep.
—निद्रा-योग, अस्, m. sleep
and deep meditation
[cf. योग-निद्रा।]
—निद्रा-
लस (°रा-अल्°), अस्, आ, अम्, slothful from drowsi-
ness, fast asleep, sleepy.
—निद्रा-वृक्ष, अस्, m.
darkness.
—निद्रा-सञ्जनन, अम्, n. ‘producing
drowsiness, ’ phlegm, the phlegmatic humor.
Macdonell
EnglishBenfey
Englishनिद्रा नि-२। द्रा,
1. Sleep, Rām.
4, 26, 9.
2. Sleepiness, Hiḍ. 1, 4.
--
अ-,
I. sleeplessness.
II.
(अ-निद्र), sleepless, Rām. 2, 2, 4. अति
-निद्र, one who sleeps excessively,
6, 37, 48.
अप-, 1. sleepless, Kir.
5, 26. 2. opened, Śiś. 9, 30. उन्निद्र,
i. e.
उद्-, and निर्निद्र, i. e.
निस्-,
sleepless, Megh. 86
Rājat. 2, 98.
योग-निद्रा, 1. absorption in pro-
found meditation, Pañc. 125, 25. 2.
light sleep, 25, 25.
योगि(न्)-, light
sleep, wakefulness.
वि-, 1. sleep-
less. 2. blown, budded.
Hindi
Hindiनींद
Apte Hindi
Hindiनिद्रा
नि-द्रा -
"नींद आना, सोना, सो जाना"
निद्रा
- "निन्द् + रक् + टाप्, नलोपः"
"सुप्तावस्था, नींद"
निद्रा
- "निन्द् + रक् + टाप्, नलोपः"
शिथिलता
निद्रा
- "निन्द् + रक् + टाप्, नलोपः"
"आँखें मुंदना, कली की अवस्था"
Shabdartha Kaustubha
Kannadaनिद्रा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸುಪ್ತಿ/ನಿದ್ದೆ
निष्पत्तिः - > नि+द्रा (कुत्सायां गतौ) "अङ्" (३-३-१०६)। णिदि (कुत्सायाम्) "रक्" (उ० २-१७) इति वा।
प्रयोगाः - > "निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येन्द्रियमौनमुद्रितात्"
उल्लेखाः - > नैष० १-४०
विस्तारः - > ನಿದ್ರೆಯು ಕಾಲಾಗ್ನಿರುದ್ರನ ಪತ್ನಿ. "कालाग्निरुद्रपत्नी च निद्रा सा सिद्धयोगिनी। सर्वलोकाः समाच्छन्ना यया योगेन रात्रिषु"।
L R Vaidya
EnglishWordnet
Sanskrit शी, स्वप्, निद्रा, संविश्, निद्राय
अधिशयनपूर्वकः अवयवशिथिलीकरणानुकूलः व्यापारः।
"क्लान्तः सः शीघ्रमेव अशेत।"
निद्रा, स्वप्नः, स्वापः, सुप्तिः, शयनम्, संवेशः, स्वपनम्, मन्दसानः
शयनावस्थाविशेषः।
"रात्रिः शयनार्थमेव निर्मिता।"
निद्रा, शयः, शयनम्, सुप्तम्, सुप्तिः, सुप्तकः, स्वापः, प्रस्वापम्, स्वप्नः, संवेशः, मन्दसानः, मन्दसानुः, नन्दीमुखी, तामसम्, लञ्जा, षः, संलयः
प्राणिनां सा अवस्था यस्यां तेषां मेध्यामनःसंयोगः भवति तथा च येन तेषां मनः शरीरं च विश्रमतः।
"अल्पीयसी निद्रा परिक्लेशं जनयति। "
निद्रा, स्वप्
किञ्चित्कालं यावत् सुषुप्त्याकुलानुकूलः व्यापारः।
"सः उपविष्टः एव निद्राति।"
अभिधानचिन्तामणिः
Sanskritअन्तराया दानलाभवीर्यभोगोपभोगगाः ।
हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ ७२ ॥
कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा ।
रोगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥ ७३ ॥
दोष (पुं), दानान्तराय (पुं), लाभान्तराय (पुं), वीर्यान्तराय (पुं), भोगान्तराय (पुं), उपभोगान्तराय (पुं), हास (पुं), रति (स्त्री), अरति (स्त्री), भीति (स्त्री), जुगुप्सा (स्त्री), शोक (पुं), काम (पुं), मिथ्यात्व (क्ली), अज्ञान (क्ली), निद्रा (स्त्री), अविरति (स्त्री), राग (पुं), द्वेष (पुं)
निद्रा प्रमीला शयनं संवेशस्वापसंलयाः ।
नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ ॥
निद्रा (स्त्री), प्रमीला (स्त्री), शयन (क्ली), संवेश (पुं), स्वाप (पुं), संलय (पुं), नन्दीमुखी (स्त्री), श्वासहेति (स्त्री), तन्द्रा (स्त्री), सुप्त (क्ली)
Tamil
Tamilநித்3ரா : தூக்கக் கலக்கம், தூக்கம்.
अमरकोशः
SanskritWord: निद्रा
Root: निद्रा
Gender: स्त्री
Number: all
Meaning(s):
⇒ sleep
⇒ sloth
⇒ slumber
⇒ sleepiness
⇒ drowsiness
⇒ budding state of a flower
⇒ mystical name of the letter bh
Shloka(s):
1|7|36|2 ► स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥ (नाट्यवर्गः)
3|3|176|2 ► इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः॥ (नानार्थवर्गः)
Synonym(s):
➠ 1|7|36|2 ⇢ निद्रा (निद्रा) (स्त्री) ⇒ sleep, sloth, slumber, sleepiness, drowsiness, budding state of a flower, mystical name of the letter bh
➠ 1|7|36|2 ⇢ शयनम् (शयन) (नपुं) ⇒ bed, rest, sleep, couch, repose, resting, sleeping, copulation, lying down, sleeping-place, sexual intercourse, act of lying down or sleeping
➠ 1|7|36|2 ⇢ स्वापः (स्वाप) (पुं) ⇒ sleep, dream, sloth, dreaming, numbness, sleeping, ignorance, sleepiness, sleep of a limb, loss of sensation
➠ 1|7|36|2 ⇢ स्वप्नः (स्वप्न) (पुं) ⇒ sleep, sloth, dreaming, sleeping, indolence, sleepiness, drowsiness, sleeping too much
➠ 1|7|36|2 ⇢ संवेशः (संवेश) (पुं) ⇒ seat, chair, dream, stool, dreaming, entrance, sleeping, bedchamber, lying down, approaching near to, kind of sexual union
➠ 3|3|176|2 ⇢ तन्द्रा (तन्द्रा) (स्त्री) ⇒ fatigue, laziness, lassitude, exhaustion, drowsiness
Related word(s):
गुण-गुणी-भावः ➡ निद्राशीलः
जातिः ➡ क्रिया
शब्दकल्पद्रुमः
Sanskritनिद्रा, (निन्द्यते इति । निदि कुत्सायाम् +“निन्देर्नलोपश्च ।” उणां । २ । १७ । इति रक्नलोपश्च ।) मेध्यामनःसंयोगः । इति जग-दीशः ॥
सुषुप्त्यवस्थास्वन्यावस्था । इति चण्डी-टीकायां नागभट्टः । घुम इति भाषा ॥
तत्-पर्य्यायः । शयनम् २ स्वापः ३ स्वप्नः ४ संवेशः ५ ।इत्यमरः । २ । ७ । ३६ ॥
सुप्तिः ६ स्वपनम् ७ ।इति शब्दरत्नावली ॥
यथाकाले सेवितनिद्रा-गुणाः । धातुसाम्यत्वम् । अतन्द्रितत्वम् । पुष्टि-वर्णबलोत्साहाग्निदीप्तिकारित्वञ्च ॥
* ॥
दिवा-स्वप्नगुणः । स्निग्धत्वम् । तृट्शूलहिक्काजीर्णाति-सारिणां हितत्वञ्च ॥
* ॥
आसीनप्रचलायि-तस्य उपविश्य निद्रावशाद्दोलायमानस्य गुणः ।अरूक्षत्वम् । अनभिष्यन्दित्वञ्च ॥
* ॥
निद्रासात्म्यीकृतानां दिवा रात्रौ च स्वपतां जाग्रतांवा दोषो न भवति । इति राजवल्लभः ॥
* ॥
निद्रारहिता यथा, --“कुतो निद्रा दरिद्रस्य परप्रेष्यकरस्य च ।परनारीप्रसक्तस्य परद्रव्यहरस्य च ॥
” * ॥
सुखसुप्ता यथा, --“सुखं स्वपित्यनृणवान् व्याधिमुक्तश्च यो नरः ।सावकाशस्तु यो भुङ्क्ते यस्तु दारैर्न शङ्कितः ॥
”इति गारुडे नीतिसारः ॥
(“सत्त्वाच्च तम एव स्यात् जाग्रते स्वपते प्रभुः ।तमसा प्रावृतो देही व्योम्ना च शून्यताङ्गतः ॥
देहं विश्रमते यस्मात्तस्मान्निद्रा प्रकीर्त्तिता ।नासार्द्धे च भ्रुवोर्म्मध्ये लीयते चान्तरात्मना ॥
तस्माच्चेतो भवेत्तत्र निद्राव्यालीयते नृणाम् ॥
”इति शारीरस्थाने प्रथमेऽध्याये हारीतेनोक्तम् ॥
“निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् ।वृषता क्लीवता ज्ञानमज्ञानं जीवितं न च ॥
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता ।सुखायुषी पराकुर्य्यात् कालरात्रिरिवापरा ॥
”इति वाभटे सूत्रस्थाने सप्तमेऽध्याये ॥
“पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् ।जाग्रतस्तद्विकशति स्वपतश्च निमीलति ॥
निद्रान्तु वैष्णवीं पाप्मानमुपदिशन्ति सा स्वभा-वत एव सर्व्वप्राणिनोऽभिस्पृशति ॥
तत्र यदासंज्ञावहानि स्रोतांसि तमो भूयिष्ठः श्लेष्मा प्रति-पद्यते तदा तामसी नाम निद्रा सम्भवत्यनव-बोधिनी सा प्रलयकाले । तमोभूयिष्ठानामहःसुनिशासु च भवति । रजो भूयिष्ठानामनिमि-त्तम् । सत्त्वभूयिष्ठानामर्द्धरात्रे । क्षीणश्लेष्मणाम-निलबहुलानां मनःशरीराभितापवताञ्च नैवसा वैकारिकी भवति ॥
हृदयञ्चेतनास्थानमुक्तं सुश्रुत ! देहिनाम् ।तमोऽभिभूते तस्मिंस्तु निद्रा विशति देहिनाम् ॥
निद्राहेतुस्तमः सत्त्वं बोधने हेतुरुच्यते ।स्वभाव एव वा हेतुर्गरीयान् परिकीर्त्तते ॥
पूर्व्वदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः ।रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान् ॥
करणानान्तु वैकल्ये तमसाभिप्रवर्द्धिते ।अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥
सर्व्वर्त्तुषु दिवास्वापः प्रतिषिद्धोऽन्यत्र ग्रीष्मात् ॥
”इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥
)
वाचस्पत्यम्
Sanskritनिद्रा स्त्री नि + द्रा--भावे अ । १ शयने स्वप्ने । निद्रा चकालाग्निरुद्रपत्नी यथा “कालाग्निरुद्रपत्नी च निद्रासा सिद्धयोगिनी । सर्वलोकाः समाच्छन्ना यया योगेनरात्रिषु” इति । रात्रिषु योगेन सम्बन्धेन । २ तत्त्वा-प्रतिबोधे । ३ अभावप्रत्ययालम्बनायां वृत्तौ चतसृणांवृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तदालम्बना-वृत्तिरेव निद्रा न तु ज्ञानाद्यभावमात्रम् । सत्वरजउभयविरोधिन्यां तमोगुणालम्बनायां ४ वृत्तौ । “निद्रा-भिमानिनी काली तामसी शक्तिरिष्यते । यदा तुमनसि क्लान्ते कर्मात्मानः क्लमान्विताः । विषयेभ्यो निव-र्त्तन्ते तदा स्वपिति मानवः” । कर्मात्मानः उभयविधा-नीन्द्रियाणि “सुखं स्वपित्यनृणवान् व्याधिमुक्तश्च योनरः । सावकाशस्तु यो भुङ्क्ते यस्तु दारैर्न शङ्कितः ।कुतो निद्रा दरिद्रस्य परप्रेष्यकरस्य च । परनारीप्रस-क्तस्य परद्रव्यहरस्य च” निद्रा च मेध्या नाडीसंयोग-रूपेति नैयायिका चित्तवृत्तिभेद इति योगाचार्य्या यथा“वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः” “प्रमाणविर्य्ययविकल्पनिद्रास्मृतयः पा० सू० वृत्तीः पञ्चधा विभज्य “अभावप्रत्ययावलम्बना वृत्तिर्निद्रा” सू० निद्रावृत्तिर्लक्षिता ५ साच सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः कथं? सुखमह-मस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशदीकरोति ।दुःखमहमस्वाप्सं स्त्यानं मे मनोभ्रमत्यनवस्थितम् ।गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मेचिचमलसं मुषितमिव तिष्ठतीति । स स्वल्वयं प्रबुद्धस्यप्रत्यवमर्शो न स्यात् असति प्रत्ययानुभवे तदाश्रिताःस्मृतयश्च तद्विषया न स्युः । तस्मात्प्रत्ययविशेषो निद्रा ।सा च समाधावितरप्रत्ययवन्निरोद्धव्येति” भा० “अधिकृतंहि वृत्तिपदमनुवादकं प्रमाणविपर्यविकल्पस्मृतीनां वृ-त्तित्वं प्रतिपरीक्षकाणामविप्रतिपत्तेरतस्तदनूद्यते विशेषविघानायं निद्रायास्तु वृत्तित्वे परीक्षकाणां विप्रतिपत्ते-रिति वृत्तित्वं विधेयम् । न च प्रकृतमनुवादकं विधा-नाय कल्पत इति पुनर्वृत्तिग्रहणम् जाग्रत्स्वप्रवृत्ती-नामभावस्तस्य प्रत्ययः कारणं बुद्धिसत्वाच्छादकं तमस्त-देवालम्बनं विषयो यस्याः सा तथोक्ता वृत्तिर्निद्रा ।बुद्धिसत्वे हि त्रिगुणे यदा सत्वरजसी अभिभूय समस्त-कारणावरकमाविरस्ति तमस्तदा बुद्धेर्विषयाकारपरिणा-माभावादुद्धूततमोमयोः वुद्धिमवबुध्यमानः पुरुषः सुषु-प्तोऽन्तःसंज्ञ इत्युच्यते । कस्मात्पुनर्निरुद्धकैवल्ययो-रिव वृत्त्यभाव एव न निद्रेत्यत आह । सा च सम्प्रबोधेप्रत्यवमर्शात्सोपपत्तिकात् स्मरणात्प्रत्ययविशेषः । कथं?यदा हि सत्वसचिवन्तम आविरस्ति तदेदृशः प्रत्यवमर्शसुप्तोत्थितस्य भवति । सुखमहमस्वाप्सम्प्रसन्नं मनःप्रज्ञां मे विशदीकरोति स्वच्छीकरोति इति यदा तुरजःसचिवन्तमः आविरस्ति तदेदृशः प्रत्यवमशइत्याह । दुःखमहमस्वापसं स्त्यानम् अकर्मण्यं मे मनःकस्मात् यतो भ्रमत्यनवस्थितम् । नितान्ताभिमूतरजःसत्वे तमःसमुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शमाह ।गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तंमे चित्तमलसम्मुषितमिव तिष्ठतीति । साध्यव्यति-रेके हेतुव्यतिरेकमाह । स खल्ययमिति । प्रबुद्धस्यप्रबुद्धमात्रस्य तदाश्रिताश्चेति बोधकाले प्रत्ययानुवृत्त्य-भावे कारणानुभव इत्यर्थः । ननु प्रमाणादयो व्युत्थान-चित्ताधिकरणा निरुध्यन्तां समाधिप्रतिपक्षत्वान्निद्रा-यास्त्वेकाग्रवृत्तितुल्याया कथं समाधिप्रतिपक्षतेत्यतआह । स च समाधाविरिति । एकाग्रतुल्यापि ताम-सत्वेन निद्रा सवीजनिर्वीजसमाधिप्रतिपक्ष इति सापिनिरोद्धव्येत्यर्थः” विवरणम् । इयञ्च वेदान्तिमिः सुषुप्तिरित्यभिधीयते ।
Grassman
GermanBurnouf
Frenchनिद्रा निद्रा (द्रै) sommeil
somnolence
au fig.
paresse.
निद्राण a. endormi, assoupi.
Clos, fermé.
निद्रामि 2 et निद्रायामि 4. Dormir
s'endormir.
निद्रालु a. endormi
somnolent. -- S. le parfum nommé
नीली।
निद्रावृक्ष obscurité [m à arbre du sommeil].
निद्रासञ्जनन (सम्
जन् au c.) phlegme, humeur
somnolente, t. de méd.
Stchoupak
French२ नि-द्रा-
sommeil, not. profond
somnolence.
°कलश- vase porte-bonheur placé à côté du lit.
°क्षण- nt. instant de sommeil.
°चौर- qui prive de sommeil.
°दरिद्री-कृ- priver de sommeil.
°मुद्रा- attitude de sommeil
-इत- a. endormi.
°वश- a. sous l'empire du sommeil.
निद्रान्तरित- a. v. plongé dans le sommeil.
निद्रान्ध- a. profondément endormi.
निद्रालस- a. id.
somnolent, alangui par le sommeil
-य- nt.
somnolence, long sommeil.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
